ओं समाम्नायः समाम्नातः स व्याख्यातव्यस्तमिमं समाम्नाये निघंटव इत्याचक्षते निघंटवः कस्मान्निगमा इमे भवंति छंदोभ्यः समाहृत्य समाहृत्य समाम्नातास्ते निगंतव एव संतो निगमनान्निघंटव उच्यंत इत्यौपमन्यवोऽपि वाहननादेव स्युः समाहता भवंति यद्वा समाहृता भवंति तद्यान्येतानि चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च तानीमानि भवंति तत्रैतन्नामाख्यातयोर्लक्षणं प्रदिशंति भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि तद्यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्यंतं मूर्तं सत्त्वभूतं सत्त्वनामभिर्व्रज्या पक्तिरित्यद इति सत्त्वानामुपदेशो गौरश्चः पुरुषो हस्तीति भवतीति भावस्यास्ते शेते व्रजति तिष्ठतीतींद्रियनित्यं वचनमौदुंबरायणः ॥१॥
तत्र चतुष्ट्वं नोपपद्यते युगपदुत्पन्नानां वा शब्दानामितरेतरोपदेशः शास्त्रकृतो योगश्च व्याप्तिमत्त्वात्तु शब्दस्याणीयस्त्वाच्च शब्देन संज्ञाकरणं व्यवहारार्थं लोके तेषां मनुष्यवद्देवताभिधानं पुरुषविद्यानित्यत्वात्कर्मसंपत्तिर्मंत्रो वेदे । षड्भावविकारा भवंतीति वार्ष्यायणिर्जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति जायत इति पूर्वभावस्यादिमाचष्टे नापरभावमाचष्टे न प्रतिषेधत्यस्तीत्युत्पन्नस्य सत्त्वस्यावधारणं विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद्विकारं वर्धत इति स्वांगाभ्युच्ययं सांयौगिकानां वार्थानां वर्धते विजयेनेति वा वर्धते शरीरेणेति वापक्षीयत इत्येतेनैव व्याख्यातः प्रतिलोमं विनश्यतीत्यपरभावस्यादिमाचष्टे न पूर्वभावमाचष्टे न प्रतिषेधति ॥२॥
अतोऽन्ये भावविकारा एतेषामेव विकारा भवंतीति ह स्माह ते यथावचनमभ्यूहितव्या न निर्बद्धा उपसर्गा अर्थान्निराहुरिति शाकटायनो नामाख्यातयोस्तु कर्मोपसंयोगद्योतका भवंत्युच्चावचाः पदार्था भवंतीति गार्ग्यस्तद्य एषु पदार्थः प्राहुरिमे तन्नामाख्यातयोरर्थविकरणमा इत्यर्वागर्थे प्रपरेत्येतस्य प्राति लोम्यमभीत्याभिमुख्यं प्रतीत्येतस्य प्रातिलोम्यमति सु इत्यभिपूजितार्थे निर्दुरित्येतयोः प्रातिलोम्यं न्यवेति विनिग्रहार्थीया उदित्येतयोः प्रातिलोम्यं समित्येकीभावं व्यपेत्येतस्य प्रातिलोम्यमन्विति सादृश्यापरभावमपीति संसर्गमुपेत्युपजनं परीति सर्वतोभावमधीत्युपरिभावमैश्वर्यं एवमुच्चावचानर्थान्प्राहुस्त उपेक्षितव्याः ॥३॥
अथ निपाता उच्चावचेष्वर्थेषु निपतन्त्यप्युपमार्थेऽपि कर्मोपसंग्रहार्थेऽपि पदपूरणास्तेषामेते चत्वार उपमार्थे भवन्तीवेति भाषायां चान्वध्यायच्चाग्निरिवेंद्र इवेति नेति प्रतिषेधार्थीयो भाषायामुभयमन्वध्यायं नेंद्रं देवममंसतेति प्रतिषेधार्थीयः पुरस्तादुपचारस्तस्य यत्प्रतिषेधति दुर्मदासो न सुरायामित्युपमार्थीय उपरिष्टादुपाचारस्तस्य योनोपमिमीतॆ ॥ चिदित्येषोऽनेककर्माचार्यश्टिदिदं ब्रूयादिति पूजायामाचार्यः कस्मादाचार्य आचारं ग्राहयत्याचिनोत्यर्थानाचिनोति बुद्धिमिति वा दधिचिदित्युपमार्थे कुल्माषांश्चिदाहरेत्यवकुत्सिते कुल्माषाः कुलेषु सीदन्तिनु इत्येषोऽनेककर्मेदं नु करिष्यतीति हेत्वपदेशे कथं नु करिष्यतीत्यनुपृष्टे नन्वेतदकार्षीदिति चाथाप्युपमार्थे भवति ॥ वृक्षस्य नु ते पुरुहूत वयाः । वृक्षस्येव ते पुरुहूत शाखा वयाः शाखा वेतेर्वातायना भवन्ति शाखाः खशयाः शक्नोतेर्वाथ यस्यागमादर्थ पृथक्त्वमह विज्ञायते न त्वौद्देशिकमिव विग्रहेण पृथक्त्वात्स कर्मोपसंग्रहश्चेति समुच्चयार्थ उभाभ्यां संप्रयुज्यतेऽहं च त्वं च वृत्रहन्नित्येतस्मिन्नेवार्थे देवेभ्यश्च पितृभ्य एत्याकारो वेति विचारणार्थे हन्ताहं पृथिवीमिमां निदधानीह वेहवेत्यथापि समुच्चयार्थे भवति ॥ ४ ॥
वायुर्वा त्वा मनुर्वात्वेति अह इति च ह इति च विनिग्रहार्थीयौ पूर्वेण संप्रयुज्येते अयमहेदं करोत्वयमिदमिदं ह करिष्यतीदं न करिष्यतीत्यथाप्युकार एतस्मिन्नेवार्थ उत्तरेण मृषेमे वदंति सत्यमु ते वदंतीत्यथापि पदपूरण इदमु तदु हीत्येषोऽनेककर्मेदं हि करिष्यतीति हेत्वपदेशे कथं हि करिष्यतीत्यनुपृष्टे कथं हि व्याकरीषतीत्य सूयायां किलेति विद्याप्रकर्ष एवं किलेत्यथापि न ननु इत्येताभ्यां संप्रयुज्यतेऽनुपृष्टे न किलैवं ननु किलैवं मेति प्रतिषेधे मा कार्षीर्मा हार्षीरिति च खल्विति च खलु कृत्वा खलु कृतमथापि पदपूरण एवं खलु तद्बभूवेति शश्वदिति विचिकित्सार्थीयो भाषायां शश्वदेवमित्यनुपृष्ट एवं शश्वदित्यस्वयंपृष्टेनूनमिति विचिकित्सार्थीयो भाषायामुभयमन्वध्यायं विचिकित्सार्थीयश्च पदपूरणश्चागस्त्य इंद्राय हविर्निरुप्य मरुद्भ्यः संप्रदित्सांचकार स इंद्र एत्य परिदेवयां चक्रे ॥ ५ ॥
न नूनमस्ति नोश्वः कस्तद्वेद यदद्भुतं । अन्यस्य चित्तमभि संचरेण्यमुताधीतं वि नश्यति ॥ (ऋ. सं. १-१७०-१) न नूनमस्त्यद्यतनं नो एव श्वस्तनमद्यास्मिन्द्यवि द्युरित्यह्नो नामधेयं द्योतत इति सतः श्व उपाशुसनीयः कालो ह्यो हीनः कालः कस्तद्वेद यदद्भुतं । कस्तद्वेद यदभूतमिदमपीतरदद्भु तदुभूतमिवान्यस्य चित्तमभिसंचर्येण्यमभिसंचार्यन्यो नानेयश्चित्तं चेततेरुताधीतं विनश्यतीत्यप्याध्यातं विनश्यत्याध्यातमभिप्रेतमथापि पदपूरणः ॥ ६ ॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिंद्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥ (ऋ. सं. २-१६-९) सा ते प्रतिदुग्धां वरं जरित्रे वरो वरयितव्यो भवति जरिता गरिता दक्षिणा मघोनी मघवती मघमिति धननामधेयं महंतेर्दानकर्मणो दक्षिणा दक्षतेः समर्धयति कर्मणो व्यृद्धं समर्धयतीत्यपि वा प्रदक्षिणागमनाद्दिशमभिप्रेत्य दिग्धस्तप्रकृतिर्दक्षिणो हस्तो दक्षतेरुत्साहकर्मणो दाशतेर्वा स्याद्दानकर्मणो हस्तो हंतेः प्राशुर्हनने देहि स्तोतृभ्यः कामान्मास्मानतिदंहीर्मास्मानतिहाय दा भगो नो अस्तु बृहद्वदेम स्वे वेदने भगो भजतेर्बृहदिति महतो नामधेयं परिवृढं भवति वीरवंतः कल्याणवीरा वा वीरो वीरयत्यमित्रान्वेतेर्वा स्याद्गतिकर्मणो वीरयतेर्वा सीमिति परिग्रहार्थीयो वा पदपूरणो वा । प्र सीमादित्यो असृजत् । प्रासृजदिति वा प्रासृजत्सर्वश इति वा वसीमतः सुरुचो वेन आवरिति च व्यवृणोत्सर्वत आदित्यः सुरुच आदित्यरश्मयः सुरोचनादपि वा सीमेत्येतदनर्थकमुपबंधमाददीत पंचमिकर्माणं सीम्नः सीमतः सीमातो मर्यादातः सीमा मर्यादा विषीव्यति देशाविति त्व इति विनिग्रहार्थीयं सर्व नामानुदात्तमर्धनामेत्येके ॥ ७ ॥
ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उत्वः ॥ (ऋ. सं. १०-७१-११) इत्यृत्विक्कर्मणां विनियो गमाचष्ट ऋचामेकः पोषमास्ते पुपुष्पान् होतर्गर्चनी गायत्रमेको गायति शक्वरीषूद्गाता गायत्रं गायतेः स्तुतिकर्मणः शक्वर्य ऋचः शक्नोतेस्तद्यदाभिर्वृत्रमशकद्धंतुं तच्छक्वरीणां शक्वरीत्वमिति विजायते ब्रह्मैको जाते जाते विद्यां वदति ब्रह्मा सर्वविद्यः सर्वं वेदितुमर्हति ब्रह्मा परिवृढः श्रुततो ब्रह्म परिवृढु सर्वतो यज्ञस्य मात्रां विमिमीत एकोऽध्वर्युरध्वर्युरध्वरयुरध्वरं युनक्त्यध्वरस्य नेताध्वरं कामयत इशि वापि वाधीयाने पुरुषबंधोऽध्वर इति यज्ञनाम ध्वरतिर्हिंसा कर्मा तत्प्रतिषेधो निपात इत्येके तत्कथमनुदात्त प्रकृति नाम स्याद्दृष्टव्ययं तु भवत्युत त्वं सख्ये स्थिरपीतमाहुरिति द्वितीयायामुतो त्वस्मै तन्वं विसस्र इति चतुर्थ्यामधापि प्रथमाबहुवचने ॥ ८ ॥
अक्षण्वंतः कर्णवंतः सखायो मनोजवेष्वसमाबभूवुः । आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ (ऋ. सं. १०-७१-७) अक्षिमंतः कर्णवंतः सखायोऽक्षि चष्टेरनक्तेरित्याग्रायणस्तस्मादेते व्यक्ततरे इव भवत इति ह विज्ञायते कर्णः कृंततेर्निकृत्तद्वारो भवत्यृच्छतेरित्याग्रायण ऋच्छंतीव खे उदगंतामिति ह विज्ञायते मनसां प्रजवेष्वसमा बभूवः । आस्यदघ्ना अपरे उपकक्षदघ्ना अपरे । अस्यमस्कतेः । आस्यंदत एतदन्नमिति वा । दघ्नं दघ्यतेः प्रवतिकर्मणः । दस्यतेर्वा स्याद्विदस्ततरं भवति । प्रस्नेया ह्रदा इवैके । प्रस्नेया ददृशिरे स्नानार्हाः ह्रदो ह्रादतेः शब्दकर्मणः ह्लादतेर्वा स्याच्चीतीभावकर्मणोऽथापि समुच्चयार्थे भवति पर्याया इव त्वदाश्विनमाश्चिनं च पर्यायाश्चेत्यथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रंथेषु वाक्यपूरणा आगच्छंति पदपूरणास्ते मिताक्षरेष्वनर्थकाः कमीमिद्विति ॥ ९ ॥
निष्ट्वक्त्रासश्चिदिन्नरो भूरितोका वृतादिव । बिभ्यस्यंतो ववाशिरे शिशिरं जीवनाय कं । शिशिरं जीवनाय शिशिरं शृणातेः शम्नातेर्वा । एमेनं सृजता सुते । आसृजतैनं सुते । तमिद्वर्धंतु नो गिरः तं वर्धयंत नो गिरः स्तुतयो गिरो गृणातेः । अयमु ते समतसि । अयं ते समतसीवोऽपि दृश्यते । सुविदुरिव (काठक. सं. ८-३ तथा ८-१३) सु विज्ञायेते इवाथापि नेत्येष इदित्येतेन संप्रयुज्यते परिभये ॥ १० ॥
हविर्भिरेके स्वरितः सचंते सुन्वंत एके सवनेषु सोमान् । प्राचीर्मदंत उत दक्षिणाभिर्नेज्विह्मायंत्यो नरकं पतामेति नरकं न्यरकं नीचैर्गमनं नास्मिन्रमणं स्थानमल्पमप्यस्तीति वाथापि न चेत्येष इदित्येतेन संप्रयुज्यतेऽनु पृष्टे न चीत्सुरां पिबंतीति सुरा सुनोतेरेवमुच्चावचेष्वर्थेषु निपतंति त उपेक्षितव्याः ॥ ११ ॥
इतीमानि चत्वारि पदजातान्यनुक्रांतानि नामाख्याते चोपसर्गनिपाताश्च तत्र नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च न सर्वाणीति गार्ग्यो वैयाकरणानां चैके तद्यत्र स्वरसंस्कारौ समर्थौ प्रादेशिकेन गुणेनान्वितौ स्यातां संविज्ञातानि तानि । यथा गौरश्वः पुरुषो हस्तीत्यथ चेत्सर्वाण्याख्यातजानि नामानि स्युर्यः कश्च तत्कर्म कुर्यात्सर्वं तत्सत्त्वं तथाचक्षीरन्यः कश्चाध्वानमश्नुवीताश्वः स वचनीयः स्याद्यत्किंचित्तृंद्यात्तृणं तदथापि चेत्सर्वाण्याख्यातजानि नामानि स्युर्यावद्भिर्भावैः संप्रयुज्येत तावद्भ्यो नामधेयप्रतिलंभः स्यात्तत्रैवं स्थूणा दरशया वा संजनी च स्यात् ॥ १२ ॥
अथापि य एषां न्यायवान्कार्मनामिकः संस्कारो यथा चापि प्रतीतार्थानि स्युस्तथैनान्याचक्षीरन्पुरुषं पुरिषय इत्याचक्षीरन्नष्टेत्यश्वं तर्दनमिति तृणमथापि निष्पन्नेऽभिव्याहारेऽभिविचारयंति प्रथनात्पृथिवीत्याहुः क एनामप्रयिष्यत्किमाधारश्चेत्यथानन्वितेऽर्थेऽप्रादेशिके विकारे पदेभ्यः पदेतरार्धान्त्संचस्कार शाकटायन एतेः कारितं च यकारादिं चांतकरणमस्तेः शुद्धं च सकारादिं चाथापि सत्त्वपूर्वो भाव इत्याहुरपरस्माद्भावात्पूस्यर्वस्यप्रदेशो नोपपद्यत इति तदेतन्नोपपद्यते ॥ १३ ॥
यथो हि नु वा एतत्तद्यत्र स्वरसंस्कारौ समर्थौ प्रादेशिकेन गुणेनान्वितौ स्यातां सर्वं प्रादेशिकमित्येवं सत्यनुपालंभ एषभवति यथो एतद्यः कश्च तत्कर्म कुर्यात् सर्वं तत्सत्त्वं तथाचक्षीरन्निति पश्यामः समानकर्मणां नामधेयप्रतिलंभमे केषां नैकेषां यथा तक्षा परिव्राजको जीवनो भूमिज इत्येतेनैवोत्तरः प्रत्युक्तो यथो एतद्यथा चापि प्रतीतार्थानि स्युस्तथैनान्याचक्षीरन्निति सन्त्यल्पप्रयोगाः कृतोऽप्यैकपदिका यथा व्रततिर्दमूना चाट्य अट् णारो जागरूको दर्वि होमीति यथो एतन्निष्पन्नेऽभिव्याहारेऽभिविचारयन्तिति भवति हि निष्पन्नेऽभिव्याहारे योगपरीष्टिः प्रथनात् पृथिवीत्याहुः क एनामप्रथयिष्यत् किमाधारश्चेत्यथ वै दर्शनेन पृथुरप्रथिता चेदप्यन्यैः तथाप्येवं सर्व एव दृष्टप्रवादा उपालभ्यन्ते ॥ यथो एतत्पदेभ्यः पदेतरार्धान्त्संचस्कारेति योऽनन्वितेऽर्थे संचस्कार स तेन गर्ह्यः सैषा पुरुषगर्हा न शास्त्रगर्हा इति यथो एतदपरस्माद्भावात्पूर्वस्य प्रदेशो नोपपद्यत इति पश्यामः पूर्वोत्पन्नानां सत्त्वानामपरस्माद्भावान्नामधेयप्रतिलंभमेकेषां नैकेषां यथा बिल्वादो लंबचूडक इति बिल्वं भरणाद्वा भेदनाद्वा ॥ १४ ॥
अथापीदमन्तरेण मन्त्रेष्टर्थप्रत्ययो नविद्यतेऽर्थमप्रतियतो नात्यन्तं स्वरसंस्कारोद्देशस्तदिदं विद्यास्थानं व्याकरणस्य कार्त्स्न्यं स्वार्थसाधकं च यदि मन्त्रार्थप्रत्ययायानर्थकं भवतीति कौत्सोऽनर्थका हि मन्त्रास्तदेतेनोपेक्षितव्यं नियतवाचोयुक्तयो नियतानुपूर्व्य भवन्त्यत्रापि ब्राह्मणेन रूपसंपन्ना विधीयन्ते । उरुप्रथस्वेति प्रथयति । प्रोहाणीति प्रोहत्यथाप्यनुपपन्नार्था भवन्ति । ओषदे त्रायस्वैनं स्वधिते मैनं हिंसीरित्याह हिंसन्नथापि विप्रतिषिद्धार्थ भवन्ति । एक एव रुद्रोऽवतस्थे न द्वितीयः । असंख्याता सहस्रणि ये रुद्रा अधि भूम्यां । अशत्रुरिंद्र जज्ञिषे शतंसेना अजयत्साकमिंद्र इत्यथापि जानन्तं संप्रेष्यत्यग्नये समिध्यमानायानुब्रूहीत्यथाप्याहादितिः सर्वमिति । अदितिर्द्यौरदितिरंतरिक्षमिति । तदुपरिष्टाद्व्याख्यास्यामोऽथाप्यविस्पष्टार्था भवन्त्यम्यग्यादृश्मिञ्जारयायि काणुकेति ॥ १५ ॥
अर्धवन्तः शब्दसामान्यादेतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत् कर्म क्रियमाणमृग्यजुर्वाभिवदतीत च ब्राह्मणं क्रीळन्तौ पूत्रैर्नप्तृभिरिति यथो एतन्नियतवाचोयुक्तयो नियतानुपूर्व्य भवन्तीति लौकिकेष्वप्येतद्यथेंद्राग्नी पितापुत्राविति यतो एतद्ब्राह्मणेन रूपसंपन्ना विधीयंत इत्युदितानुवादः स भवति यथो एतदनुपपन्नार्था भवन्तीत्याम्नायवचनादहिंसा प्रतीयेत यथो एतद्विप्रतिषिद्धार्था भवन्तीति लौकिकेष्वपेतद्यथाऽसपत्नोऽयं ब्राहणोऽनमित्तॊ राजेति यथो एतज्जानंतं संप्रेष्यतीति जानन्त मधुपर्कं प्राहेत्यथो एतददितिः सर्वमिति लौकिकेष्वप्येतद्यथा सर्वरसा अनुप्राप्तः पानीयमिति यधो एतदविस्पष्टार्था भवन्तीति नैष स्थाणोरपराथो यदेनमंधो न पश्यति पुरुषापराधः स भवति यथा जानपदीषु विद्यातःपुरुष विशेषो भवति पारोपर्यवित्सु तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवति ॥ १६ ॥
अथापीदमंचरेण पदविभागो न विद्यते । अवसाय पद्वते रुद्र मृळेति पद्वदवसं गावः पथ्यदनमवतेर्गत्यर्थस्यासौ नामकरणस्तस्मान्नावगृह्णंत्यवसायाश्वानिति स्यतिरुपसृष्टो विमोचने तस्मादवगृह्णंति दूतो निर्ऋत्या इदमाजगामेति पंचम्यर्थप्रेक्षा वा षष्ठ्यर्थप्रेक्षावाः कारांतं परोनिर्ऋत्या आचक्ष्वेति चतुर्थ्यर्थप्रेक्षैकारंतं परःसंनिकर्षः संहिता पदप्रकृतिः संहिता पदप्रकृतिनि सर्वचरणानां पार्षदान्यथापि याज्ञे दैवतेन बहवः प्रदेशा भवंति तदेतेनोपेक्षितव्यंते चेद्ब्रू युर्लिंगज्ञा अत्रस्म इति । इंद्र नत्वा शवसा देवता वायुं पृणंतीति वायुलिंगं चेंद्रलिंगं चाग्नेये मंत्रेऽग्निरिव मन्योत्विषितः सहस्वेति तथाग्निर्मान्यवे मंत्रे त्विषितो ज्वलितस्तिषिरित्यप्यस्य दीप्तिनाम भवत्यथापि ज्ञानप्रशंसा भवत्यज्ञान निंदा च ॥ १७ ॥
स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थं । योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा । यद्गृहीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कृॆधो न तज्व्वलति कर्हिचित् । स्थाणुस्तिष्ठतेरर्थोऽर्तेररणस्थो वा ॥ १८ ॥
उत त्वः पश्यन्न ददर्श वाचमु त्वः शृण्वन्न शृणोत्येनां । उतो त्वस्मै तन्वं १ वि सस्रे जायेव पश्य उशती सुवासाः ॥ (ऋ. सं. १०-७१-४) अप्येकः पश्यन्न पश्यति वाचमपि च शृण्वन्न शृणोत्येनामित्यविद्वांसमाहार्धमप्येकस्मै तन्वं विसस्र इति स्वमात्मानं विवृणुते ज्ञानं प्रकाशनमर्थस्याहानया वाचोपमोत्तमया वाचा जायेव पत्ये कामयमाना सुवासा ऋतुकालेषु सुवासाः कल्याणवासाः कामयमाना ऋतुकालेषु । यथा स एनां पश्यति स शृणोतीत्यर्थज्ञप्रशंसा । तस्योत्तरा भूयसे निर्वचनाय ॥ १९ ॥
उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वंत्यपि वाजिनेषु । अधेन्वा चरति माययैष वाचं शुश्रुवान् अफलामपुष्पां ॥ (ऋ. सं. १०-७१-५) आप्येकं वाक्सख्ये स्थिरपिमाहू रममाणं विपीतार्थं देवसख्ये रमणीये स्थान इति वा विज्ञातार्थं यं नाप्नुवंति वाग्ञ्जेयेषु बलवत्स्वप्यधेन्वा ह्येष चरति मायया वाक्पतिरूपया नास्मै कामान्दुग्धे वाग्दोह्यान्देवमनुष्यस्थानेषु यो वाचं श्रुतवान्भवत्यफलामपुष्पामित्यफलास्मा अपुष्पा वाग्भवतीति वा किंचित्पुष्पफलेति वार्थं वाचः पुष्पफलमाह याज्ञदैवते पुष्पफले देवताध्यात्मे वां साक्षात्कृतधर्माण ऋषयो बभूवुस्तेऽवरेभ्योऽ साक्षात्कृतधर्मभ्य उपदेशेन मंत्रान्संप्रादुरुपदेशाय ग्लायंतोऽवरे बिल्मग्रहणायेमं ग्रंथं समाम्नासिषुर्वेदं च वेदांगानि च बिल्मिं भिल्मं भासनमिति वैतावंतः समानकर्माणो धातवो धातुर्दधातेरेतावंत्यस्य सत्त्वस्य नामधेयान्येतावतामर्थानामिदमभिधानं नैघंटुकं तत् । अश्वं न त्वा वारवंतं । अश्वमिव त्वा वालवंतं वाला दंशवारणार्था भवंति दंशो दशतेः । मृगो न भीमः कुचरो गिरिष्ठाः । मृग इव भीमः कुचरो गिरिष्ठा मृगो मार्ष्टेर्गतिकर्मणो भीमो भिभ्यत्यस्माद्भीष्मोऽ प्येतस्मादेव । कुचर इति चरतिकर्म कुत्सितमथ चेद्देवताभिधानं क्वायं न चरतीति गिरिष्ठा गिरस्थायी गिरिः पर्वतः समुद्गीर्णो भवति पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वार्धमासपर्व देवानस्मिन् प्रीणंतीति तत्प्रकृतीतरत्संधिसामान्यान्मेघस्थायी मेघोऽपि गिरिरेतस्मादेव तद्यानि नामानि प्राधान्यस्तुतीनां देवतानां तद्दैवतमित्याचक्षते तदुपरिष्टाद्व्याख्यास्यामो नैघंटुकानि नैगमानीहेह ॥ २० ॥
ओं अथ निर्वचनं तद्येषु पदेषु स्वरसंस्कारौ समर्थौ प्रादेशिकेन गुणेनान्वितौ स्यातां तथा तानि निर्ब्रूयादथानन्वितेऽर्थेऽ प्रादेशिके विकारेऽर्थनित्यः परीक्षेत केनचिद्वृत्तिसामान्येनाविद्यमाने सामान्येऽप्यक्षरवर्णसामान्यान्निर्ब्रूयान्न त्वेव न निब्रूयान्न संस्कारमाद्रियेत विशयवत्यो हि वृत्तयो भवंति यथार्थं विभक्तीः संनमयेत्प्रत्तमवत्तमिति धात्वादी एव शिष्येते अथाप्यस्तेर्निवृत्तिस्थानेष्वादिलोपो भवति स्तः संतीत्यथाप्यंतलोपो भवति गत्वा गतमित्यथाप्युपधालोपो भवति जग्मतुर्जग्मुरित्यथाप्युपधाविकारो भवति राजा दंडीत्यथापि वर्णलोपो भवति तत्त्वा यामित्यथापि द्विवर्णलोपस्तृच इत्यथाप्यादिविपर्ययो ज्योतिर्घनो बिंदुर्वाट्य इत्यथाप्याद्यंतविपर्ययो भवति स्तोका रज्जुः सिकत्तास्तर्कित्यथाप्यंतव्यापत्तिर्भवति ॥ १ ॥
ओघो मेघो नाधो गाधो वधूर्मर्ध्वित्यथापि वर्णोपजन आस्थद्द्वारो भरोजेति तद्यत्र स्वरादनंतरांतस्थांतर्धातु भवति तद्द्वप्रकृतीनां स्थान मिति प्रदिशंति । तत्र सिद्धायामनुपपद्यमानाया मितरयोपपिपादयिषेत्तत्राप्येकेऽल्पनिष्पत्तयो भवंति तद्यथैतदूतिर्मृदुः पृथुः पृषतः कुणारुमित्यथापि भाषिकेभ्यो धातुभ्यो नैगमाः कृतो भाष्यंते । दमूनाः क्षेत्रसाधा इत्यथापि नैगमेभ्यो भाषिका । उष्णं घृतमित्यथापि प्रकृतय एवैकेषु भाष्यंते विकृतय एकेषु । शवतिर्गति कर्मा । कंबोजेष्टेव भाष्यते कंबोजाः कंबलभोजाः कमनीयभोजा वा कंबलः कमनीयो भवति । विकारमस्यार्येषु भाषंते शव इति दातिर्लवनार्थे प्राच्येषु । दात्रमुदीच्येष्वेवमेकपदान निर्ब्रूयादथ तद्धितसमासेष्वेकपर्वसु चानेकपर्वसु च पूर्वं पूर्वमपरमपरं प्रविभज्य निर्ब्रूयाद्दंड्यः पुरुषो दंडपुरुषो दंडमर्हतीति वा दंडेन संपद्यत इति वा दंडो ददतेर्धारयतिकर्पुणोऽक्रूरो ददते मणिमित्यभिभाषंते दमनादित्यौपमन्यवो दंडमस्याकर्षतेति गर्हायां । कक्ष्या रज्जुरश्वस्य कक्षं सेवते । कक्षो गाहतेः । क्स इति नामकरणः । ख्यातेर्वानर्थकोऽभ्यासः । किमस्मिन्ख्यानमिति कर्षतेर्वा । तत्सामा न्यान्मनुष्यकक्षो बाहुमूलसामान्यादश्वस्य ॥ २ ॥
