ए॒वा दे॑व दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑से देव॒पानः॑ ।
म॒हश्चि॒द्धि ष्मसि॑ हि॒ताः स॑म॒र्ये कृ॒धि सु॑ष्ठा॒ने रोद॑सी पुना॒नः ॥
ए॒व । दे॒व॒ । दे॒वऽता॑ते । प॒व॒स्व॒ । म॒हे । सो॒म॒ । प्सर॑से । दे॒व॒ऽपानः॑ ।
म॒हः । चि॒त् । हि । स्मसि॑ । हि॒ताः । स॒ऽम॒र्ये । कृ॒धि । सु॒ऽस्था॒ने । रोद॑सी॒ इति॑ । पु॒ना॒नः ॥
हेदेव द्योतमान स्तोतव्य वा हेसोम देवपानः देवैः पातव्यस्त्वं देवताते देवैस्तते वित ते यज्ञे महे महते प्सरसे भक्षणाय देवानांपानाय एव एवं पवस्व क्षर । ततोवयं हिताः त्वयाप्रेरिताः सन्तः समर्ये मरणधर्मरहिते संग्रामे महश्चित् महतोबलाधिकानपि शत्रून् स्मसिहि अभिभवेम खलु । किंच पुनानः पूयमानस्त्वं रोदसी द्यावापृथिव्यौ सुस्थाने अस्माकं शोभनावासस्थाने सत्यौ कृधि कुरु ॥ २७ ॥