मुख्यपृष्ठम्
|
मण्डलवर्गीकरणम्
|
अष्टकवर्गीकरणम्
|
अनुक्रमणिका
ऋषिः
देवता
छन्दः
पदानि
मन्त्राः
विषयाः
|
निरुक्तम्
|
ऐतरेयब्रह्मण
|
बृहद्देवता
मन्त्रानुक्रमणिका
अ
आ
इ
ई
उ
ऊ
ऋ
ए
ऐ
ओ
औ
क
ख
ग
घ
च
छ
ज
त
द
ध
न
प
ब
भ
म
य
र
व
श
ष
स
ह
मन्त्र (मण्डल
.
सूक्त
.
ऋक्)
ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् ।पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ॥ (१०.१०.१)
ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये॑ ।यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै॑ त॒स्थथु॑ः ॥ (८.२२.१)
ओ त्ये नर॒ इन्द्र॑मू॒तये॑ गु॒र्नू चि॒त्तान्त्स॒द्यो अध्व॑नो जगम्यात् ।दे॒वासो॑ म॒न्युं दास॑स्य श्चम्न॒न्ते न॒ आ व॑क्षन्त्सुवि॒ताय॒ वर्ण॑म् ॥ (१.१०४.२)
ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॒॑ समे॑तु॒ प्रति॒ स्तोमं॑ दधीमहि तु॒राणा॑म् ।यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा॑स्य र॒त्निनो॑ विभा॒गे ॥ (७.४०.१)
ओ षु घृ॑ष्विराधसो या॒तनान्धां॑सि पी॒तये॑ ।इ॒मा वो॑ ह॒व्या म॑रुतो र॒रे हि कं॒ मो ष्व१॒॑न्यत्र॑ गन्तन ॥ (७.५९.५)
ओ षु प्र या॑हि॒ वाजे॑भि॒र्मा हृ॑णीथा अ॒भ्य१॒॑स्मान् ।म॒हाँ इ॑व॒ युव॑जानिः ॥ (८.२.१९)
ओ षु वृष्ण॒ः प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ ।व॒वृ॒त्यां चि॒त्रवा॑जान् ॥ (८.७.३३)
ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न ।नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सि॑न्धवः स्रो॒त्याभि॑ः ॥ (३.३३.९)
ओ षू णो॑ अग्ने शृणुहि॒ त्वमी॑ळि॒तो दे॒वेभ्यो॑ ब्रवसि य॒ज्ञिये॑भ्यो॒ राज॑भ्यो य॒ज्ञिये॑भ्यः ।यद्ध॒ त्यामङ्गि॑रोभ्यो धे॒नुं दे॑वा॒ अद॑त्तन ।वि तां दु॑ह्रे अर्य॒मा क॒र्तरी॒ सचाँ॑ ए॒ष तां वे॑द मे॒ सचा॑ ॥ (१.१३९.७)
ओ सुष्टु॑त इन्द्र याह्य॒र्वाङुप॒ ब्रह्मा॑णि मा॒न्यस्य॑ का॒रोः ।वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ (१.१७७.५)
ओ॒कि॒वांसा॑ सु॒ते सचाँ॒ अश्वा॒ सप्ती॑ इ॒वाद॑ने ।इन्द्रा॒ न्व१॒॑ग्नी अव॑से॒ह व॒ज्रिणा॑ व॒यं दे॒वा ह॑वामहे ॥ (६.५९.३)
ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् ।इन्द्र॒श्चर्मे॑व॒ रोद॑सी ॥ (८.६.५)
ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते॑ व॒यं द॑दामहे ।श्चोत॑न्ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तान्दे॑व॒शो वि॑हि ॥ (३.२१.५)
ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः ।यू॒यं हि ष्ठा भि॒षजो॑ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ॥ (६.५०.७)
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त ।दा॒श्वांसो॑ दा॒शुषः॑ सु॒तम् ॥ (१.३.७)
ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१॒॑द्वतः॑ ।ज्योति॑षा बाधते॒ तमः॑ ॥ (१०.१२७.२)
ओष॑धय॒ः सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ ।यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ॥ (१०.९७.२२)
ओष॑धी॒ः प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः ।अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्व॑ः ॥ (१०.९७.३)
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥ (१०.९७.४)
ओ॒षमित्पृ॑थि॒वीम॒हं ज॒ङ्घना॑नी॒ह वे॒ह वा॑ ।कु॒वित्सोम॒स्यापा॒मिति॑ ॥ (१०.११९.१०)
ओष्ठा॑विव॒ मध्वा॒स्ने वद॑न्ता॒ स्तना॑विव पिप्यतं जी॒वसे॑ नः ।नासे॑व नस्त॒न्वो॑ रक्षि॒तारा॒ कर्णा॑विव सु॒श्रुता॑ भूतम॒स्मे ॥ (२.३९.६)