राज्ञः पुरुषो राजपुरुषो राजा राजते पुरुषः पुरिषादः पुरिशयः पूरयतेर्वा पूरयत्यंतरित्यंतरपुरुषमभिप्रेत्य । यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति किंचित् । वृक्ष इव स्तब्दो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वमित्यपि निगमो भवति । विश्वकद्राकर्षो वीति चकद्र इति श्वगतौ भाष्यते द्रातीति गतिकुत्सना कद्रातीति सतोऽनर्थकोऽभ्यासस्तदस्मिन्नस्तीतिविश्वकद्रः कल्याणवर्णरूपः कल्याणवर्णस्येवास्यरूपं कल्याणं कमनीयं भवति वर्णो वृणोतेरूपं रोचतेरेवं तद्धितसमासान्निर्ब्रूयान्नैकपदानि निर्ब्रूयान्नावैयाकरणाय नानुपसन्नाया निदंविदे वा नित्यं ह्यविज्ञातुर्विज्ञानेऽसूयोपसन्नाय तु निर्ब्रूयाद्योवालंविज्ञातुं स्यान्मेधाविने तपस्विने वा ॥ ३ ॥
विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेऽहमस्मि । असूयकायानृजवेऽयताय न मा ब्रूया वीर्यवती तथा स्यां । आतृणत्त्यवितथेन कर्णावदुःखं कुर्वन्नमृतं संप्रयच्छन् । तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कतमच्चनाह । अध्यापिता ये गुरुं नाद्रियंते विप्रा वाचा मनसा कर्मणा वा । यथैव ते न गुरोर्भोजनीयास्तथैव तान्न भुनक्ति श्रुतं तत् । यमेव विद्याः शुचिमप्रमत्रं मेधाविनं ब्रह्मचर्योपपन्नं । यस्ते न द्रुह्येत्कतमच्चनाह तस्मै मा ब्रूया निधिपाय ब्रह्म निति निधिः शेवधिरिति ॥ ४ ॥
अथातोऽनुक्रमिष्यामो गौरिति पृथिव्या नामधेयं यद्दूरं गता भवति यच्चास्यां भूतानि गच्छंति गातेर्वौकारो नामकरणोऽथापि पशुनामेह भवत्येतस्मादेवाथाप्यस्यां ताद्धितेन कृत्स्नवन्निगमा भवंति गोभिः श्रीणीत मत्सरमिति पयसो मत्सरः सोमो मंदतेस्तृप्तिकर्मणो मत्सर इति लोभनामाभिमत्त एतेन धनं भवति पयः पिबतेर्वा प्यायतेर्वा क्षीरं क्षरतेर्घसेर्वेरो नामकरण उशीरमिति यथांशुं दुहंतो अध्यासते गवीत्यधिषवणचर्मणोऽशुः शमष्टमात्रो भवत्यननाय शं भवतीति वा चर्म चरतेर्वोच्चृतं भवतीति वाथापि चर्म च श्लेष्मा च । गोभिः संनद्धो असि वीळयस्वेति रथस्तुतावथापि स्नाव च श्लेष्मा च गोभिः संनद्धा पतति प्रसूतेतीषुस्तुतौ ज्यापि गौरुच्यते गव्या चेत्ताद्धितमथ चेन्न गव्या गमयतीषूनिति ॥ ५ ॥
वृक्षे वृक्षे नियता मीमयद्गौस्ततो वयः प्रपतान्पूरुषादः । वृक्षे वृक्षे धनुषि धनुषि वृक्षो व्रश्चनाद्वृत्वा क्षां तिष्ठतीति वा क्षा क्षियतेर्निवासकर्मणो नियता मीमयद्गौः शब्दं करोति मीमयतिः शब्द कर्मा कतो वयः प्रपतंति पुरुषानदनाय विरिति शकुनिनाम वेतेर्गतिकर्मणोऽथापीषुनामेह भवत्येतस्मादेवादित्योऽपि गौरुच्यते । उतादः परुषे गवि । पर्ववति भास्वतीत्यौपमन्यवोऽथाप्यस्यैकोरश्मिश्चंद्रमसं प्रति दीप्यते तदेतेनोपेक्षितव्यमादित्यतोऽस्य दीप्तिर्भवतीति । सुषुम्नैः सूर्यरश्मिश्चंद्रमा गंधर्व इत्यपि निगमो भवति । सोऽपि गौरुच्यते । अत्राह गोरमन्वतेति तदुपरिष्टाद्व्याख्यास्यामः । सर्वेपि रश्मयो गाव उच्यंते ॥ ६ ॥
ता वां वास्तून्युश्मसि गमध्ये यत्र गावो भूरिशृंगा अयासः । अत्राह तदुरुगायस्य वृष्णः परमं पदमन भाति भूरि (ऋ. सं. १-१५४-६) तानि वां वास्तूनि कामयामहे गमनाय यत्र गावो भूरिशृंगा बहुशृंगा भूरीति बहुशृंगा भूरीति बहुनो नामधेयं प्रभवतीति सतः शृंगं श्रयतेर्वा शम्नातेर्वा शरणायोद्गतमिति वा शिरसो निगर्तमिति वायसोऽयनास्तत्र तदुरुगायस्य विष्णोर्महागेः परमं पदं परार्ध्यस्थमवभाति भूरि पादः पद्यतेस्तन्निधानात्पदं पशुपादप्रकृतिः प्रभागपादः प्रभागपादसामान्यादितराणि चेन्नानानिर्वचनानि यथार्थं निर्वक्तव्यानीतीमान्येकविशंतिः पृथिवीनामधेयान्यनुक्रांतानि तत्र निर्ऋतिर्नि रमणादृच्छतेः कृच्छ्रापतिरितरा सा पृथिव्या संदिह्यते तयोर्विभागस्तस्या एषा भवति ॥ ७ ॥
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मात् । स मातुर्योना परिवीतो अंतर्बहुप्रजा निर्ऋतिमाविवेश ॥ (ऋ. सं. १-१६४-३२) बहुप्रजाः कृच्छ्रमापद्यत इति परिव्राजका वर्षकर्मेति नैरुक्ता य ईं चकारेति करोतिकिरिती संदिग्धौ वर्षकर्मणा न सोस्य वेद मध्यमः स एवास्य वेद मध्यमो यो ददर्शादित्योपहितं सा मातुर्योनौ मातांतरिक्षं निर्मीयंतेऽस्मिन् भूतानि योनिरंतरिक्षं महानवयवः परिवीतो वायुनायमपीतरो योनिरेतस्मादेव परियुतो भवति बहुप्रजा भूमिमापद्यते वर्षकर्मणा शाकपूणिः संकल्पयांचक्रे सर्वा देवता जानामीति तस्मै देवतोभयलिंगा प्रादुर्बभूव तां न जज्ञेतां पप्रच्छ विविदिषाणि त्वेति सास्मा एकामृच मादिदेशैषा मद्देवतेति ॥ ८ ॥
अयं स शिंक्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता । सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद्भवंती प्रति वव्रिमौहत (ऋ. सं. १-१६४-२९) अयं स शब्दायते येन गौरभिप्रवृत्ता मिमाति वायुं शब्दं करोति मायुमिवादित्यमिति वा वागेषा माध्यमिका ध्वंसने मेघेऽधिश्रिता सा चित्तिभिः कर्मभिर्नीचैर्निकरोति मर्त्यं विद्युद्भवंती प्रत्यूहते वव्रीं वव्रिरिति रूपनाम वृणोतीति सतो वर्षेण प्रच्छाद्य पृथिवीं तत्पुनरादत्ते ॥ ९ ॥
हिरण्यनामान्युत्तराणि पंचदश हिरण्यं कस्माद्ध्रियत अय व्यमानमिति वा ह्रियते जनाज्जनमिति वा हितरमणं भवतीति वा हृदयरमणं भवतीति वा हर्यतेर्वा स्यात्प्रेप्साकर्मणोऽन्तरिक्षनामान्युत्तराणि षोळशांतरिक्षं कस्मादंतरा क्षांतं भवत्यंतरेमे इति वा शरीरेष्वंतरेक्षयमिति वा तत्र समुद्र इत्येतत्पार्थिवेन समुद्रेण संदिह्यते समुद्रः कस्मात्समुद्द्रवंत्यस्मादापः समभिद्रवंत्येनमापः संमोदंतेऽस्मिन्बूतानि समुदको भवति समुनत्तीति वा तयोर्विभागस्तत्रेतिहासमाचक्षते देवापिश्चार्ष्टिषेणः शंतनुश्च कौरव्यौ भ्रातरौ बभूवतुः स शंतनुः कनीयानभिषेचयांचक्रे देवापिस्तपः प्रतिपेदे ततः शंतनो राज्ये द्वादश वर्षाणि देवो न ववर्ष तमूचुर्ब्राह्मणा अधर्मस्त्वया चरितो ज्येष्ठं भ्रातरमंतरित्याभिषेचितं तस्मात्तेदेवो न वर्षतीति स शंतनुर्देवापिं शिशिक्षराज्येन तमुवाच देवापिः पुरोहितस्तेऽसानि याजयानि च त्वेति तस्मैतद्वर्षकाम सूक्तं तस्यैषा भवति ॥ १० ॥
आर्ष्टिषेणो होत्रमृषिर्निषीदन्देवापिर्देव सुमतिं चिकित्वान् । स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥ (ऋ. सं. १०-९८-५) आर्ष्टिषेण ऋष्टिषेणस्य पुत्र इषितसेनस्येति वा सेना सेश्वरा समानगतिर्वा पुत्रः पुरु त्रायते निपरणाद्वा पुन्नरकं ततस्त्रायत इति वा होत्रमृषिर्निषीदन्नृषिर्दर्शनान् स्तोमान्ददर्शेत्यौपमन्यवस्तद्यदेनांस्तपस्यमानात्प्रह्मस्वयंभ्वभ्यानर्षत ऋषयोऽभवंस्तदृषीणामृषित्वमिति विज्ञायते ॥ (तै. आ-२-९) देवापिर्देवानामाप्त्या स्तुत्या च प्रदानेन च देवसुमतिं देवानां कल्याणीं मतिं चिकित्वांश्चेतनावान् । स उत्तरस्मादधरं समुद्रं । उत्तर उद्धततरो भवत्यधरोऽधोरोऽधो न धावतीत्यूर्ध्वगतिः प्रतिषिद्धा तस्योत्तरा भूयसे निर्वचनाय ॥ ११ ॥
यद्देवापिः शंतनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् । देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥ (ऋ. सं. १०-९८-७) शंतनुः शं तनोऽस्त्विति वा शमस्मै तन्वा अस्त्विति वा पुरोहितः पुर एनं दधति होत्राय वृतः कृपायमाणोऽन्वध्याय द्देवश्रुतं देवा एनं शृण्वंति वृष्टिवनिं वृष्टिवाचिनं रराणो रातिरभ्यस्तो बृहस्पतिर्ब्रह्मासीत्सोऽस्मै वाचमयच्छद्बृहदुपव्याख्यातं ॥ १२ ॥
साधारणान्युत्तराणि षट् । दिवश्चादित्यस्य च । यानि त्वस्य प्राधान्येनोपरिष्टात्तानि व्याख्यास्याम आदित्यः कस्मादादत्ते रसानादत्ते भासं ज्योतिषामादीप्तो भासेति वादितेः पुत्र इति वाल्पप्रयोगं त्वस्मै तदार्चाभ्याम्नाये सूक्तभाक्सूर्यमादितेयमदितेः पुत्रमेव मन्यासामपि देवतानामादित्यप्रवादाः स्तुतयो भवंति तद्यथैतन्मित्रस्य वरुणस्यार्यम्णो दक्षस्य भगस्यांशस्येत्यथापि मित्रावरणयोः । आदित्या दानुनस्पती दानपती । अथापि मित्रस्यैकस्य । प्र स मित्रमर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेनेत्यपि निगमो भवत्यथापि वरुणस्यैकस्य । अथा वयुनादित्य व्रते तव । व्रतमिति कर्मनाम निवृत्तिकर्म वारयतीति सत इदमपीतरद्व्रतमेतस्मादेव वृणोतीति सतोऽन्नममपि व्रतमुच्यते यदावृणोति शरीरं ॥ १३ ॥
स्वरादित्यो भवति सु अरणः सु ईरणः स्वृतो रसान्स्वृतो भासं ज्योतिषां । स्वृतो भासेति वैतेन द्यौर्व्याख्याता । पृश्निरादित्यो भवति प्राश्नुत एनं वर्ण इति नैरुक्ताः । संस्प्रष्टा रसान्त्संस्प्रष्टा भासं ज्योतिषां संस्पृष्टो भासेति वाथ द्यौः संस्पृष्टा ज्योतिर्भिः पुण्यकृद्भिश्च । नाक आदित्यो भवति नेता रसानां नेता भासां ज्योतिषां प्रणयोऽथ द्यौः कमिति सुखनाम तत्प्रतिषिद्धं प्रतिषिध्येतन वा अमुं लोकं जग्मुषे किं च नाकं । न वा अमुं लोकं गतवते किंच नासुखं पुण्यकृतो ह्येव तत्र गच्छंति । गौरादित्यो भवति गमयति रसान्गच्छत्यंतरिक्षेऽथ द्यौर्यत्पृथिव्या अधि दूरंगता भवति यच्चास्यां ज्योतींषि गच्छंति । विष्टबादित्यो भवत्याविष्टो रसानाविष्टो भासं ज्योतिषामाविष्टो भासेति वाथ द्यौराविष्टा ज्योतिर्भिः पुण्यकृद्भिश्च । नम आदित्यो भवति नेता भासां नेता भासां ज्योतिषां प्रणयोऽपि वा भन एव स्याद्विपरीतो न न भातीति वैतेन द्यौर्व्याख्याता ॥ १४ ॥
रश्मिनामान्युत्तराणि पंचदश रश्मिर्यमनात्तेषामादितः साधारणानि पंचाश्वरश्मिभिर्दिङ्नामान्युत्तराण्यष्वौ दिशः कस्माद्दिशतेरासदनादपि वाभ्यशनात्तत्र काष्ठा इत्येतदनेकस्यापि सत्त्वस्य नाम भवति काष्ठा दिशो भवंति क्रांत्वा स्थिता भवंति काष्ठा उपदिशो भवंतीतरेतरं त्रांत्वा स्थिता भवंत्यादित्योऽपि काष्ठोच्यते क्रांत्वास्थितो भवत्याज्यंतोऽपि काष्ठोच्यते क्रांत्वा स्थितो भवत्यापोऽपि काष्ठा उच्यंते क्रांत्वा स्थिता भवंतीति स्थावराणां ॥ १५ ॥
अतिष्ठंतीनामानिवेशनानां काष्ठानां मध्ये निहितं शरीरं । वृत्रस्य निण्यं वि चरंत्यापो दीर्घं तम आशयदिंद्र शत्रुः ॥ (ऋ. सं. १-३२-१०) अतिष्ठंतीनामनिविशमानानामित्यस्थावराणां काष्ठानां मध्ये निहितं शरीरं मेघः शरीरं शरीरं शृणातेः शम्नातेर्वा वृत्रस्य निण्यं निर्णामं विचरंति विजानंत्याप इति दीर्घं द्राघतेस्तमस्तनोतेराशयदाशेतेरिंद्रशत्रुरिंद्रोऽस्य शमयिता वा शातयिता वा तस्मादिंद्रशत्रुस्तत्को वृत्रो मेघ इति नैरुक्तास्त्वाष्ट्रोऽसुरा इत्यैतिहासिका अपां च ज्योतिषश्च मिश्रीभावकर्मणो वर्षकर्म जायते तत्रोपमार्थेन युद्धवर्णा भवंत्यहिवत्तु खलु मंत्रवर्णा ब्राह्मणवादाश्च विवृद्ध्या शरीरस्य स्रोतांसि निवारयांचकार तस्मिन् हते प्रसस्यंदिर आपस्तदभिवादिन्येषर्ग्भवति ॥ १६ ॥
दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः । अपां बिलमपिहितं यदासीद्वृतं जघन्वा अप तद्ववार ॥ (ऋ. सं. १-३२-११) दासपत्नीर्दासाधिपत्न्यो दासो दस्यतेरुपदासयति कर्माण्यहिगोपा अतिष्ठन्नहिना गुप्ता अ हिरयनादेत्यंतरिक्षेऽयमपीतरोऽहिरेतस्मादेव निर्ह्रसितोपसर्ग आहंतीति । निरुद्धा अपः पणिनेव गावः । पणिर्वणिग्भवति पणिः पणनाद्वणिक्पण्यं नेनेक्ति । अपां बिलमपिहितं यदासीत् बिलं भरं भवति बिभर्तेर्वृत्रं जघ्निवानपववार तद्वृत्रो वृणातेर्वावर्ततेर्वा वर्धतेर्वा यदवृणोत्तद्वृत्रस्य वृत्रत्वमिति विज्ञायते यदवर्तत तद्वृत्रस्य वृत्रत्वमिति विज्ञायते ॥ १७ ॥
रात्रिनामान्युत्तराणि त्रयोविंशती रात्रिः कस्मात्प्ररमयति भूतानि नक्तंचारीण्युपरमयतीतराणि ध्रुवीकरोति रातेर्वा स्याद्दानकर्मणः प्रदीयंतेऽस्यामवश्याया उषोनामान्युत्तराणि षोळशोषाः कस्मादुच्चतीति सत्या रात्रेरपरः कालस्तस्या एषा भवति ॥ १८ ॥
इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा । यथा प्रसूता सवितुः सवाय एवारात्र्युषसे योनिमारैक् ॥ (ऋ. सं. १-११३-१) इदं श्रेष्ठं ज्योतिषां ज्योतिरागमच्चित्रं प्रकेतनं प्रज्ञाततममजनिष्ट विभूततमं यथा प्रसूता सवितुः प्रसवाय रात्रिरादित्यस्यैवं रात्र्युषसे योनिमरिचत्स्थानं स्त्रीयोनिरभियुत एनां गर्भस्तस्या एषापरा भवति ॥ १९ ॥
रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः । समानबंधू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ (ऋ. सं. १-११३-२) रुशद्वत्सा सूर्यवत्सा रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः सूर्यमस्या वत्समाह साहचर्याद्रसहरणाद्वा रुशती श्वेत्यागात् । श्वेत्या श्वेततेररिचत्कृष्णा सदनान्यस्याः कृष्णवर्णा रात्रिः कृष्णं कृष्यतेर्निकृष्टो वर्णोऽथैने संस्तौति समानबंधू समानबंधने अमृते अमरधर्माणावनूची अनूच्यावितीतरेतरमभिप्रेत्य द्यावा वर्णं चरतस्ते एव द्यावौ द्योतनादपि वा द्यावा चरतस्तया सह चरत इति स्यादामिनाने अमिन्वाने अन्योन्यस्याध्यात्मं कुर्वाणे अहर्नामान्युत्तराणि द्वादशाहः कस्मा दुपाहरंत्यस्मिन्कर्माणि तस्यैष निपातो भवति वैश्वानरी यायामृचि ॥ २० ॥
अहश्च कृष्णमहरर्जुनं च वि नर्तेते रजसी वेद्याभी । वैश्वानरो जायमानो न रादाहातिरज्य्जोतिषाग्निस्तमांसि ॥ (ऋ. सं. ६-९-१) अहश्ट कृष्णं रात्रिः शुक्लं चाहरर्जुनं विवर्तेते रजसी वेद्याभिर्वेदितव्याभिः प्रवृत्तिभिर्वैश्वानरो जायमान इवोद्यन्नादित्यः सर्वेषां ज्योतिषां राजावाहन्नग्निर्ज्योतिषा तमांसि मेघनामान्युत्तराणि त्रिंशन्मेघः कस्मान्मेहतीति सत आ उपर उपल इत्येताभ्यां साधारणानि पर्वतनामभिरुपर उपलो मेघो भवत्युपरमंतेऽस्मिन्नभ्राण्युपरता आप इति वा तेषामेषा भवति ॥ २१ ॥
देवानां माने प्रथमा अतिष्ठन्कृतत्रादेषामुपरा उदायन् । त्रयस्तपंति पृथिवीमनूप द्वा बृबूकं वहतः पुरीषं ॥ (ऋ. सं. १०-२७-२३) देवानां निर्माणे प्रथमा अतिष्ठन्माध्यमिका देवगणाः प्रथम इति मुख्यनाम प्रतमो भवति कृंतत्रमंतरिक्षं विकर्तनं मेघानां विकर्तनेन मेघानामुदकं जायते । त्रयस्तपंति पृथिवीमनूपाः अनुवपंति लोकान्त्स्वेन स्वेन कर्मणायमपीतरोऽनूप एतस्मादेवानूप्यत उदकेनापि वान्वाविति स्याद्यथा प्रागिति तस्यानूप इति स्याद्यथा प्राचीनमिति । द्वा बृबूकं वहतः पुरीषं । वाय्वादित्या उदकं बृबूकमित्युदकनाम ब्रवीतेर्वा शब्दकर्मणो भ्रशंतेर्वा पुरीषं पृणातेः पूरयतेर्वा ॥ २२ ॥
वाङ्नामान्युत्तराणि सप्तपंचाशद्वाक्कस्माद्वचेस्तत्रसरस्वतीत्यॆतस्य नदीवद्देवतावच्च निगमा भवंति तद्यद्देवतावदुपरिष्टात्तद्व्याख्यास्यामोऽथैतन्नदीवत् ॥ २३ ॥
इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः । पारावतघ्नीमवसे सुवृक्तिभि) सरस्वतीमा विवासेम धीतिभिः ॥ (ऋ. सं. ६-६१-२) इयं शुष्मैः शोषणैः शुष्ममिति बलनाम शोषयतीति सतो बिसं बिस्यतेर्भेदनकर्मणो वृद्धिकर्मणो वा सानु समुच्छ्रितं भवति समुन्नुन्नमिति वा महद्भिरूर्मिभिः पारावतघ्नीं पारावारघातिनीं पारं परं भवत्यवारमवरमवनाय सुप्रवृत्ताभिः शोभनाभिः स्तुतिभिः सरस्वतीं नदीं कर्मभिः परिचरेमोदकनामान्युत्तराण्येकशतमुदकं कस्मादुनत्तीति सतो नदीनामा न्युत्तराणि सप्तत्रिंशन्नद्यः कस्मान्नदना इमा भवंति शब्दवत्यो बहुलमासां नैघंटुकं वृत्तमाश्चर्यमिव प्राधान्येन तत्रेतिहासमाचक्षते विश्वामित्रऋषिः सुदासः पैजवनस्य पुरोहितो बभूव विश्वामित्रः सर्वमित्रः सर्वं संसृतं सुदाः कल्याणदानः पैजवनः पुत्रः पिजवनः पुनः स्पर्धनीयजवो वा मिश्रीभावगतिर्वा स वित्तं गृहीत्वा विपाट् च्छुतद्र्योः संभेदमाययावनुययुरितरे स विश्वामित्रो नदीस्तुष्टाव गाधा भवतेत्यपि द्विवदपि बहुवत्तद्यद्द्ववदुपरिष्टात्तद्व्याख्यास्यामोऽथैतद्बहुवत् ॥ २४ ॥
रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः । प्र सिंधुमच्छा बृहती मनीषावस्युरह्ने कुशिकस्य सूनुः ॥ (ऋ. सं. ३-३३-५) उपरमध्वं मे वचसे सोम्याय सोमसंपादिन ऋतावरीर्ऋतवत्य ऋतमित्युदकनाम प्रत्यृतं भवति मुहूर्तमेवैरयनैरवनैर्वा मुहूर्तो मुहुर्ऋतुर्ऋतुरर्तेर्गतिकर्मणो मुहुर्मूढ इव कालो यावदभीक्षं चेत्यभीक्ष्ण मभिक्षणं भवति क्षणः क्षणोतेः प्रक्ष्णुतः कालः कालयतेर्गतिकर्मणः प्राभिह्वयामि सिंधुं बृहत्या मनीषया मनस ईषया स्तुत्या प्रज्ञया चावनाय कुशिकस्य सूनुः कुशिको राजा बभूव क्रोशतेः शब्दकर्मणः क्रंशतेर्वा स्यात्प्रकाशयतिकर्मणः साधु विक्रोशयितार्थानामिति वा नद्यः प्रत्यूचुः ॥ २५ ॥
इंद्रो अस्माअरदद्वज्र बाहुरपाहन्वृत्रं परिधिं नदीनां । देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥ (ऋ. सं. ३-३३-६) इंद्रो अस्मानरद्वज्रबाहू रदतिः खनतिकर्मापहन् वृत्रं परिधिं नदीनामिति व्याख्यातं । देवोऽनयत्सविता सुपाणिः कल्याणपाणिः पाणिः पणायतेः पूजाकर्मणः प्रगृह्य पाणी देवान्पूजयंति । तस्य वयं प्रसवे याम उर्वीः । उर्व्य ऊर्णोतेर्वृणोतेरित्यौर्णवाभः प्रत्याख्यायांतत आशुश्रुवुः ॥ २६ ॥
आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन । नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचैते ॥ (ऋ. सं. ३-३३-१०) आ शृणवाम ते कारो वचनानि याहि दूरादनसा च रथेन च निनमाम ते पाययमानेव योषा पुत्रं मर्यायेव कन्या परिष्वजनाय निनमा इति वाश्वनामान्युत्तराणि षड्विंशतिस्तेषामष्टा उत्तराणि बहुददश्चः कस्मादश्नुतेऽध्वानं महाशनो भवतीति वा तत्र दधिक्रा इत्येतद्दधत्क्रामतीति वा दधत्क्रंदतीति वा दधदाकारी भवतीतिवा तस्याश्ववद्देवतावश्च निगमा भवंति तद्यद्देवता वदुपरिष्टात्तद्व्याख्यास्यामोऽथैतदश्ववत् ॥ २७ ॥
उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपि कक्ष आसनि । क्रतुं दधिक्रा अनु सुतवीत्वत्पथामंकास्यन्वापनीफणत् ॥ (ऋ. सं. ४-४०-४) अपि स वाजी वेजनवान् क्षेपणमनु तूर्णमश्नुतेऽध्वानं ग्रीवायां बद्धो ग्रीवा गिरतेर्वा गृणातेर्वा गृह्णातेर्वापिकक्ष आसनीति व्याख्यातं क्रतुं दधिक्राः कर्म वा प्रज्ञां वा । अनु संतवीत्वत् । तनोतेः पूर्वया प्रकृत्या निगमः पथामंकासि पथां । कुटलानि पंथाः पततेर्वा पद्यतेर्वा पंथतेर्वांकोऽञ्चते रापनीफणदिति फणतेश्चर्करीतवृत्तं दशोत्तराण्यादिष्टोपयोजनानीत्याचक्षते साहचर्यज्ञानाय ज्वलतिकर्माण उत्तरे धातव एकादश तावंत्येवोत्तराणि ज्वलतो नामधेयानि नामधेयानि ॥ २८ ॥
ओं ॥ कर्मनामान्युत्तराणि षड्विशंतिः कर्म कस्मात्क्रियत इति सतोऽपत्यनामान्युत्तराणि पंचदशापत्यं कस्मादपततं भवति नानेन पततीति वा तद्यथा जनयितुः प्रजैवमर्थीये ऋचा उदाहरिष्यामः ॥ १ ॥
