मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ३६

संहिता

स॒प्त स्वसा॑रो अ॒भि मा॒तर॒ः शिशुं॒ नवं॑ जज्ञा॒नं जेन्यं॑ विप॒श्चित॑म् ।
अ॒पां ग॑न्ध॒र्वं दि॒व्यं नृ॒चक्ष॑सं॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जसे॑ ॥

पदपाठः

स॒प्त । स्वसा॑रः । अ॒भि । मा॒तरः॑ । शिशु॑म् । नव॑म् । ज॒ज्ञा॒नम् । जेन्य॑म् । वि॒पः॒ऽचित॑म् ।
अ॒पाम् । ग॒न्ध॒र्वम् । दि॒व्यम् । नृ॒ऽचक्ष॑सम् । सोम॑म् । विश्व॑स्य । भुव॑नस्य । रा॒जसे॑ ॥

सायणभाष्यम्

सप्त सर्पणस्वभावाः सप्तसंख्याकावा स्वसारः मातरो मातृस्थानीया गंगायमुनाद्याः शिशुं शिशुस्थानीयं अभिगच्छन्तीतिशॆषः । स्वकीयैः पयोभिराच्छादयन्तीतिशॆषः । कीदृशं शिशुं नवं जज्ञानं जायमानं जेन्यं जयशीलंविपश्चितं विद्वांसं अपांजनकं तेषांमध्ये वर्तमानं वा गंधर्वं उदकस्यधातारं दिव्यं दिविभवं नृचक्षसं नृणांद्रष्टारंसोमं अभिगच्छन्ति किमर्थं विश्वस्य भुवनस्य राजसे विराजनार्थं ॥ ३६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९