आ म॒न्द्रमा वरे॑ण्य॒मा विप्र॒मा म॑नी॒षिण॑म् ।
पान्त॒मा पु॑रु॒स्पृह॑म् ॥
आ । म॒न्द्रम् । आ । वरे॑ण्यम् । आ । विप्र॑म् । आ । म॒नी॒षिण॑म् ।
पान्त॑म् । आ । पु॒रु॒ऽस्पृह॑म् ॥
हे सोम मन्द्रं मदकरं स्तुत्यंवा त्वामावृणीमहे वरेण्यं सर्वैर्वेरणीयं संभजनीयंच । किंच विप्रं मेधाविनं त्वां तथा मनीषिणं मनसईषा मनीषा तद्वन्तं स्तुतिमन्तंवा त्वामा- वृणीयहे । प्रत्येकं विशेषणापेक्षया आइत्युपसर्गः कृतः । किंच पान्तं सर्वेषां रक्षकं पुरुस्पृहं बहुभिः स्पृहणीयं च त्वां संभजामहे ॥ २९ ॥