परिषद्यं ह्यरणस्य रेक्णो नित्यस्य रायः पतयः स्याम । न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः ॥ (ऋ. सं. ७-४-७) ॥ परिहर्तव्यं हि नोपसर्तव्यमरणस्य रेक्णोऽरणोऽपार्णो भवति रेक्ण इति धननाम रिच्यते प्रयतो नित्यस्य रायः पतयः स्याम । पित्र्यस्येव धनस्य । न शेषो अग्ने अन्यजातमस्ति । शेष इत्यपत्यनाम शिष्यते प्रयतोऽचेतयमानस्य तत्प्रमत्तस्य भवति मा नः पथो विदूदुष इति तस्योत्तरा भूयसे निर्वचनाय ॥ २ ॥
न हि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मंतवा उ । अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळेतु नव्यः ॥(ऋ. सं.७-४-८) न हि ग्रहीतव्योऽरणः सुसुखतमोऽप्यन्योदर्यो मनसापि न मंतव्यो ममायं पुत्र इत्यथ स ओकः पुनरेव तदेति यत आगतो भवत्योक इति निवासनामोच्यत एतु नो वाजी वेजनवानभिषहमाणः सपत्नान्नवजातः स एव पुत्र इत्यथैतां दुहितृदायाद्य उदाहरंति पुत्रदायाद्य इत्येके ॥ ३ ॥
शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वा ऋतस्य दीधितिं सपर्यन् । पिता यत्र दुहितुः सेकमृजन्त्संशग्म्शेन मनसा दधन्वे (ऋ. सं. ३-३१-१) ॥ प्रशास्ति वोढां संतानकर्मणे दुहितुः पुत्रभावं दुहिता दुर्हिता दूरे हिता दोग्धेर्वा नप्तारमुपागमद्दौहित्रं पौत्रमिति विद्वान् प्रजननयज्ञस्य रेतसो वांगादंगात्संभूतस्य हृदयादधिजातस्य मातरि प्रत्यृतस्य विधानं पूजयन्नविशेषण मिथुनाः पुत्रा दायादा इति तदेतदृक् श्लोकाभ्यामभ्युक्तं । अंगादंगात्संभवसि हृदयादधिजायसे आत्मा वै पुत्रनामासि स जीव शरदः शतमित्यविशेषेण पुत्राणां दायो भवति धर्मतः । मिथुनानां विसर्गादौ मनुः स्वयंभुवोऽब्रवीत् । न दुहितर इत्येके तस्मात्पुमान् दायादोऽदायादा स्त्रीति विज्ञायते तस्मात्स्त्रियं जातां परास्यंति न पुमांसमिति च स्त्रीणां दानविक्रयातिसर्ग विद्यंते न पुंसः पुंसोऽपीत्येके शौनःशेपे दर्शनात् । अभ्रातृमतीवाद इत्यपरं । अमूर्या यंति जामयः सर्वा लोहितवाससः । अभ्रातर इव योषास्तिष्ठंति हतवर्त्मनः ॥ अभ्रातृका इव योषास्तिष्ठंति संतानकर्मणे पिंडदानाय हतवर्त्मान इत्यभ्रातृकाय अनिर्वाह औपमिकस्तस्योत्तरा भूयसे निर्वचनाय ॥ ४ ॥
अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानां । जायेव पत्य उशती सुवासा उषा हस्रेव निरिणीते अप्सः ॥ (ऋ. सं. १-१२४-७) अभ्रातृकेव पुंसः पितृनेत्यभिमुखी संतानकर्मणे पिंडदानाय न पतिं गर्तारोहिणीव धनलाभाय दाक्षिणाजी गर्तः सभास्थाणुर्गृणातेः सत्यसंगरो भवति तं तत्र यापुत्रा यापतिका सारोहति तां तत्राक्षैराघ्नांति सा रिक्थं लभते श्मशानसंचयोऽपि गर्त उच्यते गुरतेरपगूर्णो भवति श्मशानं श्मशयनं श्म शरीरं शरीरं शृणातेः शम्नातेर्वा श्मश्रु लोम श्मनि श्रितं भवति लोम लुनातेर्वा लीयतेर्वा नोपरस्याविःकुर्याद्यदुपरस्याविःकुर्याद्गर्तेष्ठाः स्यात्प्रमायुको यजमान इत्यपि निगमो भवति । रथोऽपि गर्त उच्यते गृणातेः स्तुतिकर्मणः । स्तुततमं यानं । अरोहथो वरुण मित्र गर्तमित्यपि निगमो भवति । जायेम पत्ये कामयमाना सुवासा ऋतुकालेषूषा हसनेव दंतान् । विवृणुते रूपाणीति चतस्र उपमा नाभ्रात्रीमुपयच्छेत तोकं ह्यस्य तद्भवतीत्यभ्रातृकाया उपयमनप्रतिषेधः प्रत्यक्षः पितुश्च पुत्रभावः पिता यत्र दुहितुरपुत्ताया रेतःसेकं प्रार्जयति संदधात्यात्मानं संगमेन मनसेत्यथैतां जाम्यारिक्थप्रतिषेध उदाहरंति ज्येष्ठं पुत्रिकाया इत्येके ॥ ५ ॥
न जामये तान्वो रिक्थ मारैक्चकार गर्भं सनितुर्नि धानं । यदी मातरो जनयंत वह्निमन्यःकर्ता सुकृतोरन्य ऋंधन् ॥ (ऋ. सं. ३-३१-२) न जामये भगिन्यै जामिरन्येऽस्यां जनयंति जामपत्यं जमतेर्वा स्याद्गतिकर्मणो निर्गमनप्राया भवति तान्व आत्मजः पुत्रो रिक्धं प्रारिचत्प्रादाच्चकारैनां गर्भनिधानीं सनितुर्हस्तग्राहस्य यदिह मातरोऽजनयंत वह्निं पुत्रमवह्निं च स्त्रियमन्यतरः संतानकर्ता भवति पुमान् दायादोऽन्यतरोऽर्धयित्वा जामिः प्रदीयते परस्मै ॥ ६ ॥
मनुष्यनामान्युत्तराणि पंचविंशशिर्मनुष्याः कस्मान्मत्वा कर्माणि सीव्यंति मनस्यमानेन सृष्टा मनस्यतिः पुनर्मनस्वीभावे मनोरपत्यं मनुषो वा तत्र पंचजना इत्येतस्य निगमा भवंति ॥
तदद्य वाचः प्रथमं मसीय येनासुरा अभि देवा असाम । ऊर्जाद उत यज्ञियासः पंचजना मम होत्रं जुषध्वं (ऋ. सं. १०-५३-४) तदद्य वाचः परमं मंसीय येनासुरानभिभवेम देवा असुरा असुरता स्थानेष्वस्ता स्थानेभ्य इति वापि वासुरिति प्राणाना मास्तः शरीरे भवति तेन तद्वंतः सोर्देवानसृजत तत्सुराणां सुरत्वमसोरसुरानसृजत तदसुराणामसुरत्व मिति विज्ञायते । ऊर्जाद उत यज्ञियासः अन्नादाश्च यज्ञि याश्चोर्गित्यन्ननामोर्जयतीति सतः पक्वं सुप्रवृक्णमिति वा । पंचजना मम होत्रं जुषध्वं । गंधर्वाः पितरो देवा असुरा रक्षांसीत्येके चत्वारो वर्ण निषादः पंचम इत्यौपमन्यवो निषादः कस्मान्निषदनो भवति निषण्णामस्मिन्पापकमिति नैरुक्ताः । यत्पांचजन्यया विशा । पंचजनीनया विशा पंच पृक्ता संख्या स्त्रिपुंनपुंसकेष्टविशिष्टा बाहुनामान्युत्तराणि द्वादश बाहू कस्मात्प्रबाधत आभ्यां कर्माण्यंगुलिनामान्युत्तराणि द्वाविंशतिरंगुलयः कस्मादग्रगामिन्यो भवंतीति वाग्रगालिन्यो भवंतीति वाग्रकारिण्यो भवंतीति वाग्रसारिण्यो भवंतीति वांकना भवंतीति वांजना भवंतीति वापि वाभ्यंचनादेव स्युस्तासामेषा भवति ॥ ८ ॥
दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्येः । दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्तावहद्ब्यः ॥ (ऋ. सं. १०-९४-७) अवनयोऽङ्गुलयो भवंत्यवंति कर्माणि कक्ष्याः प्रकाशयंति कर्माणि योक्त्राणि योजनानीति व्याख्यातमभीशपोऽभ्यश्नुवते कर्माणि । दश धुरो दश युक्ता वहद्भ्यः । धूर्धूर्वतेर्वधकर्मण इयमपीतरा धूरेतस्मादेव विहंति वहं धारयतेर्वा कांतिकर्माण उत्तरे धातवोऽष्टादशान्ननामान्युत्तराण्यष्टाविंशतिरन्नं कस्मादानतं सूतेभ्योऽत्तेर्वात्तिकर्माण उत्तरे धातवो दश बलनामान्युत्तराण्यष्टा विंशतिर्बलं कस्माद्बलं भरं भवति बिभर्ते र्धननामान्युत्तराण्यष्टा विंशतिरेव धनं कस्माद्धिनोतीति सतो गोनामान्युत्तराणि नव क्रुध्यतिकर्माण उत्तरे धातवो दश क्रोधनामान्युत्तराण्येकादश गतिकर्माण उत्तरे धातवो द्वाविंशशतं क्षिप्रनामान्युत्तराणि षड्विंशतिः क्षिप्रं कस्मात्संक्षिप्तो विकर्षोऽन्तिकनामान्युत्तराण्येकादशांतिकं कस्मादानीतं भवति संग्रामनामान्युत्तराणि षट् चत्वारिंशत्संग्रामः कस्मात्संगमनाद्वा संगरणाद्वा संगतौ ग्रामाविति वा तत्र खल इत्येतस्य निगमा भवंति ॥ ९ ॥
अभी ३ दमेकमेको अस्मि निष्षाळभी द्वा किमु त्रयः करंति । खले न पर्षान्प्रतिहन्मि भूरि किं मा निंदंति शत्रवोऽनिंद्राः ॥ (ऋ. सं. १०-४८-७) अभिभवामीद मेकमेकोऽस्मि निःषहमाणः सपत्नानभिभवामि द्वौ किं मा त्रयः कुर्वंत्येक इता संख्या द्वौ द्रुतररा संख्या ष्टावश्नोतेर्नव न वननीया नवाप्ता वा दश दस्ता दृष्टार्थ वा विंशतिर्द्विर्दशतः शतं दशदशतः सहस्रं सहस्वदयुतं नियुतं प्रयुतं तत्तदभ्यस्तमंबुदो मेघो भवत्यरणमंबु तद्दोऽम्बुदोऽम्बुमद्भातीति वाम्बुमद्भवतीति वा स यथा महान् बहुर्भवति वर्षंस्तदिवार्बुदं । खलेन पर्षान्प्रति हन्मि भूरि खिल इव पर्षान्प्रतिहन्मि भूरि खल इति संग्रामनाम खलतेर्वा स्खलतेर्वायमपीतरः खल एतस्मादेव समास्कन्नो भवति । किं मा निंदंति शत्रवोऽनिंद्राः । य इंद्रं न वि विदुरिंद्रो ह्यहमस्म्य निंद्रा इतर इति वा व्याप्तिकर्माण उत्तरे धातवो दश तत्र द्वे नामनी अक्षाण आक्षुवान आपान आप्नुवानो वधकर्माण उत्तरे धातवस्त्रयस्त्रिंशत्तन्न वियात इत्येतद्वियातयत इति वा वियातयेति वा । आखंडल प्रहूयसे आखंडायितः खंडं खंडयतेस्तडिदित्यंतिकवधयोः संसृष्टकर्म ताडयतीति सतः ॥ १० ॥
त्वया वयं सुवृधा ब्रह्मणस्पते स्वार्हा वसु मनुष्याददीमहि । या नो दूरे तडितो या अरातयोऽभि संति जम्भया ता अनप्नसः । त्वया वयं सुवर्धयित्रा ब्रह्मणस्पते स्पृहणीयानि वसूनि मनुष्येभ्य अददीमहि याश्च नो दूरे तडितो याश्चान्तिकेऽरातयोऽदानकर्माणो वा दानप्रज्ञा वा जम्भय ता अनप्नसोऽप्न इति रूपनामाप्नोतीति सतो विद्युत्तडिद्भवतीति शाकपूणिः सा ह्यवताडयति दूराच्च दृश्यतेऽपि त्विदमन्तिकनामैवाभिप्रेतं स्यात् । दूरे चित् सन्तडिदिवातिरोचसे । दूरेऽपि सन्नन्तिक इव सन्दृश्यस इति वज्रनामा न्युत्तराण्यष्टादस वज्रः कस्मात् वर्जयतीति सतस्तत्र कुत्स इत्येतत् कृंततेर्ऋषिः कुत्सो भवति कर्त्ता स्तोमानामित्यौपमन्यवोऽत्राप्यस्य वधकर्मैव भवति तत्सख इंद्रः शुष्णं जघानेत्यैश्वर्यकर्माण उत्तरे धातवश्चत्वार ईश्वरनामान्युत्तराणि चत्वारि तत्रेन इत्येतत् सनित ऐश्वर्येणेति वा सनितमनेनैश्चर्यमिति वा ॥ ११ ॥
यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाभिस्वरन्ति । इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्राविवेश ॥ यत्र सुपर्णाः सुपतना आदित्यरश्मयोऽमृतस्य भागमुदकस्यानिमिषंतो वेदनेनाभिस्वरंतीति वाभिप्रयंतीति वेश्वरः सर्वेषां भूतानां गोपायितादित्यः स मा धीरः पाकमत्रा विवेशेति धीरो धीमान् पाकः पक्तव्यो भवति विपक्वप्रज्ञ आदित्य इत्युपनिषद्वर्णो भवतीत्यधिदैवतमथाध्यात्मं यत्र सुपर्णाः सुपतनानींद्रियाण्यमृतस्य भागं ज्ञानस्यानिमिषन्तो वेदनेनाभिस्वरं तीति वाभिप्रयन्तीति वेश्वर सर्वेषामिंद्रियाणां गोपायितात्मा स मा धीरः पाकमत्राविवेशेति धीरो धीमान् पाकः पक्तव्यो भवति विपक्वप्रज्ञ आत्मेत्यात्म गतिमाचष्टे ॥ १२ ॥
बहुनामान्युराणि द्वादश बहु कस्मा प्रभवतीति सतो ह्रस्वनामान्युत्तराण्येकादस ह्रस्वो ह्रसतेर्महन्नामान्युत्तराणि पंचविंशतिर्महान् कस्मान् मानेनात्य ञ्जहातीति शाकपूणिर्मंहनीयॊं भवतीति वा तत्र ववक्पित विवक्षस इत्येते वक्तेर्वा वहतेर्वा साभ्यासाद् गृहनामान्युत्तराणि द्वाविंशतिर्गृहाः कस्माद् गृण्हंतीति सतां परिचरणकर्माण उत्तरे धातवो दश सुखनामान्युत्तराणि विंशतिः सुखं कस्मात् सहितं खेभ्यः खं पुनः खनते रूपनामान्युत्तराणि षोडश रूपं रोचतेः प्रशस्यनामान्युत्तराणि दश प्रज्ञानामान्युत्तराण्येकादश सत्यनामान्युत्तराणि षट् सत्यं कस्मात् सत्सु तायते तत्प्रभवं भवन्तीति वा अष्टाउत्तराणि पदानि पश्यतिकर्माण उत्तरे धातवश्चायति प्रभृतीनि च नामान्यामिश्राणि नवोत्तराणि पदानि सर्वपद समाम्नायाथात उपमा यदतत्तत सदृशमिति गार्ग्यस्तदासां कर्म च्यायसा वा गुणेन प्रख्यातत मेनवा कनीयांसं वा प्रख्यातं वोपमिमीतॆऽथापि कनीयसा ज्यायांसम् ॥ १३ ॥
तनूत्यजीव तस्करा वनर्गू रशनाभिर्दशभिरभ्यधीताम् । तनूत्यक्तनूत्यक्ता वनर्गू वनगामिनावग्निमन्थनौ बाहू तस्कराभ्यामुपमिमाते तस्करस्तत्करोति यक् पापकमिति नैरुक्तास्तनोतेर्वा स्यात् सन्ततकर्मा भवत्यहोरा त्रकर्मा वा रशनाभिर्दशभिरभ्यधीतामभ्यधातां ज्यायां स्तत्र गुणोऽभिप्रेतः ॥ १४ ॥
कुह स्विद्दोषा कुह वस्तोरश्विना कूहाभिपित्वं करतः कुहोषतुः । को वां शयत्रा विधवेव देवरं मर्यं न योषा कृणते सधस्थ आ । क्व स्विद्रात्रौ भवथः क्व दिवा क्वाभिप्राप्तिं कुरुथः क्व वसथः को वां शयने विधवेव देवरं (देवरः कस्माद् द्वितीयो वर उच्यते ) विधवा विधातृका भवति विधवनाद्वा विधावनाद्वेति चर्मशिरा अपि वा धव इति मनुष्यनाम तद्वियोगाद्विधवा देवरो दीव्यतिकर्मा मर्य्यो मनुष्यो मरणधर्मा योषा यौतेराकुरुते सहस्थानेऽथ निपाताः पुरुस्तादेव व्याख्याता यथेति कर्मोपमा । यथा वातो यथा वनं यथा समुद्र एजति । भ्राजंतो आग्नयो यथा । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा । आत्माततेर्वाप्तेर्वापि वाप्त इव स्याद् यावद्व्याप्तिभूत इति अग्निर्न ये भ्राजसा रुक्मवक्षसः । अग्निरिव ये (मरुतो भ्राजमाना रोचिष्णूरस्का ) भ्राजस्वंतो रुक्मवक्षसः ॥ १५ ॥
चतुरिश्चिद्ददमानाद् बिभीयादा निधातोः । न दुरुक्ताय स्पृहयेत् । चतुरोक्षान् धारयत इति तद्यथा कितवाद् भिभीयादेवमेव दुरुक्ताद् बिभीयान्न
दुरुक्ताय स्पृहयेत् कदाचिदा इत्याकार उपसर्गः पुरस्तादेव व्याख्यातोऽथाप्युपमार्थे दृश्यते । जार आ भगम् । जार इव भगमादित्योऽत्र जार उच्यते रात्रेर्जरयिता स एव भासां तथापि निगमो भवति । स्वसुर्जारः शृणोतु न इत्युषसमस्य स्वसारमाह साहचर्याद्रसहरणाद्वापि त्वयं मनुष्यजार एवाभिप्रेतः स्यात् स्त्रीभगस्तथा स्याद् भजतेर्मेष इति भूतोपमा । मेषो भूतो३भियन्नयः । मेषो मिषतेस्तथा पशुः पश्यतेरग्निरिति रूपोपमा । हिरण्य रूपः स हिरण्यसन्दृगपान्नपात्सेदु हिरण्यवर्णस्येवास्यरूपं था इति च । तं प्रत्नथा विश्वथेमथा । प्रत्न इव पूर्व इव विश्व इवेम इवेत्ययमेततरोऽमुष्मादसावस्ततरोऽस्मादमुथा यथासावति व्याख्यातं वदति सिद्धोपमा । ब्राह्मणवत् वृषलवत् । ब्राह्मणा इव वृषला इवेति वृषलो वृषशीलो भवति वृषाशीलो वा ॥ १६ ॥
प्रियमेधवदत्रिवज्जातवेदोविरूपवत् । अङ्गुरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम् । प्रियमेधः प्रिया अस्य मेधा यथैतेषामृषीणामेवं प्रस्कण्वस्य शृणुह्वानं प्रस्कण्वः कण्वस्य पुत्रः कण्वप्रभवो यथा प्रागमर्चिषि भृगुः सम्बभूव भृगुर्भृज्यमानो न देहेऽङ्गारेष्वङ्गिराः । आङ्गारा अङ्कना ( अञ्चना) अत्रैव तृतीयमृच्छतेत्यूचुस्तस्मादत्रिर्न त्रय इति विखननाद्वैखानसो भरणाद्भारद्वाजो विरूपो नानारूपो महिव्रतो महाव्रत इति ॥ १७ ॥
अथ लुप्तोपमान्यर्थोपमानीत्याचक्षते सिंहो व्याघ्र इति पूजायां श्वा का क इति कुत्सायां काक इति शब्दानुकृतिस्तदिदं शकुनिषु बहुलं न शब्दानुकृतिर्विद्यत इत्यौपमन्यवः काकोऽपकालयितव्यो भवति तत्तिरिस्तरणात्तिलमात्रचित्र इति वा कपिञ्जलः कपिरिव जीर्णः कपिरिव जवत ईषत्पिंगलो वा कमनीयं शब्धं पिञ्जयतीति वा श्वा शुयायी शवतेर्वा स्याद्गति कर्मणः श्वसितेर्वा सिंहः सहनाद्धिंसेर्वा (स्यात्) विपरीतस्य सम्पूर्वस्य वा हन्तेः संहाय हन्तीति वा व्याघ्नो व्याघ्राणाद् व्यादाय हन्तीति वा ॥ १८ ॥
अर्चतिकर्माण उत्तरे धातवश्चत्वारिंशन्मेधाविनामान्युत्तराणि चतुर्विंशतिर्मेधावी कस्मान्मेधया तद्वान् भवति मेधा मतौ धीयते स्तोतृनामान्युत्तराणि त्रयोदश यज्ञनामान्युत्तराणि पंचदश यज्ञः कस्मात् प्रख्यातं यजतिकर्मेति नैरुक्ता याज्ञ्यो भवतीति वा यजुरुन्नो भवतीति वा बहुकृष्णाजिन इत्यौपमन्यवो यजूंष्येनं नयन्तीति वर्त्तिङ्नामान्युत्तराण्यष्टावृत्विक् कस्मादीरण ऋग्यष्टा भवतीति शाकपूणिर्ऋतुयाजी भवतीति वा यच्ञाकर्माण उत्तरे धातवः सप्तदश दान कर्माण उत्तरे धातवो दशाध्येषणाकर्माण उत्तरे धातवश्चत्वारः स्वपितिसस्तीति द्वौ स्वपितिकर्माणौ कूपनामान्युत्तराणि चतुर्दश कूपः कस्मात् कुपानं भवति कुप्यतेर्वा स्तेननामान्युत्तराणि चतुर्दुशैव स्तेनः कस्मात् संस्त्यानमस्मिन् पापकमितिनैरुक्ता निर्णीतान्तर्हितनामधेयान्युत्तराणि षट् (निर्णीतं कस्मान्निर्णिक्तं भवति) दूरनामान्युत्तराणि पंच दूरं कस्माद् द्रुतं भवति दुरयं वा पुराणनामान्युत्तराणि षट् पुराणं कस्मात् पुरा नवं भवति नवनामान्युत्तराणि षडेव नवं कस्मादानीतं भवति ॥ १९ ॥
द्विश उत्तराणि नामानि प्रपित्वेऽभीक इत्यासन्नस्य प्रपित्वे प्राप्तेऽभीकेभ्यक्ते । आपित्वे नः प्रपित्वे तूय मा गहि । अभीके चिदु लोककृदित्यपि निगमौ भवतः । दभ्रमर्भकमित्यल्पस्य । दभ्रं दभ्नोतेः सुदम्बं भवत्यर्भकमवहतं भवति उपोह मे परा मृश मा मे दभ्राणि मन्यथाः । नमो महद्भ्यो नमो अर्भकेभ्य इत्यपि निगमौ भवतः । तिरः सत इति प्राप्तस्य तिरस्तीर्णं भवति सतः संसृतं भवति । तिरश्चिदर्यया परिवर्त्तिर्यातमदाभ्या । प्रातेव भिन्दन् सत एति रक्षस इत्यपि निगमौ भवतः । त्वो नेम इत्यर्द्धस्य त्वोऽपततो नेमोऽपतीतोर्द्धं हरतेर्विपरीताद्धारयतेर्वा स्यादुद्धृतं भवत्यृध्नोतेर्वा स्यादृद्धतमो विभागः पीयति त्वो अनु त्वो गृणाति । नेमे देवा नेमेऽसुरा इत्यपि निगमौ भवतः । ऋक्षाः स्तृभिरिति नक्षत्राणां नक्षत्राणि नक्षतेर्गतिकर्मणा नेमानि क्षत्राणीति च ब्राह्मणमृक्षा उदीर्णानीव ख्यायंते स्तृभिस्तीर्णानीव ख्यायंते । अमी य ऋक्षा निहिता च उच्चा । पश्यन्तो द्यामिव स्तृभिरित्यपि निगमौ भवतः । वम्रीभिरुपजिह्विका इति सीमिकानां वम्र्यो वमनात् सीमिका स्यमनादुपजिह्विका उपजिघ्र्यः । यदत्त्युपजिह्विका यद्वम्रो अतिसर्पतीत्यपि निगमो भवत्यूर्दरं कृदरमित्यावपन स्योर्दरमुदीर्णं भवत्यूर्जे दीर्णं वा । तमूर्दरं न पृणता यवेनेत्यपि निगमो भवति । तमूर्दरमिव पूरयति यवेन कृतदरं कृदरं भवति । समिद्धो अञ्जन् कृदरं मतीनामित्यपि निगमो भवति ॥ २० ॥
रम्भः पिनाकमिति दण्डस्य । रम्भ आरभन्त एनम् । आ त्वा रम्भं न जिव्रयो ररम्भेत्यपि निगमो भवति । आरभामहे त्वा जीर्णा इव दण्ढं पिनाकं प्रति पिनष्ट्येनेन । कृत्तिवासाः पिनाकहस्तोऽवततधन्वेत्यपि निगमो भवति । मेना ग्ना इति स्त्रीणां स्त्रिय स्तायतेरपत्रपणकर्मणो मेना मानयन्त्येना ग्ना गच्छन्त्येनाः । अमेनांश्चिज्जनिवतश्च कर्थ । ग्नास्त्वाकृन्तन्नपसोऽतन्वतेत्यपि निगमौ भवतः । शेपो वैतस इति पुंस् प्रजननस्य । शेपः शपतेः स्पृशतिकर्मणो वैतसो वितस्तं भवति । यस्यामुशन्तः प्रहराम शेपम् । त्रिः स्म माह्नः श्नथयो वैतसेनेत्यपि निगमौ भवतः । अयैनेत्युपदेशस्य । अया ते आग्ने समिधा विधेमेति स्त्रियाः । एना वो अग्निमिति नपुंसकस्य । एना पत्या तन्वं१संसृजस्वेति पुंसः । सिषक्तु सचत इति सेवमानस्य । स नः सिषक्तु यस्तुरः । सनः सेवतां यस्तुरः । सचस्वा नः स्वस्तये । सेवस्व नः स्वस्तये । स्वस्तीत्य विनासिनामास्तिरभिपूजितः सु अस्तीति भ्यसते रेजत इति भयवेपनयोः । यस्य शुष्माद्रोदसी अभ्यसेतां । रेजते अग्ने पृथिवी मखेभ्य इत्यपि निगमौ भवतः । द्यावापृथिवीनामधेया न्युत्तराणि चतुर्विंशतिस्तयोरेषा भवति ॥ २१ ॥
कतरा पूर्वा कतरापरायोः कथा जाते कवयः को विवेद । विश्वं त्मना बिभृतो यद्ध नाम विवर्त्तेते अहनी चक्रियेव ॥ कतरा पूर्वा कतरापरैनयोः कथं जाते कवयः क एने विजानाति सर्वमात्माना बिभृतो यद्धैनयोः कर्म विवर्त्तेते चैनयोरहनी अहोरात्रे चक्रयुक्ते इवेति द्यावापृथिव्योर्महिमानमाचष्ट आचष्टे ॥ २२ ॥
ओं ॥ एकार्थमनेकशब्द मित्येकदुक्तमथ यान्यनेकार्थान्येकशब्दानि तान्यतोऽनुक्रमिष्यामोऽनवगतसंस्कारांश्च निगमांस्तदैकपदिकमित्याचक्षते जहा जघानेत्यर्थः ॥ १ ॥
को नु मर्या अमिथितः सखा सखायमब्रवीत् । जहा को अस्मदीषते ॥ (ऋ.सं. ८-४५-३७) मर्या इति मनुष्यनाम । मर्यादाभिधानं वा स्यात् । मर्यादा मर्यैरादीयते । मर्यादामर्यादिनोर्विभागः मेथतिराक्रोशकर्मा ॥ अपापकं जघान कमहं जातु । कोऽस्मिद्भीतः पलायते ॥ निधा पाश्या भवति यन्निधीयते पाश्या पाससमूहः पाशः पाशयतेर्विपाशनात् ॥ २ ॥
