त्वं ह्य१॒॑ङ्ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः ।अ॒मृ॒त॒त्वाय॑ घो॒षयः॑ ॥
त्वम् । हि । अ॒ङ्ग । दैव्या॑ । पव॑मान । जनि॑मानि । द्यु॒मत्ऽत॑मः ।
अ॒मृ॒त॒ऽत्वाय॑ । घो॒षयः॑ ॥
हे पवमान पूयमान सोम द्युमत्तमः अतिशयेन दीप्तिमान् त्वं हि त्वमेव दैव्या देव- संबन्धीनि जनिमानि जन्मानि देवानित्यर्थः तानभिलक्ष्य अमृतत्वाय तेषाममरणाय अंग क्षिप्रं घोषयः शब्दायसे । घुषिरविशब्दने ण्यन्तस्य लेटि रूपं हियोगादनिघातः ॥ ३ ॥