मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३४, ऋक् २

संहिता

सु॒त इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्य॑ः ।सोमो॑ अर्षति॒ विष्ण॑वे ॥

पदपाठः

सु॒तः । इन्द्रा॑य । वा॒यवे॑ । वरु॑णाय । म॒रुत्ऽभ्यः॑ ।
सोमः॑ । अ॒र्ष॒ति॒ । विष्ण॑वे ॥

सायणभाष्यम्

अयं सुतोभिषुताः सोम इन्द्राद्यर्थं अर्षति गच्छति इन्द्राय वायवे वरुणाय मरुद्भ्यश्च विष्णवेच अर्षति गच्छति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४