वयः सुपर्णा उपसेदुरिंद्रं प्रियमेधा ऋषयो नाधमानाः । अपध्वांतमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्य १ स्मान्निधयेव बद्धान् ॥ (ऋ. सं. १०.७३.११) वयो वेर्बहुवचनं सुपर्णाः सुपतना आदित्यरश्मय उपसेदुरिंद्रं याचमाना अपोर्णुह्याध्वस्तं चक्षुश्चक्षुः ख्यातेर्वा चष्टेर्वा पूर्धि पूरय देहीति वा मुंचास्मान्पाशैरिव बद्धान् पार्श्वतः श्रोणितः शितामतः पार्श्वं पर्शुमयमंगं भवति पर्शु स्पृशतेः संस्प्रष्टा पृष्ठदेशं पृष्ठं स्पृशतेः संस्पृष्टमंगैरंगमंगनादंचनाध्वा श्रोणिः श्रोणतेर्गति चलाकर्मणः श्रोणिश्चलतीव गच्छतो दोः शिताम भवति दोर्द्रवतेर्योनिः शितामेति शाकपूणिर्विषितो भवति । श्यामतो यकृत्त इति तैटीकिः श्यामं श्यायतेर्यकृद्यथाकथा च कृत्यते शितिमांसतो मेदस्त इति गालवः शितिः श्यतेर्मांसं माननं वा मानसं वा मनोऽस्मिन्सीदतीति वा मेदो मेद्यतेः ॥ ३ ॥
यदिंद्र चित्र मेहनास्ति त्वादातमद्रिवः । राधस्तन्नो विदद्वस उभयाहस्त्याभर ॥ (ऋ. सं. ५-३९-१) यदिंद्र चित्र चायनीयं मंहनीयं धनमस्ति यन्म इह नास्तीति वा त्रीणि मध्यमानि पदानि त्वया नस्तद्दातव्यमद्रिवन्नद्रिरादृणात्येतेनापि वात्तेः स्यात्ते सोमाद इति ह विज्ञायते राध इति धननाम राध्नवंत्येनेन तन्नस्त्वं वित्तधनोभाभ्यां हस्ताभ्यामाहरोभौ समुब्धौ भवतो दमूना दममाना वा दानमना वा दांतमना वापि वा दम इति गृहनाम तन्मनाः स्यान्मनो मनोतेः ॥ ४ ॥
जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् । विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि ॥ (ऋं. सं. ५-४-५) अतिथि रभ्यतितो गृहान् भवत्यभ्येति तिथिषु परकुलानीति वा परगृहाणीति वा दुरोण इति गृहनाम दुरवा भवंति दुस्तर्पा इमं नो यज्ञमुपयाहि विद्वान्त्सर्वा अग्ने अभियुजो विहत्य शत्रूयतामाभर भोजनानि निहत्यान्येषां बलानि शत्रूणां भवनादाहर भोजनानीति वा धनानीति वा मूषो मूषिका इत्यर्थो मूषिकाः पुनर्मुष्णातेर्मूषोऽप्येतस्मादेव ॥ ५ ॥
सं मा तपंत्यभितः सपत्नीरिव पर्शवः । मूषो न शिश्नाव्यदंति माध्यः स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥ (ऋ. सं. १-१०५-८) संतपंति मामभितः सपत्न्य इवेमाः पर्शवः कूपपर्शवो मूषिका इवास्नातानि सूत्राणि व्यदंति । स्वांगाभिधानं वा स्याच्छिश्नाति व्यदंतीति वा संतपंति माध्यः कामाः स्तोतारं ते शतकृतो, वित्तं मे अस्य रोदसी जानीतं मेऽस्य द्यावापृथिव्याविति । त्रितं कूपेऽवहितमेतत् सूक्तं प्रतिबभौ । तत्र् ब्रह्मेतिहासमिश्रमृङ्मुश्रं गाथामिश्रं भवति । त्रितस्त्रीर्णतमो मेधया बभूव अपि वा संख्यानामैवाभिप्रेतं स्यादेकतो द्वितस्त्रित इति त्रयो बभूवुः ॥ ६ ॥
इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः । सोम राजन्प्रण आयूंषि तारीरहानीव सूर्यो वासराणि ॥ (ऋ. सं. ८-४८-७) ईषणेन वैषणेन वार्षणेन वा ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव धनस्य प्रवर्धय च न आयूंषि सोम राजन् । आहानीव सूर्यो वासराणि । वासराणि वेसराणि विवासनानि गमनानीति वा कुरुतनेत्यनर्थका उपजना भवंति कर्तन हंतन यातनेति जतरमुदरं भवति जग्धमस्मिन् ध्रियते धीयते वा ॥ ७ ॥
मरुत्वा इंद्र वृषभो रणाय पिबा सोममनुष्वधं मदाय । आ सिंच स्वजठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानां ॥ (ऋ. सं. २-४७-१) मरुत्वानिंद्र मरुद्बिस्तद्वान् वृषभो वर्षितापां रणाय रमणीयाय संग्रामाय पिब सोममनुष्वधमन्वन्वं मदाय मदनीयाय जैत्रायासिंच स्वजठरे मधुन ऊर्मिं मधु सोममित्यौपमिकु माद्यतेरिद मपीतरन्मध्वेतस्मा देव त्वं राजासि पूर्वेष्वप्यहस्तु सुतानां ॥ ८ ॥
तितउ परिपवनं भवति ततवद्वा तुन्नवद्वा तिलमात्र तुन्नमिति वा ॥ ९ ॥
सक्तुमिव तितउना पुनंतो यत्र धीरा मनसा वाचमक्रत । अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधि वाचि ॥ (ऋ. सं. १०-७१-२) सक्तुमिव परिपवनेन पुनंतः सक्तुः सचतेर्दुर्धावो भवति कसतेर्वा स्वाद्विपरीतस्य विकसितो भवति यत्र धीरा मनसा वाचमकृषत प्रज्ञानं धीराः प्रज्ञानवंतो ध्यानवंतस्तत्र सखायः सख्यानि संजानते भद्रैषां लक्ष्मीर्निहिताधि वाचीति भद्रं भगेन व्याख्यातं भजनीयं भूतानामभिद्रवणीयं भवद्रमयतीत वा भावनवद्वा लक्ष्मीर्लाभाद्वा लक्षणाद्वा लप्स्यनाद्वा लांछनाद्वा लपतेर्वा स्यात्प्रेप्साकर्मणो लग्यतेर्वा स्यादाश्लेषकर्मणो लज्जतेर्वा स्यादश्लाघाकर्मणः शिप्रे इत्युपरिष्टाद्व्याख्यास्यामः ॥ १० ॥
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार । यदेदयुक्त हरितः सधस्थानाद्रात्री वासस्तनुते सिमस्मै ॥ (ऋ. सं. १-११५-४) तत्सूर्यस्य देवत्वं तन्म हित्वं मध्ये यत्कर्मणां क्रियामाणानां विततं संह्रियते यदासावयुंक्ते हरणानादित्यरश्मीन् हरितोऽश्वानिति वाथ रात्री वासस्तनुते सिमस्मै वेसरमहरवयुवती सर्वस्मादपि वोपमार्थे स्याद्रात्रीव वासस्तनुत इति तथापि निगमो भवति । पुनः समव्यद्विततं वयंती समनात्सीत् ॥ ११ ॥
इंद्रेण सं हि दृक्षसे संजग्मानो अभिभ्युषा । मंदू समानवर्चसा ॥ (ऋ. सं. १-६-७) इंद्रेण हि संदृश्शसे संगच्छमानोऽबिभ्युषा गणेव मंदू मदिष्णूयुवां स्थोऽपि वा मंदुना तेनेति स्यात्समानवर्चसेत्येतेन व्याख्यातं ॥ १२ ॥
ईर्मांतासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः । हंसा इव श्रेणिनो यतंते यदाक्षिषुर्दिव्यमज्ममश्वाः । (ऋ. सं. १-१६३-१०) ईर्मांताः समीरितांताः सुसमीरितांताः पृथ्वंता वा सिलिकमध्यमाः संसृतमध्यमाः शीर्षमध्यमा वापि वा शिर आदित्यो भवति यदनुशेते सर्वाणि भूतानि मध्ये चैषां तिष्ठतीदमपीतरच्छिर एतस्मादेव समाश्रितान्येतदिंद्रियाणि भवंति । संशूरणासः दिव्यासो अत्याः । शूरः शवतेर्गतिकर्मणो दिव्या दिविजा अत्या अतनाः । हंसा इव श्रेणिशो यतंते । हंसा हंतेर्घ्नंत्यध्वानं श्रेणिश इति श्रेणिः श्रयतेः समाश्रिता भवंति । यदाक्षिषुर्यदापन् दिव्यमज्ममजनिमाजिमश्वा अस्त्यादित्यस्तुतिरश्वस्यादित्यादश्वो निस्तष्ट इति । सूरादश्वं वसवो निरतष्टेत्यपि निगमो भवति ॥ १३ ॥
कायमानो वना त्वं यन्मातृरजगन्नपः । न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभवः ॥ (ऋ. सं. ३-९-२) कायमानश्चायमान कामयमान इति वा मानि त्वं यन्मातृरपोऽगम उपशाम्यन् न तत्ते अग्ने प्रमृष्यते निवर्तनं दूरे यत्सिन्निह भवसि जायमानः । लोधं नयंति पशु मन्यमानाः । लुब्धमृषिं नयंति पशुं मन्यमानाः । शीरं पावकशोचिषं । पावकदीप्तिं । अनुशायिनमिति वाशिनमिति वा ॥ १४ ॥
कनीनकेव विद्रधे नवे द्रुपदे अर्भके । बभ्रू यामेषु शोभेते ॥ (ऋ. सं. ४-३२-२३) कनीनके कन्यके कन्या कमनीया भवति केयं नेतव्येति वा कमनेनानीयति इति वा कनतेर्वा स्यात्कांतिकर्मणः कन्ययोरधिष्ठान प्रवचनानि सप्तम्या एकवचनानीति शाकपूणिर्विद्ध योर्दारुपादोर्दारु ॥ दृणातेर्वा द्रूणातेर्वा तस्मादेव द्रु नवे नवजाते अर्भके अवृद्धे ते यया तदाधिष्ठानेषु शोभेते एवं बभ्रू यामेषु शोभेते बभ्व्रोरश्वयोः संस्तव इदं च मेऽदादिदं च मेऽदादित्यृषिः प्रसंख्यायाह । सुवास्त्वा अधि तुग्वनि । सुवास्तुर्नदी तुग्व तीर्थं भवति तूर्णमेतदायंति । कुविन्नंसंते मरुतः पुनर्नः । पुनर्नो नमंते मरुतो नसंत इत्युपरिष्वाद्व्याख्यास्यामः । ये ते मदा अहनसो विहायसस्तेभिरिंद्रं चोदय दातवे मघं । ये ते मदा आहननवंतो वचनवंतस्तैरिंद्रं चोदय दानाय मघं ॥ १५ ॥
उपो अदर्शि शुंध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि । अद्म सन्न संसतो बोधयंती शश्वत्तमागात्पुनरेयुषीणां । (ऋ. सं. १-१२४-४) उपादर्शि शुंध्युवः शुंध्युरादित्यो भवति शोधनात्तस्यैव वक्षो भासोध्यूढमिदमपीतरद्वक्ष एतस्मादेवाध्यूडं काये शकुनिरपि शुंध्युरुच्यते शोधनादेवोदकचरो भवत्यापोऽपि शुंध्यव उच्यंते शोधनादेव नोधा ऋषिर्भवति नवनं दधाति स यथा स्तुत्या कामानाविष्टुरुत एवमुषारूपाण्याविष्कुरुतेऽद्मसदद्मान्नं भवत्यद्म सादिनीति वान्नसानिनीति वा । स्यसतो बोधयंती शश्वत्तमागात्पुनरेयुषीणां । स्वपतो बोधयंती शाश्वतिकतमागात्पुनरागामिनीनां । ते वाशीमंत इष्मिणः ॥ ईषणिन इति वैषणिन इति वार्षणिन इति वाशीति वाङ्नाम वाश्यत इति सत्याः । शंसावाध्वर्यो प्रति मे गृणीहींद्राय वाहः कृणवाव जुष्टं । अभिवहनस्तुति मधिषवणप्रवादां स्तुतिं मन्यंत ऐंद्रीत्वेव शस्यते परितक्म्येत्युपरिष्टाद्व्यख्यास्यामः ॥ १६ ॥
सुविते सु इते सूते सुगते प्रजायामिति वा । सुविते मधा इत्यपि निगमो भवति । दयतिरनेककर्मा । नवेन पूर्वं दयमानाः सामेत्युपदयाकर्मा । य एक इद्विदयते वस्विति दानकर्मा वा विभागकर्मा वा । दुर्वर्तुर्भीमो दयते वनानीति दहतिकर्मा दुर्वर्तु र्दुर्वारः । विदद्वसुर्दयमानो वि शत्रूनिति हिंसाकर्मा । इमे सुता इंद्रवः प्रातरित्वना सजोषसा पिबतमश्विना तान् । अयं हि वामूतये वंदनाय मां वायसो दोषा दयमानो अ बभूधन् । दयमान इति । नूचिदिति निपातः । पुराणनवयोर्नूचेति च । अद्या चिन्नु चित्तदपो नदीनां । अद्य च पुरा च तदेव कर्म नदीनां । नूच पुरा च सदनं रयीणां । अद्य च पुरा च रयीणां रयिरति धननाम रातेर्दानकर्म ॥ १७ ॥
विद्याम तस्य ते वयमकूपारस्य दावने । विद्याम तस्यते वयमकुपरणस्य दानस्यादित्योऽप्यकूपार उच्यतेऽकूपारो भवति दूरपारः समुद्रोऽप्यकूपार उच्यतेऽकूपारो भवति महापारः कच्छपोऽप्यकूपार उच्यतेऽकूपारो न कूपमृच्छतीति कच्छपः कच्छं पाति कच्छेन पातीति वा कच्छेन पिबतीति वा कच्छः खच्छः खच्छदोऽयमपीतरो नदीकच्छ एतस्मादेव कमुदकं तेन छाद्यते । शिशीते शृंगे रक्षसे विनिक्षे । निश्यति शृंगे रक्षसो विनिक्षणनाय रक्षो रक्षितव्यमस्माद्रहसि क्षणोतीति वा रात्रौ नक्षत इति वा । अग्निः सुतुकः सुतुकेभिरश्वैः । सुतुकनः सुतुकनैरिति वा सुप्रजाः सुप्रजोभिरिति वा । सुप्रायणा अस्मिन्यज्ञे विश्रयंतां । सुप्रगमनाः ॥ १८ ॥
देवा नो सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे । देवा नो यथा सदा वर्धनाय स्युरप्रायुवोऽप्रमाद्यंतो रक्षितारश्चाहन्यहनि च्यवन ऋषिर्भवति च्यावयिता स्तोमानां च्यवानमित्यप्यस्य निगमा भवंति । युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः । युवां च्यवनं सनयं पुराणं यथा रथं पुनर्युवानं चरणाय ततक्षथुर्युवाप्रयौति कर्माणि तक्षतिः करोतिकर्मा रजो रजतेर्ज्योती रज उच्यत उदकं रज उच्यते लोका रजांस्युच्यंतेऽसृगहनी रजसी उच्येते । रजांसि चित्रा विचरंति तन्यव इत्यपि निगमो भवति हरो हरतेर्ज्योतिर्हर उच्यते उदकं हर उच्यते लोका हरांस्युच्यंतेऽसृगहनी हरसी उच्येते । प्रत्यग्ने हरसा हरशृणीहीत्यपि निगमो भवति । जुहुरे वि चितयंतः । जुह्विरे विचेतयमाना व्यंत इत्येषोऽनेककर्मा पदं देवस्य नमसाव्यंत इति पश्यति कर्मा वीहि शूर पुरोळाशमिति स्वादतिकर्मा । वीतं पातं पयस उस्रियायाः । अश्नीतं पिबतं पयस उस्रियाया उस्रियेति गोनामोस्राविणोऽस्यां भोगा उस्रेति च । त्वामिंद्र मतिभिः सुते सुनीथासो वसूयवः । गोभीः क्राणा अनूषत गोभिः कुर्वाणा अस्तोषत । आ तू षिंच हरिमींद्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः । आ सिंच हरिं द्रोरुपस्थे द्रुममयस्य हरिः सोमो हरितवर्णोऽयमपीतरो हरिरेतस्मादेव । वाशीभिस्तक्षताश्मन्मयीभिः । वाशीभिरश्ममयीभिरति वा वाग्बिरिति वा । स शर्धदर्यो विषुणस्य जंतोर्मा शिश्नदेवा अपि गुर्ऋतं नः । स उत्साहतां वो विषुणस्य जंतोर्विषमस्य मा शिश्निदेवा अब्रह्मचर्याः शिश्नं श्नथतेः । अपि गुर्ऋतं नः सत्यं वा यज्ञं वा ॥ १९ ॥
आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृण्वन्नजामि । उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् (ऋ. सं. १०-१०-१०) आगमिष्यंति तान्युत्तराणि युगानि यत्र जामयः करिष्यंत्यजामिकर्माणि जाम्यतिरेकनाम । बालिशस्य वासमानजातीयस्य वोपजन उपधेहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मदिति व्याख्यातं ॥ २० ॥
द्यौर्मे पिता जनिता नाभिरत्र बंधुर्मे माता पृथिवी महीयं । उत्तानयोश्चम्वो ३ र्योनिरंतरत्रा पिता दुहितुर्गर्भमाधात् ॥ (ऋ. सं.१-१६४-३३) द्यौर्मे पिता पाता वा पालयिता वा जनयिता नाभिरत्र बंधुर्मे माता पृथिवी महतीयं बंधुः संबंधनान्नाभिः संनहनान्नाभ्या संनद्धा गर्भाजायंत इत्याहुरेतस्मादेव ज्ञातीन् सनाभय इत्याचक्षते सबंधवः इति च ज्ञातिः संज्ञानात् । उत्तानयोश्चम्वो ३ र्योनिरंतः । उत्तान उत्ततान ऊर्ध्वतानो वा तत्र पिता दुहितुर्गर्भं दधाति पर्जन्यः पृथिव्याः शंयुः सुखयुः । अथा नः शंयोररपो दधात ॥ (ऋ. सं. १०-१५-४) रपो रिप्रमिति पापनामनी भवतः शमनं च रोगाणां यौवनं च भयानामथापि शंयुर्बार्हस्पत्य उत्यते । तच्छंयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतय इत्यपि निगमो भवति । गमनं यज्ञाय गमनं यज्ञपतये ॥ २१ ॥
अदितिरिदीना देवमाता ॥ २२ ॥
अदितिर्द्यौरदितिरंतरिक्षमदितिर्माता स पिता स पुत्रः । विश्वेदेवा अदितिः पंचजना अदितिर्जातमदितिर्जनित्वं ॥ (ऋ. सं. १-८९-१०) इत्यदितिर्विभूतिमाचष्ट एनान्यदीनानीति वा । यमेरीरे भृगवः । एरिर इतीर्तिरुपसृष्टोऽभ्यस्तः ॥ २३ ॥
उत स्मैनं वस्त्रमर्थि न तायुमनुक्रोशंति क्षितयो भरेषु । नीचायमानं जसुरिं न श्येनं श्रवश्चाच्छा पशुमं च यूथं ॥ (ऋ. सं.४-३८-५) अपि स्मैनं वस्त्रमथिमिव वस्त्रं वस्तेस्तायुरिति स्तेननाम संस्त्यानमस्मिन्पापकमिति नैरुक्तास्तस्यतेर्वा स्यादनुक्रोशंति क्षितयः संग्रामेषु भर इति संग्रामनाम भरतेर्वा हरतेर्वा नीचायमानं नीचैरयमानं नीचैर्निचितं भवत्युच्चैरुच्चितं भवति जस्तमिव श्येनं श्येनः शंसनीयं गच्छति । श्रवश्चाच्छा पशुमच्च यूथं । श्रवश्चापि पशुमच्च यूथं प्रशंसां च यूथं च धनं च यूथं चेति वा यूथं यौतेः समायुतं भवति । इंधान एनं जरते साधीः । गृणाति । मंदी मदंतेः स्तुतिकर्मणः । प्रमंदिने पितुमदर्चता वचः । प्रार्चत मंदिने पितुम द्वचो गौर्व्याख्यातः ॥ २४ ॥
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यं । इत्था चंद्रमसो गृहे ॥ (ऋ. सं. १-८४-१५) अत्र ह गोः सममंसतादित्यरश्मयः स्वं नामापीच्यमपगतमपचितमपिहितमंतर्हितं वामुत्र चंद्रमसो गृहे गातुव्याख्यातः । गातुं कृणवन्नुषसो जनायेत्यपि निगमो भवति । दंसयः कर्माणि दंसयंत्येनानि । कुत्साय मन्मन्नह्यश्च दंसय इत्यपि निगमो भवति । स तूताव नॆनमश्नोत्यंहतिः । स तूताव नैनमंहतिरश्नोत्यंहतिश्चांहश्चांहुश्च हंतेर्निरूढोपधाद्विपरीतं । बृहस्पते चयस इत्पियारुं । बृहस्पते यच्चातयसि देवपीयुं पीयतिर्हिंसाकर्मा वियुते द्यावापृथिव्यौ वियवनात् । सामान्यावियुते दूरे अंते । समानं संमानमात्रं भवति मात्रा मानाद्दूरं व्याख्यातमंतोऽततेर्ऋधगिति पृथग्भावस्य प्रवचनं भवतथाप्यृध्नोत्यर्थे दृश्यते । ऋधगया ऋधगुताशमिष्ठाः । ऋध्नुवन्नयाक्षीर्ऋध्नुवन्नशमिष्ठा इति चास्या इति चास्स्येति चोदात्तं प्रथमादेशेऽनुदात्तमन्वादेशे तीव्रार्थतरमुदात्तम ल्पीयोऽर्थतरमनुदात्तं । अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवा अजाश्व श्रवस्यतामजाश्व । अस्यैनः सातयः उपभवाहेळमानोऽक्रुध्यन्ररिवान्रातिरभ्यस्तोऽजाश्वेति पूषणमाहाजाश्वाजा अजना अथानुदात्तं । दीर्घायुरस्याः यः पतिर्जीवाति शरदः शतं । दीर्घायुरस्या यः पतिर्जीवतु स शरदः शतं शरच्छृता अस्यामोषधयो भवंति शीर्णा आप इति वास्येत्यस्या इत्येतेन व्याख्यातं ॥ २५ ॥
अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः । तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रं । (ऋ. सं. १-१६४-१) अस्य वामस्य वननीयस्य पलितस्य पालयितुर्होतुर्ह्वातव्यस्य तस्य भ्राता मध्यमो अस्त्यशनो भ्राता भरतेर्हरतिकर्मणो हरते भागं भर्तव्यो भवतीति वा तृतीयो भ्राता घृतपृष्ठोऽस्यायमग्निस्तत्रापश्यं सर्वस्य पातारं वा पालयितारं वा विश्पति सप्तपुत्रं सप्तमपुत्रं सर्पणपुत्रमिति वा सप्त सृप्ता संख्या सप्तादित्यरश्मय इति वदंति ॥ २६ ॥
सप्त युंजंति रथमेकचक्रमेको अश्वो वहति सप्तनामा त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनानि तस्थुः ॥ (ऋ. सं. १-१६४-२) सप्त युंजंति रथमेकचक्रमेकचारिणं चक्रं चक्रतेर्वा क्रामतेर्वैको अश्वो वहति सप्तनामादित्यः सप्तास्मै रश्मयो रसानभिसंनामयंति सप्तैनमृषयः स्तुवंतीति वेदमपीतरन्नामैतस्मादेवाभिसंनामात्संवत्सरप्रधान उत्तरोऽर्धर्चस्त्रिनाभिचक्रं त्र्यृतुः संवत्सरो ग्रीष्मो वर्षा हेमंत इति संवत्सरः संवसंतेऽस्मिन् भूतानि ग्रीष्मो ग्रस्यंतेऽस्मिन्रसा वर्चा वर्षत्यासु पर्जन्यो हेमंतो हिमवान् हिमं पुनर्हंतेर्वा हिनोतेर्वाजरमजरण धर्माणमनर्वमप्रत्यृतमन्यस्मिन्यत्रेमानि सर्वाणि भूतान्यभिसंतिष्ठंते तं संवत्सरं सर्वमात्राभिः स्तौति । पंचारे चक्रे परिवर्तमान इति पंचर्तुतया पंचर्तवः संवत्सरस्येति च ब्राह्मणं हेमंतशिशिरयोः समासेन षळर आहुरर्पितमिति षळृतुतयाराः प्रत्यृता नाभौ षट् पुनः सहतेः । द्वादशारं नहि तज्जराय । द्वादश प्रधयश्चक्रमेकमितिमासानां मासा मानात्प्रधिः प्रहितो भवति । तस्मिन्त्साकं त्रिशता न शंकवोऽर्पिताः षष्टिर्नचलाचलासः । षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहोरात्रा इति च ब्राह्मणं समासेन । सप्त शतानि विंशतिश्च तस्थुः । सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्रा इति च ब्राह्मणं (ऐ. आ. ३-२-१) विभागेन विभागेन ॥ २७ ॥
ओं । सस्निमविंदच्चरणे नदीनाम् । सस्नातं मेघम् । वाहिष्ठो वां हवानां स्तोमो दूतो हु वन्नरा । वोढृतमो ह्वानानां स्तोमो दूतो हुवन्नरौ नरा मनुष्या नृत्यंति कर्मसु दूतो जवतेर्वा द्रवतेर्वा वारयतेर्वा (दूतो देवानामसि मर्त्यानामित्यपि निगमो भवति ।) वावशनो वष्टेर्वा वाश्यतेर्वा । सप्त स्वसृररुषीर्वावशान इत्यपि निगमो भवति । वार्य्यं वृणोतेरथापि वरतमम् । तद्वार्यं वृणीमहे वरिष्ठं गोपयत्यम् । तद्वार्यं वृणीमहे वर्षिष्ठं गोपायितव्यं गोपायितारः । यूयं स्थ युष्मभ्यमिति वांध इत्यन्ननामाध्यानीयं भवति आमत्रेभिः सिञ्चता द्यमर्द्धः । आसिञ्चतामत्रैर्मदनीयमंधोऽमत्रं पात्रममा अस्मिन्नदंत्यमा पुनरनिर्मितं भवति पात्रं पानात्तमोऽप्यंध उच्यते नास्मिन् ध्यानं भवति न दर्शनमंधन्तम इत्यभिभाषंतेऽयमपितरोऽन्ध एतस्मादेव । पश्यदक्षण्वान् न विचेतदन्ध इत्यपि निगमो भवति ॥ १ ॥
असश्चंती भूरिधारे पयस्वती । असज्यमाने इति वाव्युदस्यन्त्यामिति वा बहुधारे उदकवत्यौ वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति । वनुयाम वनुष्यत इत्यपि निगमो भवति । दीर्घप्रयज्यमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः । दीर्घप्रततयज्ञमभिजिघांसति यो वयं तं जयेम पृतनासु दूढ्यं दुर्धियं पापधियं पापः पातापेयानां पापत्यमानोऽवाङीव पततीति वा पापत्यतेर्वास्यात् तरुष्यतिरप्येवङ्कर्मा । इंद्रेण युजा तरुषेम वृत्रमित्यपि निगमो भवति । भंदना भंदते स्तुतिकमणः । पुरुप्रियो भंदते धामभिः कविरित्यपि निगमो भवति । स भंदना उदियर्त्ति प्रजावतीरिति च । अन्येन मदाहनो याहि तूयम् । अन्येन मदहनो गच्छ क्षिप्रमाहंसीव भाषमाणेत्यसभ्यभाषणादाहना इव भव्यत्येतस्मादाहनः स्यादृषिर्नदो भवति नदते स्तुतिकर्मणः । नदस्य मा रुधतः काम आ गन् । नदनस्य मा रुधतः काम आगमत् संरुद्धप्रजननस्य ब्रह्मचारिण इत्यृपिपुत्र्या विलपितं वेदयन्ते ॥ २ ॥
