बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् ।
येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥
बृ॒हत् । इन्द्रा॑य । गा॒य॒त॒ । मरु॑तः । वृ॒त्र॒हम्ऽत॑मम् ।
येन॑ । ज्योतिः॑ । अज॑नयन् । ऋ॒त॒ऽवृधः॑ । दे॒वम् । दे॒वाय॑ । जागृ॑वि ॥
हे मरुतः । रुशब्दे मितं रुवंतीति मरुतः । हे मितभाषिणः स्तोतारः वृत्रहन्तमं अतिशयेन पापविनाशनं बृहत्साम इन्द्राय इन्द्रार्थं गायत अस्मदीययज्ञे गानं कुरुत । ऋतावृधः सत्यस्य यज्ञस्यवा वर्धका विश्वेदेवाः देवाय द्योतमानायेन्द्राय देवं देवनशीलं जागृवि सर्वेषां जा- गरणशीलं ज्योतिः सूर्यं येनसाम्ना अजनयन् इन्द्रार्थमुदपादयन् तत्सामगायतेति ॥ १ ॥