इषं॑ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं॑ सोम वि॒श्वतः॑ ।
आ प॑वस्व सह॒स्रिण॑म् ॥
इष॑म् । तो॒काय॑ । नः॒ । दध॑त् । अ॒स्मभ्य॑म् । सो॒म॒ । वि॒श्वतः॑ ।
आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् ॥
हे सोम त्वं नोस्माकं तोकाय पुत्राय इषमन्नं दधद्विदधत् प्रयच्छन् सहस्रिणं सहस्र- संख्याकं धनं विश्वतः सर्वतोदिक्षु अस्मभ्यं वा पवस्व आप्रयच्छ अस्मभ्यं पुत्रायच अन्न- धनादिकं प्रयच्छेत्यर्थः ॥ २१ ॥