न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः । अश्नोतेरित्येके । अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः । लोपाशः सिंहं प्रत्यञ्ज मत्साः । क्षियतिनिगमः पूर्वः क्षरतिनिगम उत्तर इत्येकेऽनूपे गोमान्गोभिर्यदा क्षियत्यथ सोमो दुग्धाभ्यः क्षरति सर्वे क्षयतिनिगमा इति शाकपूणिः श्वात्रमिति क्षिप्रनामाशु अतनं भवति स पतत्रीत्वरं स्था जगद्यच्छ्वात्रमग्निरकृणोज्जातवेदाः स पतत्रि चेत्वर स्थावरं जंगमं च यत्तत्ष्किप्रमग्निरकरोज्जातवेदा ऊतिरवनात् । आ त्वा रथं यथोतय अत्यपि निगमो भवति हासमाने इत्युपरिष्टाद्व्याख्यास्यामो वम्रक पत्भिरुपसर्पदिंद्रं । पानैरिति वा स्पर्शनैरिति वा ससं न पक्वमविदच्छुचन्तं । स्वपनमेतन्माध्यमिकं ज्योतिरनित्यदर्शनं तदिवाविदज्जाज्वल्यमानं । द्विता च सत्तास्वधया च शम्भुं । द्वैधं सत्ता मध्यमे च स्थान उत्तमे च शम्बु सुखभूं । मृगं न व्रा मृगयंते मृगमिव व्रात्याः प्रेसाः ॥ ३ ॥
वराहो मेघो भवति वराहारो वरमाहारमाहार्षीरिति च ब्राह्मणम् । विध्यद्वराहन्तिरो आद्रिमस्ते इत्यपि निगमो भवत्ययमपीतरो वराह एतस्मादेव वृहति मूलानि वरं वरं मूलं वृहतीति वा । वराहमिन्द्र एमुषमित्यपि निगमो भवत्यङ्गुरसोऽपि वराहा उच्यंते । ब्रह्मणस्पतिर्वृषभिर्वराहैः । अथाप्येते माध्यमका देवगणा वराहव उच्यन्ते । पश्यन् हिरण्यचक्रानयो दंष्ट्रान् विधावतो वराहून् ॥ ४ ॥
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥ गायन्ति त्वा गायत्रिणः प्रार्चन्तितेऽर्कमर्किणो ब्राह्मणास्त्वा शतक्रतो उद्येमिरे वंशमिव वंशो वनशयो भवति वननाच्छ्रूयत इति वा पवी रथनेमिर्भवति यद्विपुनाति भूमिम् । उत पव्या रथानामद्रिं भिन्दन्त्योजसा । तं मरुतः क्षुरपविना व्ययुरित्यपि निगमौ भवतः । वक्षो व्याख्यातं धन्वान्तरिक्षं धन्वन्त्यस्मादापः । तिरो धन्वातिरोचत इत्यपि निगमो भवति । सिनमन्नं सिनाति भूतानि । येन स्मा सिनं भरथः सखिभ्य इत्यपि निगमो भवति । इत्थामुथेत्येतेन व्याख्यातं सचा सहेत्यर्थः । वसुभिः सचाभुवा । वसुभिः सह भुवौ । चिदिति निपातोनुदात्तः पुरस्तादेव व्याख्यातोऽथापि पशुनामेह भवत्युदात्तश्चिदसि मनासि चितास्त्वयि भोगाश्चेतयस इति वा आ इत्याकार उपसर्गः पुरस्थादेव व्याख्यातोऽथाप्यध्यर्थे दृश्यते । अभ्र आ अपः अभ्रे आ अपोपोऽभ्रेऽधीति द्युम्नं द्योततेर्यशो वा अन्नं वा । अस्मे द्युम्नमधिरत्नं च धेहि । अस्मासु द्युम्नं च रत्नं च धेहि ॥ ५ ॥
पवित्रं पुनातेर्मंत्रः पवित्र मुच्यते । येन देवाः पवित्रेणात्मानं पुनते सदेत्यपि निगमो भवति । रश्मयः पवित्रमुच्यन्ते । गभस्तिपूतः गभस्तिपूतो नृभिरद्रिभिः सुतः इत्यपि निगमौ भवतः । आपः पवित्रमुच्यन्ते । शतपवित्राः स्वधया मदन्तीः बहूदकाः । अग्निः पवित्रमुच्यते वायुः पवित्रमुच्यते सोमः पवित्रमुच्यते सूर्यः पवित्रमुच्यते इन्द्रः पवित्रमुच्यते । अग्निः पवित्रं स मा पुनातु वायुः सोमः सूर्यः इंद्रः पवित्रं ते मा पुनंतु इत्यपिनिगमो भवति ॥ तोदस्तुद्यतेः ॥ ५ ॥ ६ ॥
पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा । तोदस्येव शरण आ महस्य । बहुदाश्वांस्त्वामेवाभिह्वयामि । अरिरमित्र ऋच्छतेरीश्वरोऽप्यरिरेतस्मादेव । यदन्यदेवत्या अग्नावाहुतयो हूयन्त इत्येतद् दृष्चैवमवक्षत् । तोदस्येव शरण आ महस्य । तुदस्येव शरणेऽधि महतः । स्वञ्चाः सु अञ्चनः । आजुह्वानो घृतपृष्ठः स्वञ्चा इत्यपि निगमो भवति । शिपिविष्टो विष्णुरिति विष्णोर्द्वे नामानी भवतः कुत्सितार्थीयं पूर्वं भवतीत्यौपमन्यवः ॥ ५ ॥ ७ ॥
किमित्ते विष्णो परिचक्ष्यं भूत् प्र यद्ववक्षे शिपिविष्टो अस्मि । मा वर्षो अस्मदपगूह एतद्यदन्यरूपः समिथे बभूथ ॥ किं ते विष्णोऽप्रख्यातामेतद्भवत्यप्रख्यापनीयं यन्नः प्रब्रूषे शेप इव निर्वॆष्टितोऽस्मीत्यप्रतिपन्नरश्मिरपि वा प्रशंसाना मैनाभिप्रेतं स्यात् किं ते विष्णो प्रख्यातमेतद्भवति प्रख्यापनीयं यदुत प्रब्रूषे शिपिविष्टोऽस्मिति प्रतिपन्नरश्मिः शिपयोऽत्र रश्मय उच्यंते तैराविष्टो भवति । मा वर्पो आसदप गूह एतत् । वर्प इति रूपनाम वृणोतीति सतः । यदन्यरूपः समिथे संग्रामे भवसि संयत रश्मिः तस्योत्तरा भूयसे निर्वचनाय ॥ ५ ॥ ८ ॥
प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् । तन्त्वा गृणामि तवसमतव्यान् क्षयंतमस्य रजसः पराके ॥ तत्तेऽद्य शिपिविष्टनामार्यः प्रशंसाम्यर्योऽहवास्मीश्वरः स्तोमानामर्यस्त्वमसीति वा तन्वा स्तौमि तवसमतव्यान् । तवस इति महतो नामधेयम् । उदितो भवति । निवसन्तमस्य रजसः पराके पराक्रांते । अघृणिरागतहृणिः । आघृणे संसचावहै आगतहृणे संसेवावहै । पृथुज्रयाः पृथुजवः । पृथुज्रया अमिनादायुर्दस्योः प्रामापयदायुर्दस्योः ॥ ५ ॥ ९ ॥
अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरे दृशं गृहपतिमथर्युम् । दीधितयोऽङ्ग् लयो भवन्ति धीयंते कर्मस्वरणी प्रत्यृत एने । अग्निः समरणाज्वायत इति वा । हस्तच्युती हस्तप्रच्युत्या । जनयंत प्रशस्तं दूरे दर्शनं गृहपतिमतनवंतम् ॥ ५ ॥ १० ॥
एकया प्रतिधा पिबत्साकं सरांसि त्रिंशतम् । इन्द्रः सोमस्य काणुका ॥ एकेन प्रतिधानेनापिबत् साकं सहेत्यर्थः । इन्द्रः सोमस्य काणुका कान्तकानीति वा क्रांतकानीति (वा कृतकानीति ) वेन्द्रः सोमस्य कान्त इति वा कणे घात इति वा कणे हतः कान्तिहतस्तत्रैतद्याज्ञिका वेदयन्ते त्रिंशदुक्थपात्राणि माध्यन्दिने सवन एकदेवतानि तान्येतस्मिन्काल एकेन प्रतिधानेन पिबन्ति तान्यत्र सरांसुच्यन्ते त्रिंशदपरपक्षस्याहोरात्रास्त्रिंशत् पूर्वपक्षस्येति नैरुक्तास्तदा एताश्चान्द्रमस्य आगामिन्य आपो भवन्ति रश्मयस्ता अपरपक्षे पिबन्ति निगमो तथापि भवन्ति । यमक्षितिमक्षितयः पिबन्तीति । तं पूर्वपक्ष आप्याययन्ति तथापि निगमो भवति । यथा देवा अंशुमाप्याययन्तीति ॥
अध्रिगुर्मन्त्रो भवति गव्यधिकतत्वादपि वा प्रशासनमेवाभिप्रेतं स्यात्तच्छब्दवत्त्वादध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमभ्रिगवित्यग्निरप्यध्रिगुरुच्यते । तुभ्यं श्चोतन्त्यध्रिगो शचीवः । अधृतगमनकर्मवन्निंद्रोऽप्यध्रिगुरुच्यते अध्रिगव ओहमिन्द्रायोत्यपि निगमो भवति । अङ्गूषः स्तोम अघोषः । एनाङ्गूषेण वयमिन्द्रवन्तः । अनेन स्तोमेन वयमिन्द्रवन्तः ॥
आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमान् ऋजीषी । सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥ आपा तितमन्युस्त्यप्रहारी (क्षिप्रप्रहारी सृप्रप्रहारी) सोमो वेंद्रो वा धुनिर्धुनोतेः शिमीति कर्मनाम शमयतेर्वा शक्नोतेर्वर्जीषी सोमो यत् सोमस्य पूयमानस्यातिरिच्यते तदृजीषमपार्जितं भवति तेनर्जीषी सोमोऽथापैन्द्रो निगमो भवति । ऋजीषी वज्रीति । हर्य्योरस्य स भागो धानाश्चेति धानाभ्राष्ट्रे हिता भवन्ति फले हिता भवन्तीति वा । बब्धां ते हरी धाना उप ऋजीषं जिघ्रतामित्यपि निगमो भवत्यादिनाभ्यासेनोपहितेनोपधामादत्ते बभस्तिरत्तिकर्मा सोमः सर्वाण्यतसानि वनानि नार्वागिन्द्रं प्रतिमानानि दभ्नुवन्ति यैरेनं प्रतिमिमते नैनं तानि दभ्नुवन्त्यर्वागेवैनमप्राप्य विनश्यन्तीतीन्द्रप्रधानेत्येके नैघुंटुकं सोम कर्मोभयप्रधानेत्यपरं श्मशाशु अश्नुत इति वा श्माश्नुत इति वा । आव श्मशा रुधद्वाः । आवारुधच्छमशावारिति ॥
उर्वश्यप्सरा उर्वभ्यश्नुत ऊरुभ्यामश्नुत उरुर्वा वशोऽस्या अप्सरा अप्सारिण्यपि वाऽप्स इति रूपनामाप् सातेरप्सानीयं भवत्यादर्शनीयं व्यापनीयं वा स्पष्टं दर्शनायेति शाकपूणिर्यदप्स इत्यभक्षस्याप्सो नामेति व्यापिनस्तद्रा भवति रूपवती तदनयात्तमिति वा तदस्मै दत्तमिति वा तस्या दर्शनान्मित्रावरुणयो रेतश्चस्कंद तदभिवादिन्येषर्ग्भवति ॥ १ ॥
उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधिजातः । द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥ अप्यसि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधिजातो द्रप्सः संभृतः प्सानीयो भवति सर्वे देवाः पुष्करे त्वाधारयन्त पुष्करमन्तरिक्षं पोषति भूतान्युदकं पुष्करं पूजाकरं पूजयितव्यमिदमपीतरत् पुष्करमेतस्मादेव पुष्करं वपुष्करं वा पुष्पं पुष्पत्येर्वयुनं वेतेः कान्तिर्वा प्रज्ञा वा ॥
स इत्तमोऽवयुनं ततन्वत् सूर्येण वयुनवच्चकार । स तमोऽप्रज्ञानं ततन्वत् सूतं सूर्येण प्रज्ञानवच्चकार वाजपस्त्यं वाजपतनम् । सनेम वाजपस्त्यमित्यपि निगमो भवति । वाजगंध्य गध्यत्युत्तर पदम् । अश्यामवाजगंध्यमित्यपि निगमो भवति । गध्यं गृण्हातेः । ऋज्रा वाजं न गध्यं युयूषन्नित्यपि निगमो भवति । गध्यतिर्मिश्रीभावकर्मा । आगधिता परिगधितेत्यपि निगमो भवति । कौरयाणः कृतयानः पाकस्थामा कोरयाण इत्यपि निगमो भवति । कौरयाणस्तूर्णयानः । स कौरयाण उप याहि यज्ञं मरुद्भिरिन्द्र सखिभिः सजोषा इत्यपि निगमो भवत्यह्रयाणो ह्रीतयानः । अनुष्ठुया कृणुद्यह्रयाणेत्यपि निगमो भवति । हरयाणो हरमाणयानः । रजतं हरयाण इत्यपि निगमो भवति । य आरितः कर्मणि कर्मणि स्थिरः । प्रत्यृत सोमान् व्रन्दी व्रन्दतेर्मृदूभाव कर्मणः ॥
नि यद् वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद् व्रन्दिनो रोरुवद्वना । निवृणक्षि यच्छ्वसनस्य मूर्धनि शब्दकारिणः शुष्णस्यादित्यस्य च शोषयितू रोरूयमाणो वनानीति वा बधेनेति वा । अव्रदन्त वीलितेत्यपि निगमो भवति वीलयतिश्च व्रीलयतिश्च संस्तंभकर्माणौ पूर्वेण संप्रयुज्येते निष्षपी स्त्रीकामो भवति विनिर्गतसपः सपः सपतेः स्पृशतिकर्माणः । मा नो मघेव निष्षपी परा दाः । स यथा धनानि विनाशयति मा नस्त्वं तथा परादाः । तूर्णाशमुदकं भवति तूर्णमश्नुते । तूर्णाशं न गिरेरधीत्यपि निगमो भवति । क्षुम्पमहिच्छत्रकं भवति यत् क्षुभ्यते ॥
कदा मर्त्तमराधसम्पदा क्षुम्पमिव स्फुरत् । कदा नः शुश्रवद् गिर इन्र्हो अङ्ग । कदा मर्त्तमनाराधयन्तं पादेन क्षुम्पमिवास्फुरिष्यति कदा नः शृणोति च गिर इन्द्रो अङ्गाङ्गेति क्षिप्रनामाञ्चुतमेवाङ्कुतं भवति निचुम्पुणः सोमो निचान्तपृणो निचमनेन प्रीणाति ॥
पत्नीवंतः सुता इम उशन्तो यन्ति वीतये । अपां जग्मिर्निचुम्पुणः ॥ पत्नीवन्तः सुता इमेऽद्भिः सोमाः कामयमाना यन्ति वीतये पानायापां गन्ता निचुम्पुणः समुद्रोऽपि निचुम्पुण उच्यते निचमनेन पूर्यत आवभृथोऽपि निचुम्पुण उच्यते निचैरस्मिन् क्वणन्ति नीचैर्दधतीति वा । अवभृथ निचुम्पुर्णेत्यपि निगमो भवति । निचुम्पुण निचुङ्कुणेति च पदिर्गन्तुर्भवति यत् पद्यते ॥
सुगुरसत् सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति । यस्त्वा यन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥ सुगर्भवति सुहिरण्यः सुश्वो महच्चास्मै वय इन्द्रो दधाति यस्त्वा यन्तमन्नेन प्रातरागामिन्नतिथे मुक्षीजयेव पदिमुत्सिनाति । कुमारो मुक्षीजा मोचनाच्च सयनाच्च ततनाच्च पादुः पद्यतेः । आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते । आविष्कुरुते भासमादित्यो गूहते बुसं बुसमित्युदकनाम ब्रवीतेः शब्दकर्मणो भ्रंशतेर्वा यद्वर्षन् पातयत्युदकं रश्मिभिस्तत् प्रत्यादत्ते ॥
वृकश्चंद्रमा भवति विवृतज्योतिष्को वा विकृत ज्योतिष्को वा विक्रान्तज्योतिष्को वा ॥
``अरणो मासकृद्वृकः पथा यन्तं ददर्श हि । उज्जिहीते निचाय्या तष्टेव पृष्ठ्यामयी वित्तं मे अस्य रोदसी ॥ अरुण आरोचनो मासकृन्मासानां चार्द्धमासानां च कर्ता भवति चन्द्रमा वृकः पथा यन्तं ददर्श नक्षत्र गणमभिजिहीते निचाय्य येन येन योक्ष्यमाणो भवति चन्द्रमास्तक्ष्णुवन्निव पृष्ठरोगी जानीतॆ मेऽस्य द्यावापृथिव्याविति ॥ आदित्योऽपि वृक उच्यते । यदावृङ्क्ते । ``अज्योहवीदश्विना वर्त्तिका वामास्नो यत्सीममुञ्चतं वृकस्य ।" आह्वयदुषा अश्विनावादित्येनाभिग्रस्ता तामश्विनौ प्रमुमुचतुरित्याख्यानम् । श्वापि वृक उच्यते विकर्त्तनात् `वृकश्चिदस्य वारण उरामथिः' उरणमथिः ॥ उरण ऊर्णावान् भवत्यूर्णा पुनर्वृणोतेरूर्णोतेर्वा । वृद्धवाशिन्यपि वृक्युच्यते । `शतं मेषान्वृक्ये चक्षद्दानमृज्राश्वं तं पितान्धं चकार।' इत्यपि निगमो भवति ॥ जोषवाकमित्यविज्ञातनामधेयं जोषयितव्यं भवति ॥ २१ ॥
``य इन्द्राग्नी सुतेषु वां स्तवत्तेष्वृतावृधा । जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन ॥" य इंद्राग्नी सुतेषु वां सोमेषु स्तौति तस्याश्नीथोऽथ योऽयं जोषवाकं वदति विजञ्जपः प्रार्जितहोषिणौ न देवौ तस्याश्नीथः । कृत्तिः कृंततेर्यशो वा अन्नं वा । महीव कृत्तिः शरणात इंद्र । सुमहत्त इंद्र शरणमंतरिक्षे कृत्तिरिवेति । इयमपीतरा कृत्तिरेतस्मादेव सूत्रमयी । उपमार्थे वा । (कृत्तिं वसान आचर पिनाकं बिभ्रदागहि) अवततधन्वा पिनाकहस्तः कृत्तिवासाः इत्यपि निगमो (मौ) । भवति (तः) ॥ श्वघ्नी कितवो भवति स्वं हन्ति स्वं पुनराश्रितं भवति । कृतं न श्वघ्नि विचिनोति देवने कृतमिव श्वघ्नी विचिनोति देवने । कितवः किं तवास्तीति शब्दानुकृतिः, कृतवान्वाशीर्नामकः । सममिति परिग्राहार्थीयं सर्वनामानुदात्तम् ॥ २२ ॥
मा नः समस्य दूढ्यः परिद्वेषसो अंहताः । ऊर्मिर्न नावमावधीत् । मा नः सर्वस्य दुर्धियः पापधियः सर्वतो द्वेषसो अंहिरूर्मिरिव नावमावधीत् । ऊर्मिरूर्णेतेर्नौः प्रणोत्तव्या भवति । नमतेर्वा । तत्कथमनुदात्तप्रकृति नामस्याद् दृष्टव्ययं तु भवति । उतो समस्मिन्नाशिशीहि नो वसो इति सप्तम्यां शिशीतिर्दानकर्मा । उरुष्याणो अघायतः समस्मात् इति पंचम्यामुरुष्यतिरक्षाकर्मा । अथापि प्रथमा बहुवचने नभन्तामन्यके समे ॥ २३ ॥
हविषा जारो अपां पिपर्त्ति पपुरिर्नरा । पिता कुटस्य चर्षणिः । हविषापां जरयिता पिपर्त्ति पपुरिरिति पृणाति निगमौ वा प्रीणातिनिगमौ वा पिता कृतस्य कर्मणश्चायितादित्यः शंब इति वज्रनाम शमयतेर्वा शातयर्तेर्वा । उग्रो यः शंबः पुरुहूत तेनेत्यपि निगमो भवति । केपयः कपूया भवन्ति कपूयमिति पुनाति कर्म कुत्सितं दुष्पूयं भवति ॥ २४ ॥
पृथक् प्रायन् प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा । नये शेकुर्यज्ञियां नाममारुहमीर्मैव ते न्यविशन्त केपयः । पृथक् प्रायन् पृथक् प्रथते प्रथमा देवहूतयो ये देवानाह्वयन्ताकुर्वत श्रवणीयानि यशांसि दुरनुकराण्यन्यैर्येऽशक्नुवन् यज्ञियां नावमारोढुमथ ये नाशक्नुवन् यज्ञियां नावमारोढमीर्मैव ते न्यविशन्तेहैव ते न्शविशन्त ऋणे हैव ते न्यविशन्तास्मिन्नेव लोक इति वेर्म इति बाहुनाम समीरिततरो भवति । एता विश्वा सवना तूतुमाकृषे स्वयं सूनो सहसो यानि दधिषे । एतानि सर्वाणि स्थानानि तूर्णमुपाकुरुषे स्वयं बलस्य पुत्र यानि धत्स्वांसत्रमंहरस्त्राणं धनुर्वा कवचं वा कवचं कु अञ्चतं भवति काञ्चतं भवति कायेऽञ्चतं भवतीति वा ॥ २५ ॥
प्रीणीताश्वान् हितं जयाथ स्वस्तिवाहं रथमित् कृणुध्वम् । द्रोणाहावमव तमश्मचक्रमंसत्रकोशं सिञ्चता नृपाणम् ॥ प्रीणीताश्वान् सुहितं जयथ जयनं वोहितमस्तु स्वस्तिवाहनं रथं कुरुध्वं द्रोणाहावं द्रोणं द्रुममयं भवत्याहाव आह्वानादावह आवहनादवतोऽवातितो महान् भवत्यश्मचक्रमशनचक्रमसनचक्रमिति वांसत्र कोशमंसत्राणि वः कोशस्थानीयानि सन्तु कोशः कुष्णातेर्विकुषितो भवत्ययमपीतरः कोश एतस्मादेव सञ्चय आचितमात्रो महान् सिञ्चत भवति नृपाणं नरपाणं कूपकर्मणा संग्राममुपमिमीते काकुदु ताल्वित्याचक्पते जिह्वा कोकुवा सास्मिन् धीयते जिह्वा कोकुवा कोकूयमाना वर्णान्नुदतीति वा कोकूयतेर्वा स्याच्छब्दकर्मणो जिह्वा जोहुवा तालु तरतेस्तीर्णतममंगं लततेर्वा स्याद् लंबकर्मणो विपरीताद् यथा तलं लतेत्यविपर्य्ययः ॥ २६ ॥
सुदेवो असि वरुण यस्य ते सप्तसिंधवः । अनुक्षरन्ति काकुदं सूर्यं सुषिरामिव ॥ सुदेवस्त्वं कल्याणदानो यस्य तव देव सप्त सिंधवः प्राणायानुक्षरन्ति काकुदं सूर्यं सुक्षिरामिवेत्यपि निगमो भवति ॥ सुदेवस्त्वं कल्याणदेवः कमनीयदेवो वा भवसि वरुण यस्य ते सप्तसिंधवः सिंधुः स्रवणात् यस्य ते सप्त स्रोतांसि तानि ते काकुदमनुक्षरन्ति सूर्मि कल्याणोर्मि स्रोतः सुषिरमनु यथा बीरिटं तैटीकिरन्तरिक्षमेवमाह पूर्वं वयतेरुत्तरमिरतेर्वयांसीरन्त्यस्मिन् भांसि वा तदेतस्या मृच्युदाहरन्त्यपि निगमो भवति ॥ २७ ॥
प्रवावृचे सुप्रया बर्हिरेषा मा विश्वतीव बीरिट इयाते । विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥ प्रवृज्यते सुप्रायणं बर्हिरेषामेयाते सर्वस्य पातारौ वा पालयितारौ वा बीरिटमन्तरिक्षं भियो वा भासो वा ततिरपि वोपमार्थे स्यात् सर्वपती इव राजानौ बीरिटे गणे मनुष्याणां रात्र्या विवासे पूर्वस्यामभिहूतौ वायुश्च नियुत्वान् पूषा च स्वस्त्य यनाय नियुत्वान् नियुतोऽस्याश्वा नियुतो नियमनाद्वा नियोजनाद्वाऽच्छाभेराप्तुमिति शाकपूणिः परीं सीमिति व्याख्यातमेनमॆनामस्या अस्यत्येतेन व्याख्यातं सृणिरंकुशो भवति सरणादंकुशोऽञ्चतेराकुचितो भवतीति वा । नेदीय इत् सृण्यः पक्वमेयादित्यपि निगमो भवत्यन्ति कतममंकुशादायात्पक्वमौषधमागच्छत्वित्यागच्छत्विति ॥२८ ॥
ओं ॥ त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥ त्वमग्ने द्युभिरहोभिस्त्वमाशुशुक्षणिराशु इति च शु इति च क्षिप्रनामनी भवतः क्षणिरुत्तरः क्षणोतेराशु शुचा क्षणोतीति वा सनोतीति वा शुक् शोचतेः पंचम्यर्थे वा प्रथमा तथाहि वाक्यसंयोग आ इत्याकार उपसर्गः पुरस्ताच्चिकीर्षितज उत्तर आशु शोचयिषुरिति शुचिः शोचतेर्ज्वलतिकर्मणोऽयमपीतरः शुचिरेतस्मादेव निष्षक्तमस्मात् पापकमिति नैरुक्ताः ॥
``अलातृणो बल इन्द्र व्रजो गोः पुरा हन्तोर्भयमानो व्यार । सुगान्पथो अकृणोन्निरजे गाः प्रावन्वाणीः पुरुहूतं धमन्तीः" ॥ अलातृणोऽलमातर्दनो मेघो बलो वृणोतेर्व्रजो व्रजत्यन्तरिक्षे गोरेतस्या माध्यमिकाया वाचः पुरा हननाद्भयमानो व्यार ॥ `सुगान् पथो अकृणोन्निरजेगाः' ॥ सुगमनान् पथोऽकरोन्निरजनाय गवाम् ॥ प्रावन्वाणीः पुरुहूतं धमन्तीः ॥ आपो वा वहनाद्वाचो वा वदनात् ॥ बहुभिराहूतमुदकं भवति धमतिर्गतिकर्मा ॥ १ ॥ २ ॥
``उद्वृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रं शृणीहि । आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य ॥" उद्धर रक्षः सहमूलमिन्द्र । मूलं मोचनाद्वा मोषणाद्वा मोहनाद्वा । वृश्च मध्यं प्रति शृणीह्यग्रमग्रमागतं भवत्या कियतो देशात् । सललूकं संलुब्धं भवति पापकमिति नैरुक्ताः । सररूकं वा स्यात्सर्तेरभ्यस्तात् । तपुषिस्तपतेर्हेतिर्हन्तेः ॥ १ ॥
