ऋ॒तस्य॒ तन्तु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒ अग्रे॒ वरु॑णस्य मा॒यया॑ ।धीरा॑श्चि॒त्तत्स॒मिन॑क्षन्त आश॒तात्रा॑ क॒र्तमव॑ पदा॒त्यप्र॑भुः ॥
ऋ॒तस्य॑ । तन्तुः॑ । विऽत॑तः । प॒वित्रे॑ । आ । जि॒ह्वायाः॑ । अग्रे॑ । वरु॑णस्य । मा॒यया॑ ।
धीराः॑ । चि॒त् । तत् । स॒म्ऽइन॑क्षन्तः । आ॒श॒त॒ । अत्र॑ । क॒र्तम् । अव॑ । प॒दा॒ति॒ । अप्र॑ऽभुः ॥
ऋतस्य सत्यभूतस्य यज्ञस्य तन्तुस्तनिता पवित्रे अविवालमये दशापवित्रे विततोवि- स्तृतः । यद्वा पवित्रे अन्तरिक्षे विस्तृतः सोमः वरुणस्य जिह्वायाअग्रे मायया कर्मणा आ- स्थित वरुणजिह्वाग्रे आपस्तिष्ठन्ति तासु सोमोवसतीति वसतीवर्याद्युदकेस्थितइत्यर्थः । ततः धीराश्चित् कर्मणिप्राज्ञाएव तत् वरुणजिह्वाग्रस्थानं समिनक्षन्तः इनक्षतिर्गतिकर्मा । संव्याप्नुवन्तः सन्तआशत । स्तुतिभिर्हविर्भिर्वा प्राप्नुवन् यः पुनः कर्तं कालाध्वनोरितिद्विती- या । कर्मणिअप्रभुः समर्थोन भवति सोद्यमत्रास्मिन्नेवलोके अवपदाति अवस्तान्नरकेपतति नोपरिगच्छति । पदगतौ लेट्यडागमः तस्मात् । सर्वैः अग्निष्टोमादिकर्म कर्तव्यमित्येषोर्थो- भिहितोभवति ॥ ९ ॥
शिशुर्नेतिनवर्चं सप्तमंसूक्तं दैर्घतमस्यस्य कक्षीवतआर्षं पवमानसोमदेवताकं अष्टमीत्रिष्टुप् शिष्टाजगत्यः । तथाचानुक्रम्यते—शिशुर्नकक्षीवांस्त्रिष्टुबष्टमीति । गतः सूक्तविनियोगः ।