मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८५, ऋक् १०

संहिता

दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतो॑ वे॒ना दु॑हन्त्यु॒क्षणं॑ गिरि॒ष्ठाम् ।
अ॒प्सु द्र॒प्सं वा॑वृधा॒नं स॑मु॒द्र आ सिन्धो॑रू॒र्मा मधु॑मन्तं प॒वित्र॒ आ ॥

पदपाठः

दि॒वः । नाके॑ । मधु॑ऽजिह्वाः । अ॒स॒श्चतः॑ । वे॒नाः । दु॒ह॒न्ति॒ । उ॒क्षण॑म् । गि॒रि॒ऽस्थाम् ।
अ॒प्ऽसु । द्र॒प्सम् । व॒वृ॒धा॒नम् । स॒मु॒द्रे । आ । सिन्धोः॑ । ऊ॒र्मा । मधु॑ऽमन्तम् । प॒वित्रे॑ । आ ॥

सायणभाष्यम्

दिवोद्योतमानस्ययज्ञस्य संबंधिनि नाके दुःखरहिते हविर्धानाख्येस्थाने मधुजिह्वाः मधुरवाचः असश्चतः असंसक्ताः पृथक् पृथगित्यर्थः । यद्वा चिरमकृत्वा शीघ्रमभिषुण्वन्तो- वेना एतन्नामकामहर्षयो दुहन्ति अभिषुण्वन्ति । यद्वा द्युलोकएव वेनाः कांताः देवादु- हन्ति तंसोमं उक्षणं सेक्तारं गिरिष्ठां गिरौउन्नतेदेशॆ वर्तमानं अप्सूदकेषु वसतीवरीषु अन्तर्वृधानं वर्धमानं द्रप्सं रसरूपं समुद्रे समुद्रवत् प्रवृद्धेद्रोणकलशे सिन्धोरुदकस्य ऊर्मा ऊर्मौ पूरेआसिंचंतीतिशॆषः तदर्थं मधुमन्तं माधुर्योपेतंरसं पवित्रे दशापवित्रे आसिंचन्ती- तिशेषः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११