आजासः पूषणं रथे निशृंभास्ते जनश्रीयं । देवं वहन्तु बिभ्रतः ॥ आवहन्त्वजाः पूषणं रथं निश्रथ्यहारिणस्ते जनश्रियं जातश्रियं बृबदुक्थो महदुक्थो वक्तव्यमस्मा उक्थमिति बृबदुक्थो वा । बृबदुक्थं हवामह इत्यपि निगमो भवति ऋदूदरः सोमो मृदूदरो मृदुरुदरेष्विति वा । ऋदूदरेण सख्या सचेयेत्यपि निगमो भवति । ऋदूपे इत्युपरिष्टाद् व्याख्यास्यामः । पुलुकामः पुरुकामः । पुलुकामो हि मर्त्त्य इत्यपि निगमो भवति । असिन्वती असङ्खादन्त्यौ ॥ असिन्वती बप्सती भूर्य्यत्त इत्यपि निगमो भवति । कपनाः कंपनः क्रिमयो भवन्ति । मोषथा वृक्षं कपनेव वेधस इत्यपि निगमो भवति । भाऋजीकः प्रसिद्धभाः । धूमकेतुः समीधा भाऋजीक इत्यपि निगमो भवति । रुजाना नद्यो फवन्ति रुजन्ति कूलानि । संरुजानाः पिपिष इंद्रशत्रुरित्यपि निगमो भवति । जूर्णिर्जवतेर्वा द्रवतेर्वा दूनोतेर्वा । क्षिप्ता जूर्णिर्न वक्षतीत्यपि निगमो भवति । परि घ्रंसमोमना वां वयोऽगात् । पर्य्यगाद्वां घ्रंसमहरवनेनान्नम्
उपलप्रक्षिण्युपलेषु प्रक्षिणात्युपलप्रक्षेपिणी वा (इन्द्र ऋषीन् पप्रच्छ दुर्भिक्षे केन जीवतीति तेषामेकः प्रत्युवाच शकटः शाकिनी गावो जालमस्यंदनं वनमुदधिः पर्वतो राजा दुर्भिक्षे नव वृत्तय इति सा निगदव्याख्याता ) ॥
कारुरहं ततो भिषगुपलप्रक्षिणी नना । नानाधियो वसूयवोऽनु गा इव तस्थिमेंद्रायेन्दो परि स्रव ॥ कारुरहमस्मि कर्त्ता स्तोमानां ततो भिषक् तत इति सन्ताननाम पितुर्वा पुत्रस्य वोपलप्रक्षिणी सक्तुकारिका नना नमतेर्माता वा दुहिता वा नानाधियो नानाकर्माणो वसूयवो वसुकामा अन्वास्थिता स्मो गाव इव लोकमिंद्रायेन्दो परि स्रवेत्यध्येषणा । असीन ऊर्ध्वामुपसि क्षिणाति । उपस्थे प्रकलवित् वणिग्भवति कलाश्च वेद प्रकलाश्च । दुर्मित्रासः प्रकलविन्मिमाना इत्यपि निगमो भवत्यभ्यर्ध्धयज्वाभ्यर्ध्धयन्यजति । सिषक्ति पूषा अभ्यर्द्धयज्व्येत्यपि निगमो भवतीक्ष ईशिषे । ईक्षे हि वस्व उभयस्य राजन्नित्यपि निगमो भवति । क्षोणस्य क्षयणस्य । महः क्षोणस्याश्विना कण्वायेत्यपि निगमो भवति ॥ ६ ॥
अस्मे ते बंधुः । वयमित्यर्थः अस्मेयातं नासत्या सजोषाः । अस्मानित्यर्थः । अस्मे समानेभिर्वृषभ पौंस्येभिः अस्माभिरित्यर्थः । अस्मे प्रयन्दि मघवन्नृजीषिन् । अस्मभ्यमित्यर्थः । अस्मे अराच्चिद्द्वेषः सुनुतर्युयोतु । अस्मदित्यर्थः । ऊर्व इव पप्रथे कामो अस्मे । अस्माकमित्यर्थः । अस्मे धत्त वसवो वसूनि । अस्मास्वित्यर्थः । पाथोऽन्तरिक्षं पथा व्याख्यातं । श्येनो नदीयन्नन्वेति पाथ इत्यपि निगमो भवत्युदकमपि पाथ उच्यते पानात् । आचष्ट आसां पाथो नदीनामित्यपि निगमो भवत्यन्नमपि पाथ उच्यते पानादेव । देवनां पाथ उपवक्षि विद्वानित्यपि निगमो भवति । सवीमनि प्रसवे । देवस्य वयं सवितुः सवीमनीत्यपि निगमो भवति । सप्रथाः सर्वतः पृथुः । त्वमग्ने सप्रथा असीत्यपि निगमो भवति । विदथानि वेदनानि । विदथानि प्रचोदयन्नित्यपि निगमो भवनि ॥ ७ ॥
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥ समाश्रिताः सूर्यमुपतिष्ठन्ते अपिवोपमार्थे स्यात् सूर्यमिवेंद्र मुपतिष्ठन्त इति सर्वाणीन्द्रस्य धनानि विभक्ष्यमाणाः स यथा धनानि विभजति जाते च जनिष्यमाणे च तं वयं भागमनुध्यायामौजसा बलेनौज ओजतेर्वोब्जतेर्वाशीराश्रयणाद्वा श्रपणाद्वाथेयमितराशीराशास्तेः ॥ इन्द्राय गाव आशिरमित्यपि निगमो भवति । सा मे सत्याशीर्देवेष्विति च ॥
यदा ते मर्त्तो अनु भोगमानलादिद्ग्रसिष्ठ ओषधीरजीगः । यदा ते मर्त्तो भोगमन्वापदथग्रसितृतम ओषधीरगारीर्जिगर्त्तिर्गिरतिकर्मा वा गृणातिकर्मा वा गृह्णातिकर्मा वा । मूरा अमूर न वयञ्चकित्वो महित्वमग्ने त्वमङ्ग वित्से ॥ मूढा वयं सोऽमूढस्त्वमसि न वयं विद्मो महत्त्वमग्ने त्वं तु वेत्थ शशमानः शंसमानः । यो वां यज्ञैः शशमानो ह दाशतीत्यपि निगमो भवति । देवो देवाच्या कृपा । देवो देवान् प्रत्यक्तया कृपा कृप् कृपतेर्वा कल्पतेर्वा ॥ ८ ॥
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् । अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यं ॥ अश्रौषं हि बहुदातृतरौ वां विजामातुरसुसमाप्ताज्जामातुर्विजामातेति शश्वद्दाक्षिणाजाः क्रीतापतिमाचक्षतेऽसुसमाप्त इव वरोऽभिप्रेतो जामाता जा अपत्यं तन्निर्मातोत वा घा स्यालादपि च स्यालात् स्याल आसन्नः संयोगेनेति नैदानाः स्याल्लाजानावपतीति वा लाजा लाजतेः स्यं शूर्प स्यतेः शूर्पमशनपवनं शृणातेर्वाथ सोमस्य प्रदानेन युवाभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यं नवतरमोमास इत्युपरिष्टाद्व्याख्यास्यामः ॥ ९ ॥
सोमानं स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः ॥ सोमानं सोतारं प्रकाशवन्तं कुरु ब्रह्मणस्पते कक्षीवन्तमिव य औशिजः कक्षीवान् कक्ष्यावानौशिज उशिजः पुत्र उशिग्वष्टेः कान्ति कर्मणोऽपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्तं सोमानां सोतारं मां प्रकाशवन्तं कुरु ब्रह्मणस्पते ॥ १० ॥
इंद्रासोमा समघशंसमभ्य१घं तपुर्ययस्तु चरुरग्निवा इव । ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥ इंद्रासोमावघस्य शंसितारमघं हन्तेनिर्ह्रसितोपसर्ग आहन्तीति तपुस्तपतेश्चरुर्मृच्चयो भवति चरतेर्वा समुच्चरन्त्यस्मादापो ब्रह्मद्विषे ब्राह्मणद्वेष्ट्रे क्रव्यमदते घोरचक्षसे घोरख्यानाय क्रव्यं विकृत्ताज्जायत इति नैरुक्ता द्वेषो धत्तमनवायमनवयवं यदन्येन व्यवेयुरद्वेषस इति वा किमीदिने किमिदानीमिति चरते किमिदं किमिदमिति वा पिशुनाय चरते पिशुनः पिंशतेर्विपिंशतीति ॥ ११ ॥
कृणुष्व पाजः प्रसिति न पृथ्वीं याहि राजे वामवा इभेन । तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥ कुरुष्व पाजः पाजः पालनात् प्रसितिमिव पृथ्वीं प्रसितिः प्रसयनात्तन्तुर्वा जालं वा याहि राजेवामातृवानभ्यमनवान् स्ववान्वेराभृता गणेन गतभयेन हस्तिनेति वा तृष्व्यानु प्रसित्या द्रूणानस्तष्वीति क्षिप्रनाम तरतेर्वा त्वरतेर्वासितासि विध्य रक्षसस्तषिष्ठैस्तप्ततमैस्तृप्ततमैः प्रपिष्ठतमैरिति वा । यस्ते गर्भममीवा दुर्णामा योनिमाशयो । अमीवाभ्यमनेन व्याख्यातो दुर्नामा क्रिमिर्भवति पापनामा कृमिः क्रव्ये मेद्यति क्रमतेर्वा स्यात्सरणकर्मणः क्रामतेर्वा । अतिक्रामन्तो दुरितानि विश्वा । अतिक्रममाणा दुर्गतिगमनानि सर्वाण्यप्वायदेनया विद्धोऽपवीयते । व्याधिर्वा भयं वा । अप्वे परेहीत्यपि निगमो भवत्यमतिरमामयी मतिरात्ममयी । ऊर्ध्वा यस्यामतिर्भा अदिद्युतदित्यपि निगमो भवति । शुष्टीति क्पिप्रनामाशु अष्टीति ॥ १२ ॥
ता अध्वर उशतो यक्ष्यग्ने श्रुष्टी भगवन्नासत्या पुरंधिं । तानध्वरे यज्ञ उशतः कामयमानान् यजाग्ने श्रुष्टौ भगन्नासत्यौ चाश्विनौ सत्यादेव नासत्या वित्यौर्णवाभः सत्यस्य प्रणेतारावित्याग्रायणो नासिकाप्रभवौ बभूवतुरिति वा पुरंधिर्बहुधीस्तत्कः पुरंधिर्भगः पुरस्तात्तस्यान्वादेश इत्येकमिंद्र इत्यपरं स बहुकर्मतमः पुरां च दारयितृतमो वरुण इत्यपरं तं प्रज्ञया स्तौति । इमामू नु कवितमस्य मायामित्यपि निगमो भवति । रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः ॥ समिद्धस्य रुशददर्शि पाज इत्यपि निगमो भवति ॥ १३ ॥
अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम् । अस्ति हि वः समानजातिता रेशयदारिणो देवा अस्त्याप्यमाप्यमाप्नोतेः सुदत्रः कल्याणदानः ॥ त्वष्टा सुदत्रो विदधातु राय इत्यपि निगमो भवति । सुविदयः कल्याणविद्यः । आग्नेयाहि सुविदत्रेभिसर्वाङुत्यपि निगमो भवत्यानुषगिति नामानुपूर्वस्यानुषक्तं भवति । स्तृणन्ति बर्हिरानुषगित्यपि निगमो भवति । तुर्वणिस्तूर्णवनिः । स तुर्वणिर्महा अरेणुपांस्य इत्यपि निगमो भवति । गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति । जुष्टं गिर्वणसे बृहदित्यपि निगमो भवति ॥ १४ ॥
असूर्त्ते सूर्त्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि । असुसमीरिताः सुसमीरिते वातसमीरिता माध्यमका देवगणा ये रसेन पृथिवीं तर्पयन्तो भूतानि च कुर्वन्ति त आयजन्तेत्यतिक्रान्तं प्रतिवचनं । अम्यक्सा त इंद्र ऋष्टिः । अमाक्तेति वाभ्यक्तेति वा यादृश्मिन्धायि तमपस्ययाविदत् । यादृशेऽधायि तमपत्ययाविदत् । उस्रः पितेव जारयायि यज्ञैः । उस्र इव गोपिताजायि यज्ञैः ॥ १५ ॥
प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे अग्रियोत वाजाः । प्रास्थुर्वो जोषयमाणा अभवत सर्वेऽग्रगमनेनेति वाग्रगरणेनेति वाग्रसंपादिन इति वापिवाग्रमित्येतदनर्थकमुपबंधमाददीत । अद्धीदिंद्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमं । अद्धीन्द्र प्रस्थितानीमानि हवींषि चनो दधिष्व चन इत्यन्ननाम पचतिर्नामीभूतस्तं मेदस्तः प्रति पचता । ग्रभिष्टामित्यपि निगमो भवत्यपिवा मेदसश्च पशोश्च सात्त्वं द्विवचनं स्याद्यत्र ह्येकवचनार्थः प्रसिद्धं तद्भवति । परोळा अग्ने पचत इति यथा शुरुध आपो भवन्ति शुचं संरुंधन्ति ऋतस्य । हि शुरुध सन्ति पूर्वीरित्यपि निगमो भवत्यमिनोऽमितमात्रो महान्भवत्यभ्यमितो वा । अमिनः सहोभिरित्यपि निगमो भवति जज्झतीरापो भवन्ति शब्दकारिण्यः प्ररिवो जज्झतीरिवेत्यपि निगमो भवत्यप्रतिष्कुतोऽप्रतिस्कृतोऽप्रतिस्खलितो वा । अस्मभ्यमप्रतिष्कुत इत्यपि निगमो भवति । शाशदानः शाशाद्यमानः प्र स्वां मतिमतिरच्छाशदान इत्यपि निगमो भवति ॥ १६ ॥
सृप्रः सर्पणादिदमपीतरत्सृप्रमेतस्मादेव सर्पिर्वा तैलं वा सृप्रकरस्नमूतय इत्यपि निगमो भवति करस्नौ बाहू कर्मणां प्रस्नातारौ सुशिप्रमेतेन व्याख्यातं । वाजे सुशिप्र गोमतीत्यपि निगमो भवति शिप्रे हनू नासिके वा हनुर्हन्तेर्नासिका नसतेः । विष्यस्व शिप्रे विसृजस्व धेने इत्यपि निगमो भवति धेना दधाते रंसु रमणात् । स चित्रेण चिकिते रंसु भासेत्यपि निगमो भवति द्वबर्हा द्वयोः स्थानयोः परिवृढो मध्यमे च स्थान उत्तमे च । उत द्विबर्हा अमिनः सहोभिरित्यपि निगमो भवत्यक्र आक्रमणात् । अक्रो न बभ्रिः समिथे महीनामित्यपि निगमो भवत्युराण उरु कुर्वाणः । दूत ईयसे प्रदिव उराण इत्यपि निगमो भवति । स्तिया आपो भवन्ति स्त्यायनात् । वृषा सिंधूनां वृषभः स्तियानामित्यपि निगमो भवति स्तिपाः स्तिया पालन उपस्थितान्पालयतीति वा । स नः स्तिपा उत भव तनूपा इत्यपि निगमो भवति जबारु जवमानरोहि जरमाणरोहि गरमाणरोहीति वा । अग्रेरुप आरुपितं जबार्वित्यपि निगमो भवति जरूथं गरूथं गृणातेः जरूथं हन्यक्षि राये पुरंधिमित्यपि निगमो भवति कुलिश इति वज्रनाम कूलशातनो भवति । स्कंदासीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः । स्कंधो वृक्षस्य समास्कन्नो भवत्ययमपीतरस्कंधः एतस्मादेवास्कन्नं कायेऽहिः शयत उपपर्चनः पृथिव्यास्तुञ्जस्तुञ्जतेर्दानकर्मणः ॥ १७ ॥
तुञ्जेय तुञ्जेय उत्तरे स्तोमा इंद्रस्य वज्रिणः । न विंधे अस्य सुष्टुतिं । दाने दानेय उत्तरे स्तोमा इन्द्रस्य । वज्रिणो नास्य तैर्विन्दामि समाप्तिं स्तुतेर्बर्हणा परिबर्हणा । बृहच्छ्रवा असुरो बर्हणं कृत इत्यपि निगमो भवति ॥ ८ ॥
यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमा अह । अपाप शक्रस्ततनुष्टिमूहति तनू शुभ्रं मघवायः कवासखः । घ्रंस इत्यहर्नाम ग्रस्यन्तेऽस्मिन्रसा गोरूध उद्धतरं भवत्युपोन्नद्धमिति वा स्नेहानुप्रदान सामान्याद्रात्रिरप्यूध उच्यते स योऽस्मा अहन्यपि वा रात्रौ सोमं सुनोति भवत्सह द्योतन वानपोहत्यपोहति शक्रस्तितनिषुं धर्मसंतानादपेत मलंकरिष्णुमयज्वानं तनूशुभ्रं तनूशोभयितारं मघवा यः कवासखो यस्य कपूयाः सखायः । न्याविध्यदिलीबिशस्य दृळ्हा विशृंगिणमभिनच्छुष्णमिंद्रः । निरविध्यदिलाबिलशयस्य दृळ्हानि व्यभिनच्छृङ्गुणः शुष्णमिंद्रः ॥ १९ ॥
अस्मा इदु प्रभरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः । गोर्न पर्व विरदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै । अस्मैप्रहर तूर्णं त्वरमाणो वृत्राय वज्रमीशानः कियेधाः कियद्वा इति वा क्रममाणधा इति वा गोरिव पर्वाणि विरद मेघस्येष्यन्नर्णांस्यपां चरणाय भृमिर्भ्रामृतेः । भृमिरस्यृषिकृन्मर्त्त्यानामित्यपि निगमो भवति विष्पितो विप्राप्तः । पारंनो अस्य विष्पितस्य पर्षनित्यपि निगमो भवति ॥ २० ॥
तन्नस्तुरीपमद्भुतं पुरुवारं पुरुत्मना । त्वष्टा पोषाय विष्यतु राये नाभानो अस्मयुः । तन्नस्तूर्णापि महत्संभृतमात्मना त्वष्टा धनस्य पोषाय विष्यत्वित्यस्मयुरस्मान्कामयमानो रास्पिनो रास्पी रपतेर्वा रसतेर्वा रास्पिनस्यामोरित्यपि निगमो भवत्यृंजतिः प्रसाधन कर्मा । आ व ऋंजस ऊर्जां व्युष्टिष्वित्यपि निगमो भवत्यृजुरित्यप्यस्य भवति । ऋजुनीती नो वरुण इत्यपि निगमो भवति प्रतद्वसू प्राप्तवसू । हरी इंद्र प्रतद्वसू अभिस्वरेत्यपि निगमो भवति ॥ २१ ॥
हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानां । ऋतस्य योगे विष्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापः । प्रहिणुत नोऽध्वरं देवयज्यायै प्रहिणुत ब्रह्म धनस्य सननाय ऋतस्य योगे यज्ञस्य योगे याज्ञे शकट इति वा शकटं शकृदितं भवति शनकैस्तकतीति वा शब्देन तकतीति वा । श्रुष्टीवरीर्भूतनास्मभ्यमापः । सुखवत्यो भवतास्मभ्यमापः चोष्कूयमाण इन्द्र भूरि वामं । दददिन्द्र बहुवननीयं । एधमानद्विलुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥ व्युदस्यत्येधमानानसुन्वतः सुन्वतोऽभ्यादधात्युभयस्य राजा दिव्यस्य च पार्थिवस्य च चोष्कूयतेश्चर्करीतवृत्तं सुमस्त्वयमित्यर्थः । उप प्रागात्सुमन्मे धायि मन्म । उपप्रैतु मां स्वयं यम्मे मनोऽधायि यज्ञेने त्याश्वमेधिको मन्त्रो दिविष्टिषु दिव एषणेषु ॥ सूर्यं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु स्थूरः समाश्रितमात्रो महान् भवत्यणुरुस्थवीयांसमुपसर्गोलुप्त नामकरणो यथा संप्रति कुरुंगो राजा बभूव कुरुगमनाद्वा कुलगमनाद्वा कुरु कृंततेः कूरमित्यप्यस्य भवति कुलं कुष्णातेर्विकुषितं भवति दूतो व्याख्यातो जिन्वतिः प्रीतिकर्मा । भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नय इत्यपि निगमो भवति ॥ २२ ॥
अमत्रोऽमात्रो महान् भवत्यभ्यमितो वा । महान् अमत्रो वृजने विरप्शीत्यपि निगमो भवति । स्तवे वज्यृचीषमः । स्तूयते वज्यृचा समोऽनर्शरातिमनश्लीलदानमश्लीलं पापकमश्रिम द्विषमं । अनर्शरातिं वसुदामुपस्तुहीत्यपि निगमो भवत्यनर्वाप्रत्यृतोऽन्यस्मिन् । अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्द्धया नव्यमर्कैः । अनर्वमप्रत्यृतमन्यस्मिन् वृषभं मन्द्रजिह्वं मोदनजिह्वमिति वा बृहस्पतिं वर्धय नव्यमर्कैरर्चनीयैः स्तोमैरसामि सामिप्रतिषिद्धं सामि स्यतेः । असाम्योजो बिभृथा सुदानवः । असुसमाप्तं बलं बिभृत कल्याणदानाः ॥ २३ ॥
मा त्वा सोमस्य गल्दया सदा याचन्नहं गिरा । भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥ मा चुक्रुधं त्वां सोमस्य गालनेन सदा याचनृहं गिरा गीत्या स्तुत्या भूर्णिमिव मृगं नं सवनेषु चुक्रुधं क ईशानं न याचिष्यत इति गल्दा धमनयो भवन्ति । गलनमासु धीयते । आ त्वा विशन्त्विन्दव आ गल्दा धमनीनां । नानाविभक्तीत्येते भवत आगलना धमनीनामित्यत्रार्थः ॥ २४ ॥
न पापासो मनामहे नारायासो न जल्हवः । न पापा मन्यामहे नाधना न ज्वलनेन हीना अस्त्यस्मासु ब्रह्मचर्यमध्ययनं तपो दानकर्मेत्यृषिरवोचद् बकुरो भास्करो भयंकरो भासमानो द्रवतीति वा ॥ २५ ॥
यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय द्रस्रा । अभिदस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्य्याय ॥ यवमिव वृकेणाश्विनौ निवपन्तौ वृको लांगलं भवति विकर्त्तनाल्लांगलं लंगतेर्लांगूलवद्वा लांगूलं लगतेर्लंगतेर्लंबतेर्वान्नं दुहन्तौ मनुष्याय दर्शनीयावभिधमन्तौ दस्युं बकुरेण ज्योतिषा वोदकेन वार्य ईश्वरपुत्रो बेकनाटाः खलु कुसीदिनो भवन्ति द्विगुणकारिणो वा द्विगुणदायिनो वा द्विगुणं कामयन्त इति वा । इन्द्रो विश्वान् बेकनाटां अहर्दृश उत क्रत्वा पणीरभि । इन्द्रोयः सर्वान् भेकनाटादहर्दृशः सूर्यदृशोय इमान्यहानि पश्शन्ति न पराणीति वाभिभवति कर्मणा पणींश्च वणिजः ॥ २६ ॥
जीवान्नो अभिधेतनादित्यासः पुरा हथात् । कद्ध स्थ हवनश्रुतः । जीवितो नोऽभिधावतादित्याः पुरा हननात् क्व नु स्थ ह्वानश्रुत इति मत्स्यानां जालमापन्नानामेत दार्षं वेदयन्ते मत्स्या मधा उदके स्यंदंते माद्यंतेन्योन्यं भक्षणायेति वा जालं जलचरं भवति जलेभवं वा जलेशयं वांहुरोऽंहस्वानंहूरणमित्यप्यस्य भवति । कृण्वन्नं हूरणादुर्वित्यपि निगमो भवति । सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् । सप्त मर्यादाः कवयश्चक्रुस्तासामेकामप्यधिगच्छन्नंहस्वान् भवति स्तेयं तल्पारोहणं ब्रह्महत्यां भ्रूणहत्यां सुरापानं दुष्कृतस्य कर्मणः पुनः पुनः सेवां पातकेऽनृतोद्यमिति बत इति निपातः खेदानुकंपयोः ॥ २७ ॥
बतो बतासि यम नैव ते मनो हृदयञ्चाविदाम । अन्या किल त्वां कक्ष्यॆव युक्तं परिष्वजाते लिबुजेववृक्षं । बतो बलातीतो भवति दुर्बलो बतासि यम नैव ते मनो हृदयं च विजानीमोऽन्या किल त्वां परिष्वं क्ष्यते कक्ष्येव युक्तं लिबुजेव वृक्ष लिबुजा व्रततिर्भवति लीयते विभजन्तीति व्रततिर्वरणाश्च शयविनाच्च ततनाच्च वाताप्यमुदकं भवति वात एतदाप्याययति । पुनानो वाताप्यं विश्वश्चन्द्रमित्यपि निगमो भवति । वने न वायो न्यधायि चाकन् । वन इव वायो वेः पुत्रश्चायन्निति वा कामयमान इति वा वेति च य इति च चकार शाकल्य उदात्तं त्वेवमाख्यातमभविष्यदसुसमाप्तश्चार्थो रथर्यतीति सिद्धस्तत् प्रेप्सू रथं कामयत इति वा । एष देवो रथर्यतीत्यपि निगमो भवति ॥ २८ ॥
धेनुं न इषं पिन्वतमसक्रां । असंक्रमणीयं । आधव आधवनात् । मतीनां च साधनं विप्राणां चाधवमित्यपि निगमो भवत्यनवब्रवोऽनवक्षिप्तवचनः । वि जेषकृदिंद्र इवा नवब्रव इत्यपि निगमो भवति ॥ २९ ॥
अरायि काणे विकटे गिरिं गच्छ सदान्वे । शिरिंबिठस्य सत्वभिस्तेभिष्ट्वा चातयामसि ॥ अदायिनि काणे विकटे काणोऽविक्रान्तदर्शन इत्यौपमन्यवः कणतेर्वा स्यादणूभावकर्मणः कणतिः शब्दाणूभावे भाष्यतेऽनु कणतीति मात्राणूभावात्कणो दर्शनाणूभावात्काणो विकटो विक्रान्तगतिरित्यौपमन्यवः कुटतेर्वा स्याद् विपरीतस्य विकुटतो भवति गिरिं गच्छ सदानोनुवे शब्दकारिके । शिरिंबिठस्य सत्वभिः । शिरिंभिठो मेघः शीर्यते बिठे बिठमन्तरिक्षं बिठं बीरिटीन व्याख्यातं तस्य सत्त्वैरुदकैरिति स्यात्तैष्ट्वा चातयामोऽपि वा शिरिंबिठो भारद्वाजः कालकर्णोपेतोऽलक्ष्मीर्निर्णातयांचकार तस्य सत्त्वैः कर्मभिरितिस्यात्तैष्ट्वा चातयामश्चातयतिर्नाशने पराशरः पराशीर्णस्य वसिष्ठस्य स्थविरस्य जज्ञे । पराशरः शतयातुर्वसिष्ठ इत्यपि निगमो भवतींद्रोपि पराशर उच्यते परा शातयिता यातूनां । इंद्रो यातूनामभवत्पराशर इत्यपि निगमो भवति । क्रिविर्दती विकर्त्तनधन्ती । यत्रा वो दिद्युद्रदति क्रविर्दतीत्यपि निगमो भवति । करूलती कृत्तदत्ती अपि वा देवं कंचित् कृत्तदन्तं दृष्ट्वैवमवष्यत् ॥ ३० ॥
