आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ ।
इ॒षे प॑वस्व सं॒यत॑म् ॥
आ । प॒व॒मा॒न॒ । सु॒ऽस्तु॒तिम् । वृ॒ष्टिम् । दे॒वेभ्यः॑ । दुवः॑ ।
इ॒षे । प॒व॒स्व॒ । स॒म्ऽयत॑म् ॥
हे पवमान पूयमान पुनान वा सोम सुष्टुतिं शोभनस्तुतियुक्तां वृष्टिं देवेभ्यः देवानां दुवः सुपांसुलुगिति चतुर्थ्यालुक् दुवसे परिचरणाय आपवस्व आगमय त्वं यथा मदीयया स्तुत्या वृष्टिर्भविष्यति तथाकुर्वित्यर्थः । किंच अस्माकमिषे अन्नार्थंच संयतं सम्यगस्मान् संगच्छन्तीं वृष्टिं कुरु । यद्वा दुवः परिचर्यामभिलक्ष्य क्रियमाणां सुष्टुतिं शोभनस्तुतिरूपां वृष्टिं बहुस्तुति- मित्यर्थः एतां देवेभ्यः प्रापय ॥ ३ ॥