इन्द्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिरः॑ ।
अ॒र्कम॑र्चन्तु का॒रवः॑ ॥                
                    इन्द्रा॑य । मद्व॑ने । सु॒तम् । परि॑ । स्तो॒भ॒न्तु॒ । नः॒ । गिरः॑ ।
अ॒र्कम् । अ॒र्च॒न्तु॒ । का॒रवः॑ ॥                
मद्वने माद्यतेः क्वनिप् मदनशीलायेन्द्राय तदर्थं सुतमभिषुतं सोमं नोस्मदीया गिरः स्तुतिलक्षणावाचः परिष्टोभन्तु स्तोभतिः स्तुतिकर्मा परितः सोमं स्तुवन्तु । ततः कारवः स्तुतिकारिणः स्तोतारश्च अर्कं सर्वैरर्चनीयं सोममर्चन्तु पूजयन्तु ॥ १९ ॥