वामं वामं त आदुरे देवो ददात्वर्यमा । वामं पूषा वामं भगो वामं देवः करूलती ॥ वामं वननीयं भवत्यादुरिरादरणात्तत्कः करूलती भगः पुरस्तात्तस्यान्वादेश इत्येकं पूषेत्यपरं सोऽदन्तकोऽदन्तकः पूषेति च ब्राह्मणं । दनो विश इंद्र मृध्रवाचः दानमनसो नो मनुष्यानिंद्र मृदुवाचः कुरु । अवीरामिव मामयं शरारुरभिमन्यते । अबलामिव मामयं बालोऽभिमन्यते । अबलामिव मावयं बालोऽभिमन्यते संशिशरिषुरिदंयुरिदं कामयमानो अथापि तद्वदर्थे भाष्पते । वसूयुरिन्द्रो वसुमानित्यत्रार्थः । अश्वयुर्गव्यूरथ्युर्वसूयुरित्यपि निगमो भवति ॥ ३१ ॥
किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मं । आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धयानः ॥ किं ते कुर्वन्ति कीकटेषु गावः कीकटा नाम देशोऽनार्य निवासः कीकटाः किं कृताः किं क्रियाभिरिति प्रेप्सा वा नैव चाशिरं दुह्रे न तपन्ति घर्मं हर्म्यमाहर नः प्रमगन्दस्य धनानि मगंदः कुसीदी मांगदो मामागमिष्यतीति च ददादि तदपत्यं प्रमगन्दोऽत्यन्तकुसीदिकुलीनः प्रमदको वा योऽयमेवास्ति लोको न पर इति प्रेप्सुः पंडको वा पंडकः पंडगः प्रार्दको वा पार्दयत्यांडावांडावाणी इव व्रीडयति तस्तंभे नैचाशाखं नीचाशाखो नीचैः शाखः शाखः शक्नोतेराणिररणात्तन्नो मघवन्रन्धयेति रध्यतिर्वशगमने बुन्द इषुर्भवति वुंदो वा भिंदो वा भयदो वा भासमानो द्रवतीति वा ॥ ३२ ॥
तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुंदो हिरण्ययः ॥ उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥ तुविक्षं बहुविक्षेपं महाविक्षेप वा ते सुकृतं सूमयं सुसुखं धनुः साधयिता ते बुंदो हिरण्यय उभौ ते बाहू रण्यौ रमणीयौ सांग्राम्यौ वर्दुपे अर्दनपातिनौ गमनपातिनौ शब्दपातिनौ दूरपातिनौ वा मर्मण्यर्दनवेधिनौ गमनवेधिनौ शब्दवेधिनौ दूरवेधिनौ वा ॥ ३३ ॥
निराविध्यद्गिरिभ्य आधारयत्यप क्वमोदनं । इंद्रो बुंदं स्वाततं । निरविध्यद्गिरिभ्य आधारयत्पक्वमोदनमुदकदानं मेघं । इंद्रो बुंदं स्वाततं वृंदं बुंदेन व्याख्यातं वृंदारकश्च ॥ ३४ ॥
अयं यो होता किरु स यमस्य कमप्यूहे यत्समंजन्ति देवाः । अहरहर्जायते मासि मास्यथा देवा दधिरे हव्यवाहं ॥ अयं यो होता कर्त्ता स यमस्य कमप्यन्नमाभिवहति यत्समश्नुवन्ति देवा अहरहर्जायते मासे मासेऽर्धमासेऽर्धमासे वाथ देवा निदधिरे हव्यवाहमुल्बमूर्णोतेर्वृणोतेर्वा । महत्तदुल्बं स्थविरं तदासीदित्यपि निगमो भवत्यृबीसमपगतभासमपहृतभासमन्तर्हितभासं गतभासं वा ॥ ३५ ॥
हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्या अधत्तं । ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥ हिमेनोदकेन ग्रीष्मांतेऽग्निं घ्रंसमहरवारयेथामन्नवतीं चास्मा ऊर्जमधत्तमग्नये योऽयमृबीसे पृथिव्यामग्निरन्तरौषधिवनस्पतिष्वप्सु तमुन्निन्यथुः सर्वगणं सर्वनामानं गणो गणनाद्गुणश्च यद्वृष्ट ओषधय उद्यन्ति प्राणिनश्च पृथिव्यां तदश्विनो रूपं तेनैतौ स्तौति स्तौति ॥ ३६ ॥
ओं ॥ अथातो दैवतं तद्यानि नामानि प्राधान्यस्तुतीनां देवतानां तद्दैवतमित्याचक्षते । सैषा देवतोपपरीक्षा । यत्काम ऋषिर्यस्यां देवतायामार्थपत्यमिच्छन्स्तुतिं प्रयुंक्ते तद्वैवतः स मंत्रो भवति तास्त्रिविधा ऋचः परोक्षकृता प्रत्यक्षकृता अध्यात्मिकाश्च तत्र परोक्षकृता सर्वाभिर्नामविभक्तिभिर्युज्यंते प्रथमपुरुषैश्चाख्यातस्य ॥ १ ॥
इंद्रो दिव इंद्र ईशे पृथिव्या इंद्रमिद्गाथिनो बृहदिंद्रे णैते तृत्सवो वेविषाणा इंद्राय सामगायत नेंद्रादृते पवते धाम किंचनेंद्रस्यनु वीर्याणि प्रवोचमिंद्रे कामा अयंसतेत्यथ प्रत्यक्षकृता मध्यमपुरुषयोगास्त्वमिति चैतेन सर्वनाम्ना त्वमिंद्र बलादधि विन इंद्र मृधो जहीत्यथापि प्रत्यक्ष कृता स्तोतारो भवंति परोक्षकृतानि स्तोतव्यानि मा चिदन्यद्विशंसत कण्वा अभि प्रगायतो पप्रेत कुशिकाश्चेतयध्वमित्यथाध्यात्मिक्य उत्तमपुरुषयोगा अहमिति चैतेन सर्वनाम्ना यथैतदिंद्रो वैकुंठो लबसूक्तं वागांभृणेयमिति ॥ २ ॥
परोक्षकृताः प्रत्यक्षकृताश्च मंत्रा भूयिष्ठा अल्पश आध्यात्मिका अथाप स्तुतिरेव भवशि नाशीर्वाद इंद्रस्यनु वीर्याणि प्र वोच मिति यथैतस्मिन्त्सूक्तेऽथाप्याशीरेव न स्तुतिः सुचक्षा अहमक्षीभ्यां भूयासं सुवर्चा मखेन शुशुत्कर्णाभ्यां भूयासमित्टि (मान-गृ-१-९-२५) तदेतद्भहुलमाध्यर्यवे याज्ञेषु च मंत्रेष थापि शपथाभिशापौ । अद्या मुरीय यदि यातुधानो अस्मि । अधा स वीरैर्दशभिर्वियूया इत्यथापि कस्यचिद्भावस्याचि ख्यासा । न मृत्युरासीदमृतं न तर्हि । तम आसीत्तमसा गूह्ळमग्रे । अथापि परिदेवना कस्माच्चॆद्भावात् । सुदेवो अद्य प्रपतेदनावृत् । न विजानामि यदि वेदमस्मीत्यथापि निंदाप्रशंसे । केवलाघो भवशि केवलादी । भोजस्येदं पुष्करिणीव वेश्मेत्येवमक्षसूक्ते द्यूतनिंदा च कृषिप्रशंसा चैवमुच्चावचैरभिप्रायैर्ऋहीणां मंत्रदृष्टयो भवंति ॥ ३ ॥
तद्येनादिष्टदेवता मंत्रास्तेषु देवतोपपरीक्षा यद्देवतः स यज्ञो वा यज्ञांगं वा तद्देवता भवंत्यथान्यत्र यज्ञाशृाजापत्या इति याज्ञिका नाराशंसा इति नैरुक्ता अपि वा सा कामदेवता स्यात्प्रायोदेवता वास्ति ह्याचारो बहुलं लोके देवदेवत्यमतिथि देवत्यं पितृदेवत्यं याज्ञ दैवतो मंत्र इत्यापि ह्यदेवता देवतावत् स्तूयंते यथाश्वप्रभृतीन्योषधिपर्यंतान्यथाप्यष्टौ द्वंद्वानि (निघ ५-३, २९-३६) । स न मन्येतागंतूनिवार्थान्देवतानां प्रत्यक्षदृश्य मेतद्भवति माहाभाग्याद्देवताया एक आत्मा बहुधा स्तूयत एकस्यात्मनोऽन्ये देवाः प्रत्यंगानि भवंत्यपि च सत्वानां प्रकृतिभूमभिर्ऋषयः स्तुवंतीत्याहुः प्रकृतिसार्वनाम्यू च्चेतरेतरजन्मानो भवंतीतरेतरप्रकृतयः कर्मजन्मान आत्मजन्मान आत्मैवैषां रथो भवत्यात्माश्वा आत्मायुधमात्मेषव आत्मा सर्वं देवस्य देवस्य ॥ ४ ॥
तिस्र एव देवता इति नैरुक्ताः अग्निः पृथिवीस्थानो वार्युर्वेंद्रो वांतरिक्षस्थानः सूर्यो द्युस्थानस्तासां माहाभाग्यादेकैकस्या अपि बहूनि नामधेयानि भवंत्यपि वा कर्मपृथक्त्वाद्यथा होताध्वर्युर्ब्रह्मोद्गातेत्यप्येकस्य सतोऽपि वा पृथगेव स्युः पृथग्घि स्तुतयो भवंति तथाभिधानानि यथो एतत्कर्मपृथक्त्वादिति बहवोऽपि विभज्य कर्माणि कुर्युस्तत्र सस्थानैकत्वं संभोगैकत्वं चोपेक्षितव्यं यथा पृथिव्यां मनुष्याः पशवो देवा इति स्थानैकत्वं च संभोगैकत्वं च दृश्यते य था पृथिव्याः पर्जन्येन च वाय्वादित्याभ्यां च संभोगोऽग्निना चेतरस्यॆ लोकस्य तत्रैतन्नरराष्ट्रमिव ॥ ५ ॥
अथाकारचिंतनं देवतानां पुरुषविधा स्युरित्येकं चेतनावद्वद्धि स्तुतयो भवंति तथाभिधानान्यथापि पौरुषविधिकैरंगैः संस्तूयंते । ऋष्वा त इंद्र स्थविरस्य बाहू । यत्संगृभ्णा मघवन्काशिरित्ते । अथापि पौरुषविधिकैर्द्रव्यसंयोगैः । आ द्वाभ्यां हरिभ्यामिंद्र याहि । कल्याणीर्जाया सुरणं गृहे ते । अथापि पौरुषएधिकैः कर्मभिः । अद्धीद्र पिब च प्रस्थितस्याश्रुत्कर्ण श्रुधी हवम्ऽ । अपुरुषविधा स्युरित्यपरमपि तु यद् दृश्यते ॥ ६ ॥
अपुरुषविदं तद्यथाग्निर्वायुरादित्यः पृथिवी चंद्रमा इति यथो एतच्चेतवावद्वद्धि स्तुतयो भवंतीत्यचेतनान्यप्येवं स्तूयंते यथाक्षप्रभृतीन्योषधिपर्यंतानि (निघ-५-३-४।२२) यथो एतत्पौरुषविधिकैरंगैः संस्तूयंत इत्यचेतनेष्टप्येतत्भवत्यपि क्रंदंति हरितेभिरासभिरिति ग्रावस्तुतिर्यथो एतत्पौरुषविधिकैः कर्मभिरत्येतदपि तादृशमेव होतुश्चित्पूर्वे हविरद्यमाशतेति ग्रावस्तुतिरेवापि वोभयविधा स्युरपि वा पुरुषविधानामेव सतां कर्मात्मान एते स्युर्यथा यज्ञो यजमानस्यैष चाख्यानसमयः ॥ ७ ॥
तिस्र एव देवता इत्युक्तं पुरस्तात्तासां भक्तिसाहचर्यं व्याख्यास्यामोऽथैतान्यग्नि भक्तीन्ययं लोकः प्रातःसवनं वसंतो गायत्री त्रिवृत् स्तोमो रथंतरं साम ये च देवगणाः समाम्नाताः प्रथमे स्थानेऽग्नायी पृथिवीळेति स्त्रियोऽथास्य कर्म वहनं च हविषामावाहनं च देवतानां यच्च किंचिद्दार्ष्टिविषयिकमग्निकर्मैव तदथास्य संस्तविका देवा इंद्रः सोमो वरुणः पर्जन्य ऋतव आग्नावैष्णवं हविर्नत्वृवसंस्तविकी दशतयीषु विद्यतेऽथाप्याग्नापौष्णं हविर्न तु संस्तवस्तत्रैतां विभक्तस्तुतिमृचमुदाहरंति ॥ ८ ॥
पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परिददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः । (ऋ. सं. १०-१७-३) ॥ पूषा त्वेतः प्रच्यावयतु विद्वाननष्टपशुर्भुवनस्य गोपा इत्येष हि सर्वेषां भूतानां गोपायितादित्यः स त्वैतेभ्यः परिददत्पितृभ्य इति सांशयिकस्तृतीयः पादः पूषा पुरस्तास्तस्यान्वादेश इत्येकमग्निरुपरिष्टात्तस्य प्रकीर्तनेत्यपरम् । अग्निर्देवेभ्यः सुविदत्रियेभ्यः । सुविदत्रं धनं भवति विंदतेर्वैकोपसर्गाद्ददातेर्वा स्याद्व्युपसर्गात् ॥ ९ ॥
अथैतानींद्र भकीन्यंतरिक्षलोको माध्यंदिनं सवनं ग्रीष्मस्त्रिष्टुप् पंचदशस्तोमो बृहत्साम ये च देवगणाः समाम्नाताः मध्यमे स्थाने याश्च स्त्रियोऽथास्य कर्म रसानुप्रदानं वृत्रवधो या च का च बलकृतिरिंद्रकर्मैव तदथास्य संस्तविका देवा अग्निः सोमो वरुणः पूषा बृहस्पतिर्ब्रह्मणस्पतिः पर्वतः कुत्सो विष्णुर्वायुरथापि मित्रो वरुणेन संस्तूयते पूष्णा रुद्रेण च सोमोऽग्निना च पूषा वातेन च पर्जन्यः ॥ १० ॥
अथैतान्यादित्यभक्तीन्यसौ लोकस्तृतीयसवनं वर्षा जगती सप्तदशस्तोमो वैरूपं साम ये च देवगणाः समाम्नाता उत्तमे स्थाने याश्च स्तियोथास्य कर्म रसादानं रश्मिभिश्च रसधारणं यच्च किंचित् प्रवह्लितमादित्य कर्मैव तच्चंद्रमसा वायुना संवत्सरेणेति संस्तवं एतेष्वेव स्थानव्यूहेष्टृतुच्छंदः स्तोमप्यष्ठस्य भक्ति शेषमनुकल्पयीत शरदनुष्टुबेकविंशः स्तोमो वैराजं सामेति पृथिव्यायतनानि हेमंतः पंक्तिस्त्रिणवः स्तोमः शाक्वरं सामेत्यंतरिक्षायतनानि शिशिरोऽतिच्छंदास्त्रयस्त्रिंशः स्तोमो रैवतं सामेति द्युभक्तीनि ॥ ११ ॥
मंत्रा मननाच्छंदांसि छादनात्स्तोमः स्तवनाद्यजुर्यजतेः साम संमितमृचास्यतेर्वर्चा समं मेन इति नैदाना गायत्री गायतेः स्तुतिकर्मणस्त्रिगमना वा विपरीता गायतो मुखादुदपतदिति च ब्रह्माणमुष्णि गुत् स्नाता भवति स्निह्यतेर्वा स्यात्कांतिकर्मणः उष्णीषिणी वेत्यौपमिकमुष्णीषं स्नायतेः ककुप् ककुभिनी भवति ककुप् च कुब्जश्च कूजतेर्वोब्जतेर्वानुष्टुबनुष्टोभनाद्गायत्रीमेव त्रिपदां सतीं चतुर्थेन पादेनानुष्टोभतीति च ब्राह्मणं बृहती परिबर्हणात्पंक्तिः पंचपदा त्रिष्टुप् स्तोभत्युत्तरपदा कातु त्रिता स्यात्तीर्णतमं छंदस्त्रिवृद्वज्रस्तस्य स्तोभनीति वा यत्त्रिरस्तोभत्तत्त्रिष्टुप्त्वमिति विज्ञायते ॥ १२ ॥
जगती गततमं छंदो जगती गततमं छंदो जलचरगतिर्वा जल्गल्यमानोऽसृजदिति च ब्राह्मणं विराड्विराजनाद्वा विराधनाद्वा विप्रापणाद्वाविराजनात्संपूर्णाक्षरा विराधनादूनाक्षरा विप्रापणादधिकाक्षरा पिपीलिकामध्येत्यौपमिकं पिपीलिका पेलतेर्गतिकर्मण इतीमा देवता अनुक्रांताः सूक्तभाजो हविर्भाज ऋग्भाजश्च भूयिष्ठाः काश्चिन्निपातभाजोऽथोताभिधानैः संयुज्य हविश्चोदयतींद्राय वृत्रघ्न इंद्राय वृत्रतुर इंद्रायांहोमुच इति त्यान्यप्येके समामनंति भूयांसि तु समाम्नानाद्युत्तु संदिज्ञानभूतं स्यात्प्राथान्यस्तुति तत्समामनेऽथोत कर्मभिर्ऋषिर्देवताः स्तौति वृत्रहा पुरंदर इति तान्यप्येके समानंति भूयांसि तु समाम्नानाद् व्यंजनमात्रं तु तत्तस्याभिधानस्य भवति यथा ब्राह्मणाय बुभुक्षितुयौदनं देहि स्नातायनुलेपनं पिपासते पानीयमिति ॥ १३ ॥
अथातोऽनुक्रमिष्यामोऽग्निः पृथिवीस्थानस्तं प्रथमं व्याख्यास्यामोऽग्निः कस्मादग्रणीभवत्यग्रं यज्ञेषु प्रणीयतेंगं नयति संनममानोऽक्नोपनो भवतीति ष्थौलाष्ठीविर्न क्नोपयति न स्नेहयति त्रिभ्य आख्यातेभ्यो जायत इति शाकपूणिरितादक्ताद्दग्धाद्वा नीतात्स खल्वेतेरकारमादत्ते गकारमनक्तेर्वा दहतेर्वा नीः परस्तस्यैषा भवति ॥ १४ ॥
अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ॥ होतारं रत्न धातमं ॥ (ऋ. सं. १-१-१) ॥ अग्निमीळेऽग्निं याचामीळिरध्येषणाकर्मा पूजाकर्मा वा पुरोहितो व्याख्यातो यज्ञश्च देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा यो देवः सा देवता होतारं ह्वातारं जुहोतेहोर्तेत्यौर्णवाभो रत्नधातमं रमणीयानां धनानां दातृतमं तस्यैषापदा भवति ॥ १५ ॥
अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत । स देवा एह वक्षति ॥ (ऋ. सं. १-१-२) ॥ अग्नर्यः पूर्वैर्ऋषिभिरीळितव्यो वंदितव्योऽस्माभिश्च नवतरैः स देवानिहावहत्विति स न मन्येतायमेवाग्निरित्यप्येते उत्तरे ज्योतिषी अग्नी उच्येते ततो नु मध्यमः ॥ १६ ॥
अभि प्रवन्त समनेव योषाः कल्याण्यः १ स्मयमानासो अग्निम् । घृतस्य धाराः समिधो नसंत ता जुषाणो हर्यति जातवेदाः ॥ (ऋ.सु.४-५८-८) ॥ अभिनमंत समनस इव योषाः समनं समननाद्वा संमाननाद्वा कल्याण्यः स्मयमानासो अग्निमित्यापमिकं घृतस्य धारा उदकस्य धाराः समिधो नसंत नसतिताफ्नोतिकर्मा वा नसतिकर्मा वा । ता जुषाणो हर्यति जातवेदाः । हर्यतिः प्रेप्साकर्मा विहर्यतीति । समुद्रादूर्मिर्मधुमा उदारदित्यादित्य मुक्तं मन्यंते समुद्राद्ध्येषोऽद्भ्य उदेतीति च ब्राह्मणमथापि ब्राह्मणं भवत्यग्निः सर्वा देवता इति तस्योत्तरा भूयसे निर्वचनाय ॥ १७ ॥
इंद्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदंत्यग्निं यमं मातरिश्वानमाहुः (ऋ. सं. १-१४६-६) इममेवाग्निं महांतमात्मानमेकमात्मानं बहुधा मेधाविनो वदंतींद्रं मित्रं वरुणमग्निं दिव्यं च गरुत्मंतं दिव्यो दिविजो गरुत्मान् गरणवान् गुर्वात्मा महात्मेति वा यस्तु सूक्तं भजते यस्मै हविर्निरुप्यतेऽयमेव सोऽग्निर्निपातमेवैते उत्तरे ज्योतिषी एतेन नामधेयेन भजेते ॥ १८ ॥
जातावेदाः कस्माज्जातानि पेदा जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातवित्तो वा जातविद्यो वा जातप्रज्ञानो यत्तज्जातः पशूनविंदतेति तज्जातवेदसो जातवेदस्त्वमितिब्रह्माणम् (मैत्रा - सं - १-८-२) तस्मात्सर्वानृतून् परवोऽग्निमभिसर्पंतीति (मैत्रा - सं १-८-२) च तस्यैषा भवति ॥ १९ ॥
प्र नूनं जातवेदसमश्वं हिनोत वाजिनम् । इदं नो बर्हिरासदे (ऋ.सं. १०-१८८-१) प्रहिणुत जातवेदसं शर्मभिः समश्नुवानमपि वोपमार्थे स्यादश्वमिव जातवेदसमितीदं नो बर्हिरासीदत्विति तदेतदेकमेव जातवेदसं गायत्रं तृचं दशतयेषु विद्यते यत्तु किंचिदाग्नेयं तज्जातवेदसानां स्थाने युज्यते स न मन्येतायमेवाग्निरित्यप्येते उत्तरे ज्योतिषी जातवेदसी उच्येते ततोनु मध्यमाः । अभि प्रवंत समनेव योषा इति तत्पुरस्ताद्व्याख्यातम् । (निरु-७-१७) अथासावादित्य उदु त्यं जातवेदसमिति तदुपरिष्टाद्व्याख्यास्यामो यस्तु सूक्तं भजते यस्मै हविर्निरुच्यतेऽयमेव सोऽग्निर्जातवेदा निपातमेवैते उत्तरे ज्योतिषी एतेन नामधेयेन भजेते ॥ २० ॥
वैश्वानरः कस्माद्विश्वान्नरान्नयति विश्व एनं नरा नयंतीति वापि वा विश्वानर एव स्यात्प्रत्यृतः सर्वाणि भूतानि तस्य वैश्वानरस्तस्यैषा भवति ॥ २१ ॥
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः । इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥ (ऋ. सं. १-९८-१) इतो जातः सर्वमिदमभिविपश्यति वैश्वानरः संयतते सूर्येण राजायः सर्वेषां भूतानामभिश्रयणीयस्तस्य वयं वैश्वानरस्य कल्याण्यां मतौ स्यामेति तत्को वैश्वानरो मध्यम इत्याचार्या वर्षकर्मणा ह्येनं स्तौति ॥ २२ ॥
प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचंते ॥ वैश्वानरो दस्युमग्निर्जघन्वा अधूनोत्काष्ठा अव शंबरं भेत् (ऋ.सं. १-५९-६) प्रब्रवीमि तन्महित्वं महाभाग्यं वृषभस्य वर्षितुरपां यं पूरवः पूरयितव्या मनुष्या वृत्रहणं मेघहनं संचते सेवंते वर्षकामा दस्युर्दस्यतेः क्षयार्थादुपदस्यन्त्यस्मिन्रसा उपदासयति कर्माणि तमग्निर्वैश्वानरो घ्नन्नवाधूनोदपः काष्ठा अभिवच्छंबरं मेघमथासावादित्य इति पूर्वे याज्ञिका एषां लोकानां रोहेण सवनानां रोह आम्नातो रोहात्प्रत्यव रोहश्चिकीर्षितस्तमनुकृतिं होताग्नि मारुते शस्त्रे वैश्वानरीयेण सूक्तेन प्रतिपद्यते (ऐ. ब्रा. १२-३) सोऽपि न स्तोत्रियमाद्रियेताग्नेयो हि भवति तत आगच्छति मध्यस्थाना देवता रुद्रं च मरुतश्च ततोऽग्निमिहस्थानमत्रैव स्तोत्रियं शंसत्यथापि वैश्वानरीयो द्वादशकपालो भवत्येतस्य हि द्वादशविधं कर्माथापि ब्राह्मणं भवत्य सौ वा आदित्योऽग्निर्वैश्वानर इत्यथापि निवित्सौर्यवैश्वानरी भवत्या यो द्यां भात्या पृथिवीमित्येष हि द्यावापृथिव्याभासयत्यथापि छांदोमिकं सूक्तं सौर्यवैश्वानरं भवति दिवि पृष्टो अरोचतेत्येष हि दिवि पृष्टो अरोचतेत्यथापि हविष्पांतीयं सूक्तं सौर्यवैश्वानरं भवत्ययमेवाग्निर्वैश्वानर इति शाकपूणिर्विश्वानरावेते उत्तरे ज्योतिषी वैश्वानरोऽयं यत्ताभ्यां जायते कथं न्वयमेताभ्यां जायत इति यत्र वैद्युतः शरणमभिवंति यावदनुपात्तो भवति मध्यमधर्मैव तावद्भवत्युदकेंधनः शरीरोपशमन उपादीयमान एवायं संपद्यत उदकोपशमनः शरीरदीप्तिरथादित्यादुदीचॆ प्रथमसमावृत्त आदित्ये कंसं वा मणिं वा परिमृज्य प्रतिस्वरे यत्र शुष्कणोमयमसंस्पर्शयन्धारयति तत्प्रदीप्यते सोयमेव संपद्यतेऽथाप्याह । वैश्वानरो यतते सूर्येणेति । न च पुनरात्मनात्मा संयततेऽन्येनैवान्यः संयतत इति इममादधात्यमुतोऽमुष्य रश्मयः प्रादुर्भवंतीतोऽस्यार्चिषस्तयोर्भासोः संसंगं दृष्ट्वैवमवक्ष्यदथ यान्येतान्यौत्तमकानि सूक्तानि भागानि वा सावित्राणि वा पौष्णानि वा वैष्णवानि वा तेषु वैश्वानरीयाः प्रवादा अभविष्यन्नादित्यकर्मणा चैनमस्तोष्यन्नित्युदेषीत्यस्तमेषेति विपर्येषीत्नाग्नेयेष्वेव हि सूक्तेषु वैश्वानरीयाः प्रवादा भवंत्यग्निकर्नुणा चैनं स्तौतीति दहसीति वहसीति पचसीति यथो एतद्वर्षकर्मणा ह्येनं स्तौतीत्यस्मिन्नप्येतदुपपद्यते । समानमेतदुदकमुच्चैत्यव चाहभिः । भूमिं पर्जन्या जिन्वंति दिवं जिन्वंत्यग्नयः ॥ (ऋ. सं. १-१६४-५१) इति ॥ सा निगदव्याख्याता ॥ २३ ॥
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतंति । त आववृत्रस्त्सद्रनादृतस्यादिद् घृतेन पृथिवी व्युद्यते । (ऋ. सं. १-१६४-४७) ॥ कृष्णं निरयणं रात्रिरादित्यस्य हरयः सुपर्णा हरणा आदित्यरश्मयस्ते यदामुतोऽर्वांचः पर्यावर्तंते सहस्थानादुदकस्यादित्यादथ घृतेनोदकेन पृथिवी व्युद्यते घृतमित्युदकनाम जिघर्तेः सिंचतिकर्मणोऽथापि ब्राह्मणं भवत्यग्निर्वा इतो वृष्टिं समीरयति धामच्छद्दिवि भूत्वा वर्षति मरुतः सृष्टां वृष्टिं नयंति यदासावादित्योग्निं रश्मिभिः पर्यावर्ततेऽथ वर्षतीति यथो एतद्वैश्चनरीयो द्वादशकपालो भवतीत्यनिर्वचनं कपालानि भवंत्यस्ति हि सौर्य एककपालः पंचकपालश्च यथो एतद्ब्राह्मणं भवतीति बहुभक्ति वादीनि हि ब्राह्मणानि भवंति पृथिवी वैश्वानरः संवत्सरो वैश्वानरो ब्राह्मणो वैश्वानर इति यथो एतन्निवित्सौर्यवैश्वानरी भवतीत्यस्यैव सा भवति यो विड्भ्यो मानुषीभ्यो दीदेदित्येष हि विड्भ्यो मानुषीभ्यो दीप्यते यथो एतच्छांदोमिकं सूक्तं सौर्यवैश्वानरं भवतीत्यस्यैव तद्भवति जमदग्निभिराहुत इति जमदग्नयः प्रजमिताग्नेयो वा प्रज्वलिताग्नयो वा तैरभिहुतो भवति यथो एतद्धविष्पांतीयं सूक्तं सौर्यवैश्वानरं भवतीत्यस्यैव तद्भवति ॥ २४ ॥
