मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६३, ऋक् २५

संहिता

पव॑माना असृक्षत॒ सोमा॑ः शु॒क्रास॒ इन्द॑वः ।
अ॒भि विश्वा॑नि॒ काव्या॑ ॥

पदपाठः

पव॑मानाः । अ॒सृ॒क्ष॒त॒ । सोमाः॑ । शु॒क्रासः॑ । इन्द॑वः ।
अ॒भि । विश्वा॑नि । काव्या॑ ॥

सायणभाष्यम्

शुक्रास उज्ज्वला इन्दवोदीप्ताः पवमानाः क्षरन्तः सोमाः विश्वानि काव्या काव्यानि स्तोत्राण्यभ्यसृक्षत सृज्यन्ते ऋत्विग्भिः ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४