मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २०, ऋक् १

संहिता

प्र क॒विर्दे॒ववी॑त॒येऽव्यो॒ वारे॑भिरर्षति ।
सा॒ह्वान्विश्वा॑ अ॒भि स्पृधः॑ ॥

पदपाठः

प्र । क॒विः । दे॒वऽवी॑तये । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ ।
स॒ह्वान् । विश्वाः॑ । अ॒भि । स्पृधः॑ ॥

सायणभाष्यम्

कविर्मेधावी सोमो देववीतये देवानां पानाय अव्यः अवेर्वारेभिः वारैः दशापवित्रैः प्रार्षति प्रकर्षेणगच्छति । साह्वान् शत्रूणां सोढा सोमोविश्वाः स्पृधः सर्वान् संग्रामान् हिंसकान्वा अभिभवतीतिशेषः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०