शु॒क्रः प॑वस्व दे॒वेभ्य॑ः सोम दि॒वे पृ॑थि॒व्यै शं च॑ प्र॒जायै॑ ॥
शु॒क्रः । प॒व॒स्व॒ । दे॒वेभ्यः॑ । सो॒म॒ । दि॒वे । पृ॒थि॒व्यै । शम् । च॒ । प्र॒ऽजायै॑ ॥
हे सोम शुक्रोदीप्तस्त्वं देवेभ्योदेवार्थं पवस्व क्षर । किंच दिवे पृथिव्यैच द्यावापृथि- वीभ्यांच ततः प्रजायै प्रजाभ्यश्च शं सुखं च कुरु ॥ ५ ॥