मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५१, ऋक् ३

संहिता

तव॒ त्य इ॑न्दो॒ अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते ।
पव॑मानस्य म॒रुतः॑ ॥

पदपाठः

तव॑ । त्ये । इ॒न्दो॒ इति॑ । अन्ध॑सः । दे॒वाः । मधोः॑ । वि । अ॒श्न॒ते॒ ।
पव॑मानस्य । म॒रुतः॑ ॥

सायणभाष्यम्

हे इन्दो सोम तव संबन्धिनं मधोर्मदकरस्य पवमानस्य पूयमानमंधसोन्नं कर्मणि षष्ठी त्ये ते इमे देवाइन्द्रादयोमरुतश्च व्यश्नते व्याप्नुवते व्याप्नुवन्तीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः