इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ शृणुतं॒ हव॑म् ।मध्व॒ः सोम॑स्य पी॒तये॑ ॥
इ॒मम् । मे॒ । स्तोम॑म् । अ॒श्वि॒ना॒ । इ॒मम् । मे॒ । शृ॒णु॒त॒म् । हव॑म् ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥
हे अश्विना अश्विनौ मे मदीयं इमं स्तोमं स्तोत्रं किंच मे मदीयं इममिदमागमनविषयं हवमाह्वानंच शृणुतम् ॥ २ ॥