मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् ३०

संहिता

मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते ।
मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥

पदपाठः

मो इति॑ । सु । ब्र॒ह्माऽइ॑व । त॒न्द्र॒युः । भुवः॑ । वा॒जा॒ना॒म् । प॒ते॒ ।
मत्स्व॑ । सु॒तस्य॑ । गोऽम॑तः ॥

सायणभाष्यम्

हे वाजानांपते अन्नानांपते बलानां वा हे इन्द्र तन्द्रयुः निष्कारणं निवृत्तकर्मवत्वादालस्ययुक्तो ब्रह्मेव ब्राह्मणइव । अथापि तद्वदर्थे भाष्यतइति । यास्कोक्तमनुसूत्य तंद्रयुक्तइत्युक्तम् । अथवा यागादिकर्मपरित्यागेनालस्यमिच्छन् नास्तिको ब्राह्मणइव त्वं मोषु भुवः सुष्ठु मा भवः । सर्वदा अस्मत्कर्मान्वितो भवेत्याशासनम् । तदेवाह-सुतस्याभिषुतस्य ततो गोमतः गव्येन क्षीरेण दध्नावा मिश्रणवतः सोमस्य पानेन मत्स्व माद्य । हृष्टोभव ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०