हविष्पांतमजरं स्पर्विदि दिविस्पृश्याहुतं जुष्टमग्नौ । तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया पप्रथंत (ऋ. सं. १०-८८-१) ॥ हविर्यत्पानीयमजरं सूर्यविदि दिविस्पृश्यभिहुतं जुष्टमग्नौ तस्य भरणाय च भावनाय च धारणाय चैतेभ्यः सर्वेभ्यः कर्मभ्य इममग्नि मन्नेनापप्रथंतेत्यथाप्याह ॥ २५ ॥
अपामुपस्थे महिषा अगृभ्णत विशो राजानमुपतस्थुर्ऋग्मियम् । आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः (ऋ. सं. ६-८-४) ॥ अपामुपस्थ उपस्थाने महत्यंतरिक्षलोक आसीना महांत इति वागृह्णत माध्यमिका देवगणा विश इव राजानमुपतस्थुर्ऋग्मियमृग्मंतमिति वार्चनीयमिति वाहरद्यं दूतो देवानां विवस्पत आदित्याद्विवस्वान्विवासनवान् प्रेरितवतः परागताद्वास्याग्नेर्वैश्वानरस्य मातरिश्वानमाहर्तारमाह मातरिशा वायुर्मातर्यंतरिक्षे श्वसिति मातर्याश्वनितीति वाथैनमेताभ्यां सर्वाणि स्थानान्यभ्यापादं स्तौति ॥ २६ ॥
मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन् । मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति प्रजानन् ॥ (ऋ. सं. १०-८८-९) मूर्धा मूर्तमस्मिन्धीयते मूर्धा यः सर्वेषां भूतानां भवति नक्तमग्निस्ततः सूर्योजायते प्रातरुद्यन्त्स एव प्रज्ञां त्वेतां मन्यंते यज्ञियानां देवानां यज्ञसंपादिनामपो यत्कर्म चरति प्रजानन्त्सर्वाणि स्थानान्यनुसंचरते त्वरमाणस्तस्योत्तरा भूयसे निर्वचनाय ॥ २७ ॥
स्तोमेन हि दिवि देवासो अग्निमजीजनञ् शक्तिभी रोदसिप्राम् । तमू अकृण्वन् त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः (१०-८८-१०) ॥ स्तोमेन यं हि दिवि देवासो अग्निमजनयञ्छक्तिभिः कर्मभिर्द्यावापृथिव्योरापूरणं तमकुर्वंस्त्रेधाभावाय पृथिव्यामंतरिक्षे दिवीति शाकपूणिर्यदस्य दिवि तृतीयं तदसावादित्य इति ब्राह्मणं तदग्नीकृत्य स्तौत्यथैनमेतयादित्यीकृत्य स्तौति ॥ २८ ॥
यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम् । यदा चरिष्णू मिथुनावभूतामादित्प्रापश्यन्भुवनानि विश्वा ॥ (ऋ. सं. १०-८८-११) ॥
यदैनमदधुर्यज्ञियाः सर्वे दिवि देवाः सूर्यमादितेयमदितेः पुत्रं यदा चरिष्णू मिथुनौ प्रादुरभूतां सर्वदा सहचारिणावुषाश्चादित्यश्च मिथुनौ कस्मान्मिनोतिः श्रयतिकर्मा थु इति नामकरणस्थकारो वा नयतिः परो वनिर्वा समाश्रितावन्योन्यं नयतो मनुतो वा । मनुष्यमिथुनावप्येतस्मादेव मेथंतावन्योन्यं वनुत इति वाथैनमेतयाग्नीकृत्यस्तौति ॥ २९ ॥
यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद । आ शेकुरित्सधमादं सखायो नक्षंत यज्ञं क इदं वि वोचत् ॥ (ऋ. सं. १०-८८-१७) यत्र विवदेते दैव्यौ होतारावयं चाग्निरसौ च मध्यमः कतरो नौ यज्ञे भूयो वेदेत्याशक्नुवंति तत्सहमदनं समानख्याना ऋत्विजस्तेषां यज्ञं समश्नुवानानां को न इदं विवक्ष्यतीति तस्योत्तरा भूयसे निर्वचनाय ॥ ३० ॥
यावन्मात्रमुषसो न प्रतीकं सुपर्ण्यो ३ वसते मातरिश्वः । तावद्दधात्युप यज्ञमायन् ब्राह्मणो होतुरवरो नि षीदन् । (ऋ. सं. १०-८८-१९) ॥ यावन्मात्रमुषसः प्रत्यक्तं भवति प्रतिदर्शनमिति वास्त्युप्यमानस्य संप्रत्यर्थे प्रयोग इहेव निधेहीति यथा सुपर्ण्यः सुपतना एता रात्रयो वसते मातरिश्वन् ज्योतिर्वर्णस्य तावदुपदधाति यज्ञमागच्छन् ब्राह्मणो होतास्याग्नेर्होतुरवरो निषीदन् होतृजपस्त्वनग्निर्वैश्वानरीयो भवति देव सवितरेतं त्वा वृणतेऽग्नि होत्राय सह पित्रावैश्वानरेणेतीममेवाग्निं सवितारमाह सर्वस्य प्रसवितारं मध्यमं वोत्तमं वा पितरं यस्तु सूक्तं भजते यस्मै हविर्निरुप्यतेऽयमेव सोऽग्निर्वैश्वानरो निपातमेवैते उत्तरे जोतिसी एतेन नामधेयेन भजेते भजेते ॥ ३१ ॥
अथातोदैवतमिंद्रोदिवः परोक्षकृतास्तद्येतिस्रोऽथाकारचिंतनमपुरुषविधंतत्तिस्र एव तेवता इत्युक्तं पूषात्वाथैतानींद्र भक्तीन्यथैतान्यादित्य भक्तीनिमंत्रा मनना ज्जगती गततममथातोऽनुक्रमिष्यामोऽग्नमीळेऽग्निः पूर्वेभिरभिप्रवंतेंद्रं मित्रं जातवेदाः कस्मात्प्रनूनं जातवेदसं वैश्वानरः कस्माद्वैश्वानरस्यप्रनूमहित्वं कृष्णं नियानं हविष्पांत मपामुपस्थे मूर्धाभुवस्तोमेनहिय देदेनं यत्रावदेतेयावन्मात्रमेकत्रिंशत् ॥
द्रविणोदाः कस्माद्धनं द्रविणमुच्यते यदेनदभिद्रवंति बलं वा द्रविणं यदेनेनाभिद्रवंति तस्य दाता द्रविणोदास्तस्यैषा भवति ॥ १ ॥
द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे । यज्ञेषु देवमीळते ॥ (ऋ. सं. १-१५-७) द्रविणोदा यस्तं द्रविणस इति द्रविणसादिन इति वा द्रविणसानिन इति वा द्रविणसस्तस्मात्पिबत्विति वा । यज्ञेषु देवमीळते । याचंति स्तुवंति वर्धयंति पूजयंतीति वा तत्को द्रविणोदा इंद्र इति क्रौष्टुकिः स बडधनयोर्दाकृ तमस्तस्य च सर्वाबलकृतितोजसो जातमुतमन्य एनमिति जाहायप्यग्निं द्रविणोदसमाहैष पुनरेतस्माज्जायते । यो अश्मनोरंतरग्निं जजानेत्यपि निगमो भवत्यथाप्यृतुयाजेषु द्रविणोदसाः प्रवादा भवंति तेषां पुनः पात्रस्येंद्रपानमिति भवत्यथाप्येनं सोमपानेन स्तौत्यथाप्याह द्रविणोदाः पिबतु द्रविणो. दस इत्ययमेवाग्निर्द्रविणोदा इति शाकपूणिताग्नेयेष्वेव हि सूक्तेषु द्रविणोदसाः प्रवादा भवंति । देवा अग्निं धारयन् द्रविणोदामित्यपि निगमो भवति यथो एतत्स बलथनयोर्दातृतम इति सर्वासु देवतास्वैश्चर्यं विद्यते यथो एतदोजसो जातमतमुन्य एनमिति जाहेत्ययमष्यग्निरोजसा बलेन मथ्यमनो जायते तस्मादेनमाह सहसस्पुत्रं सहसः सूनुं सहसो यहुं यथो एतदग्निं ह्रविणोदसमाहेत्यृत्विजोत्र द्रविणोदस उच्यंते हविषो दातारस्ते जिनं जनयंति ऋषीणां पुत्रो अधिणाज एष इत्यपि निगमो भवति यथो एतत्तेषां पुनः पात्रस्येंद्रपानमिति भवतीति भक्तिमात्रं तद्भवति यथा वायव्यानीति सर्वेषां सोमपात्राणां यथो एतत्सोमपानेनैनं स्तौतीत्यस्मिन्नप्येतदुपपद्यते । सोमं पिब मंदसानो गणाश्रिभिरिति यथो एतद्रविणोदाः पिबतु द्रविणोदस इत्यस्यैव तद्भवति ॥ २ ॥
मेद्यॆंतु ते वह्नये योभिरीयसेऽरिष्यण्यन्वीळयस्वा वनस्पते । आयूया धृष्णो अभिगूर्या त्मं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥ (ऋ. सं. २-३७-३) मेद्यंतु ते वह्नयो वोढारो यैर्यास्यरिष्यन् दृढीभवायूय धृष्णो अभिगूर्य त्वं नेष्ट्रीऋाद्धिष्याद्धिष्ण्यो धिषण्यो धिषणाभवो धिषणा वाग् धिषेर्दधात्यर्थे धीसादिनीति दा धीसानिनीति वा वनस्पत इत्येनमाहेष हि वनानां पाता वा पालयिता वा वनं वनोतेः पिबर्तुभिः कालैः ॥ ३ ॥
अथात आप्रिय आप्रियः कस्मादाप्नोतेः प्रीणातेर्वाप्रीभिराप्रीणातीति च ब्राह्मणं तासामिध्मः प्रथमागामी भवतीध्मः समिंधनात्तस्यैषा भवति ॥ ४ ॥
समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः । आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः (ऋ. सं. १०-११०-१) समिद्धोऽद्य मनुष्यस्य गृहे देवो देवास्यजसि जातवेद आ च वह मित्रडुहश्चिकित्वांश्चेतनावांस्त्वं दूतः कविरसि प्रचेताः प्रवृद्धचेता यज्ञेध्म इति कात्थैक्योऽग्निरिति शाकपूणिस्तनूनपादाज्यं भवती नपादित्यननंतरायाः प्रजाया नामधेयं निर्णततमा भवति गौरत्र तनूरुच्यते तता अस्यां भोगस्तस्याः पयो जायते पयस आज्यं जायतेऽग्निरिति शाकपूणिरापोऽत्र तन्व उच्यंते तता अंतरिक्षे ताभ्य ओषधिवनस्पतयो जायतं ओषधिवनस्पतिभ्य एष जायते तस्यैषा भवति ॥ ५ ॥
तनूनपात्पथ ऋतस्य यानान्मध्वा समंजन् त्त्वदया सुजिह्व । मन्मानि धीभिरुत यज्ञमृंधन्देवत्रा च कृणिह्यध्वरं नः (ऋ. सं. १०-११०-२) ॥ तनूनपात्पथ ऋतस्य यानास्यज्ञिस्य यानान्मधुना समंजन्त्वदय कल्याणजिह्व मननानि च नो धीभिर्यज्ञं चसमर्धय देवान्नॊ यज्ञं गमय नराशंसो यज्ञ इति कात्थक्यो नरा आस्मिन्ना सीनाः शंसंत्यग्निरिति शाकपूणिर्नरैः प्रशस्यो भवति तस्यैषा भवति ॥ ६ ॥
नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः । ये सुक्रतवः शुचयो धियंधाः स्वदंति देवा उभयानि हव्या ॥ (ऋ. सं. ७-२-२) महिमानमेषामुपस्तुमो यज्ञियस्य यज्ञैर्ये सुकर्माणः शुचयो धियं धारयितारः स्वदयंतु देवा उभयानि हवींषि सोमं चेतराणि चेति वा तांत्राणि जावापिकानि चेति वेळं ईट्ळेस्तुतिकर्मण इंधतेर्वा तस्यैषा भवति ॥ ७ ॥
आजुह्वान ईद्यो वंद्यश्चा याह्यग्ने वसुभिः सजोषाः । त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् ॥ (ऋ. सं. १०-११०-४) आहूयमान ईळितव्यो वंदितव्यश्चायाह्यग्ने वसुभिः सहजोषणस्त्वं देवनामसि यह्व होता यह्व इति महतो नामधेहुं यातश्च हूतश्च भवति । स एनान्यक्षीषितो यजीयान् इषितः प्रेषित इति वाधीष्ट इति वा यजीयान्यष्टृतरॊ बर्हिः परिबर्हणात्तस्यैषा भवति ॥ ८ ॥
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्ने अह्नां व्यु प्रथते वितरं वरीयो देवेभ्यो आदितये स्योनम् ॥ (ऋ. १०-११०-४) प्राचीनं बर्हिः प्रदिशा पृथिव्या वसनायास्याः प्रवृज्यतेऽग्रेऽह्नां बर्हिः पूर्वाह्ने तद्विप्रथते वितरं वितीर्णतरमिति वा विस्तीर्णतरमिति वा वरीयो वरतरमुरुतरं वा देवेभ्यश्चादितये च स्योनं स्योनमिति सुखनाम स्यतेरवस्यंत्येतत्सेवितव्यं भवतीति वा द्वारो जनतेर्वा द्रवतेर्वा वारयतेर्वा तासामेषा भवति ॥ ९ ॥
व्यचस्वतीरुर्विया विश्रयंतां पतिभ्यो न जनयः शुंभमानाः । देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः । (ऋ. सं. १०-११०-५) व्यंचनवत्य उरुत्वेन विश्रयंतां पतिभ्य इव जाया ऊरू मैथुने धर्मे शुशोभिषमाणा वरतममंगमूरू दैव्यो द्वारो बृहत्यो विश्वमिन्वा विश्वमाभिरेति यज्ञे गृहद्वार इति कात्थक्योऽग्निरिति शाकपूणिरुषासानक्तोषाश्च नक्ता चोषा व्याख्याता नक्तेति रात्रिनामानक्ति भूतान्यवश्यायेनापि वा नक्ताव्यक्तवर्णा तयोरेषा भवति ॥ १० ॥
आ सुष्वयंती यजते उपाके उषासानक्ता सदतां नि योनौ । दिव्ये योषणी बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दथाने ॥ (ऋ. सं. १०-११०-६) सेष्मीयमाणे इति वा सुष्वापयंत्याविति वा सीदतामिति वा न्यासीदतामिति वा यज्ञिये उपक्रांते दिव्ये योषणे बृहत्यौमहत्यौ सुरुक्मे सुरोचने अधिदधाने शुक्रपेशसं श्रियं शुक्रं शोचसेर्ज्वलतिकर्मणः पेशइति रूपनाम पिंशतेर्विपिशितं भवति । दैव्या होतरा दैव्यौ होतारावयं चाग्निरसौ च मध्यमस्तयोरेषा भवति ॥ ११ ॥
दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै । प्रचोदयंता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिंशता । (ऋ. सं. १०-०१०-७) दैव्यौ होतारौ प्रथमौ सुवाचौ निर्मिमानौ यज्ञं मनुष्यस्य मनुष्यस्य यजनाय प्रचोदयमानौ यज्ञेषु कर्तारौ पूर्वस्यां दिति यष्टव्यमिति प्रदिशंतौ तिस्रो देवीस्तिस्रो देव्यस्तासामेषा भवति ॥ १२ ॥
आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिह चेतयंती । तिस्रो देवीर्बर्हिरेदं स्वोनं सरस्वती स्वपसः सदंतु ॥ (ऋ.सं.१०-११०-८) एतु नो यज्ञं भारती क्षिप्रं भरत आदित्यस्तस्य भा इडा च मनुष्यवदिह चेतयमाना तिस्रो देव्यो बर्हिरिदं सुखं सरस्वती च सुकर्माण आसीदंतु त्वष्टा तूर्णमश्नुत इति नैरुक्तास्त्विषेर्वा स्याद्दीप्तिकर्मणस्त्वक्षतेर्वा स्यात्करोतिकर्मणस्तस्यैषा भवति ॥ १३ ॥
य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा । तमद्य होतरीषितो यजीयान्देवं त्वष्टारमिह यक्षिविद्वान् ॥ (ऋ. सं. १०-११०-९) य इमे द्यावापृथिव्यौ जनयित्र्यौ रूपैरकरोद्भूतानि च सर्वाणि तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यज विद्वान्माध्यमिकस्त्वष्टेत्याहुर्मध्यमे च स्थाने समाम्नातोऽग्निरिति शाकपूणिस्तस्यैषा भवति ॥ १४ ॥
आविष्ट्यो वर्थते चारुरासु जिह्यानामूर्ध्वः स्वयशा उपस्थे । उभे त्वष्टुर्बिभ्यतुर्जाऋमानात्प्रतीची सिंहं प्रति जोषयेते । (ऋ. सं. १-९५-५) आविरावेदनात्तत्त्यो वर्धते चारुरासु जारु चरतेर्जिह्मं जिहीतेरूर्थ्व उच्छ्रितो भवति स्वयशा आत्मयशा उपस्थ उपस्थाने उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रतिजोषयेते । द्याव्यापृथिव्याविति वाहोरात्रे इति वारुणी इति वा प्रत्यक्ते सिंहं सहनं प्रत्यासेवेते ॥ १५ ॥
वनस्पतिर्व्याख्यातस्तस्यैषा भवति ॥ १६ ॥
उपावसृज त्मन्या समंजन्देवानां पाथ ऋतुथा हवींषि । वनस्पतिः शमिता देवो अग्निः स्वदंतु हव्यं मधुना घृतेन । (ऋ. सं. १०-११०-१०) । उपावसृजात्मनात्मानं समंजन्देवानामन्नमृतामृतौ हवींषि काले काले वनस्पति शमिता देवो देवो अग्निरित्येते त्रयः स्वदयंतु हव्यं मधुना च घृतेन च । तत्को वनस्पति र्यूप इति कात्थक्योऽग्निरिति शाकपूणिस्तस्यैषापरा भवति ॥ १७ ॥
अंजंति त्वामध्वरे देवयंतो वनस्पते मधुना दैव्येन । यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे । (मै त्रा. सं. ३-८-१) अंजंति त्वामध्वरे देवान्कामयमाना वनस्पते मधुना दैव्येन च घृतेन च यदूर्ध्वः स्थास्यसि द्रुविणानि च नो दास्यसि यद्वा ते कृतः क्षयो मातुरस्या उपस्थे उपस्थानेऽग्निरिति शाकपूणिस्तस्यैषाऽपराभवति ॥ १८ ॥
देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थं । प्रदक्षिणिद्रशनया नियूय ऋतस्य वक्षि पथिभी रजिष्ठैः ॥ (मैत्रा. सं. ४-१३-६) देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण ऋतपर्णापि वोपमार्थे स्याद्धिरण्यवर्णपर्णेति प्रदिवस्ते अर्थं पुराणस्ते सोऽर्थो यं ते प्रब्रूमो यज्ञस्य वह पथिभीरजिष्ठैर्ऋजुतमैरजस्वलतमैरिति वा तस्यैषापरा भवति ॥ १९ ॥
वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् । वह देवत्रा दिधिषो हवींषि प्र च दातारममृतेषु वोचः ॥ (मै. सं. ४-१०-७) वनस्पते रशनया नियूय सुरूपतमया वयुनानि विद्वान्प्रज्ञानानि प्रजानन्वह देवान्यज्ञे दातुर्हवींषि प्रब्रूहि च दातारममृतेषु देवेषु स्वाहाकृतयः स्वाहेत्येतत्सु आहेति वा स्वा वागाहेति वा स्वं प्राहेति वा स्वाहुतं हविर्जुहोतीति वा तासामेषा भवति ॥ २० ॥
सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः । अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतं हविरदंतु देवाः ॥ (ऋ. सं. १०-११०-११) सद्यो जायमानो निरमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाम्यस्य होतुः प्रदिश्यृतस्य वाच्यास्ये स्वाहाकृतं हविरदंतु देवा इतीमा आप्रीदेवता अनुक्रांता अथ किं देवताः प्रयाजानुयाजा आग्नेय इत्येके ॥ २१ ॥
प्रयाजान्मे अनुयाजांश्च केवलानूर्जस्वंतं हविषो दत्त भागम् ॥ घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः (ऋ. सं. १०-५१-७) ॥ तव प्रयाजा अनूयाजाश्च केवल ऊर्जस्वंतो हविषः संतु भागाः ॥ तवाग्ने यज्ञोयमस्तु सर्वस्तुभ्यं नमंतां प्रदिशश्चतस्रः (ऋ. सं. १०-५१-९) ॥ आग्नेया वै प्रयाजा आग्नेया अनुयाजा इति च ब्राह्मणं छंदोदेवता इत्यपरं छंदांसि वै प्रयाजाश्चंदांस्यनुयाजा इति च ब्राह्मण मृतुदेवता इत्यपरमृतवो वै प्रयाजाः पशवोऽनुयाजाः इति च ब्राह्मणं प्राणदेवता इत्यपरं प्राणा वै प्रयाजा अपाना अनु याजाः (शत. ब्रा. ११-२-६-२७) ॥ (कौषी. ब्रा. ७-१) इति च ब्राह्मण मात्मदेवता इत्यपरमात्मा वै प्रयाजाः प्रजा आनुयाजाः (तैत्ति. सं. ६-९-५) इति च ब्राह्मणमाग्नेया इति तु स्थितिर्भक्तिमात्रमितरत्किमर्थं पुनरिदमुच्यते यस्मै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्निति ह विज्ञायते (ऐ. ब्रा. ११-८) । तान्ये तान्येका दशाप्रीसूक्तानि तेषां वासिष्ठमात्रेयं वाध्र्यश्वं गार्त्समदमिति नाराशंसवंति मैधातिथिं दैर्घतमसं प्रैषिक मित्युभयवंत्यतोऽन्यानि तनूनपात्वंति तनूनपात्वंति ॥ २२ ॥
ओं । अथ यानि पृथिव्यायतनानि सत्वानि स्तुतिं लभंते तान्य तोऽनुक्रमिष्यामस्तेषामश्चः प्रथमागामी भवत्याश्वो व्याख्यातस्त स्यैषा भवति ॥ १ ॥
अश्वो वोळ्हा सुखं रथं हसनामुपमंत्रिणः । शेपो रोमण्वंतौ भेदौ वारिन्मंडूक इच्छतींद्रायेंद्रो परि स्रव (ऋ.सं. ९-२१२-४२) ॥ अश्वो वोळ्हा रथं वोळ्हा सुखमिति कल्याण नाम कल्याणं पुण्यं सुहितं भवति सुहितं गम्यतीति वा हसैता वा पाता वा पालयिता वा शेपमृच्छतीति वारि वारयति मा नो व्याख्यातस्तस्यैषा भवति ॥ २ ॥
मा नो मित्रो वरुणो अर्यमायुरिंद्र ऋभुक्षा मरुतः परिख्यन् । यद्वाजिनो देवजातस्य सप्तेः प्रवक्षामो विदथे वीर्याणि ॥ (ऋ. सं. १-१६२-१) यद्वाजिनो देवैर्जातस्य सप्तेः सरणस्य प्रवक्ष्यामो यज्ञे विदथे वीर्याणि मा नस्त्वं मित्रश्च वरुणश्चार्यमा चायुश्च वायुरयन इंद्रश्चोरुक्षयण ऋभूणां राजेति वा मरुतश्च परिख्यञ्चकुनिः शक्नोत्युन्नेतुमात्मानं शक्नोति नदितुमिति वा शक्नोति तकितुमिति वा सर्वतः शंकरोऽस्त्विति वा शक्नोतेर्वा तस्यैषा भवति ॥ ३ ॥
कनिक्रदज्जनुषं प्रब्रुवाणा इयर्ति वाचमरितेव नावं । सुमंगलश्च शकुने भवासि मा त्वा काचिदभिभा विश्व्या विदत् । (ऋ. सं. २-४२-१) ॥ न्यक्रंदीज्मन्म प्रब्रुवाणो यथास्य शब्दस्तथा नामेरयति वाचमीरयितेव नावं सुमंगलश्च शकुने भव कल्याणमंगलो मंगल गीतेर्गृणात्यर्थे गिरत्य नर्थानिति वांगलमंगवन्मज्जयंति पापकमिति नैरुक्ता मां गच्छत्विति वा मा च त्वा काचिदभिभूति सर्वतो विदद्गृत्सम दमर्थमभ्युत्थितं कपिंजलोऽभिववाशे तदभिवादिन्येषर्ग्भवति ॥ ४ ॥
भद्रं वद दक्षिणतो भद्रमुत्तरतो वद भद्र पुरस्तान्नो वद भद्रं पश्चात्कपिंजल ॥ (खैलिके सूक्तॆ ३-१) ॥ इति सा निगद व्याख्याता गृत्समदो गृत्सो मदनो गृत्स इति मेधाविनाम गृणातेः स्तुतिकर्मणो मंडूका मज्जूका मज्जनान्मदतेर्वा मोदति कर्मणो मंदतेर्वा तृप्तिकर्मणो मंडयतेरिति वैया करणा मंड एषामोक इति वा मंडो मदेर्वा मुदेर्वा तेषामेषा भवति ॥ ५ ॥
संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । वाचं पर्जन्य जिन्वतां प्र मंडूका अवादिषुः । (ऋ. सं. ७-१०३-१) ॥ संवत्सरं शिश्याना ब्राह्मणा व्रतचारिणो ब्रुवाणा अपि वोपमार्थे स्याद्ब्राह्मणा इव व्रतचारिणा इति वाचं पर्जन्यप्रीतां प्रावादिषु र्मंडूका वसिष्ठो वर्थकामः पर्जन्यं तुष्टाव तं मंडूका अन्वमोदंत स मंडूकाननु मोदमानान् दृष्ट्वा तुष्चाव तदभिवादिन्ये षर्ग्भवति ॥ ६ ॥
उप प्रवद मंडूकि वर्ष मा वद तादुरि । मध्ये हृदस्य प्लवस्व विगृह्य चतुरः पदः (खैलिकं सूक्तं १६) । इति सा निगदव्याख्याताक्षा अश्नुवत एतानिति वाभ्यश्नुवत एभिरति वा । तेषामेषा भवति ॥ ७ ॥
प्रावेपा मा बृहतो मादयंति प्रवातेजा इरिणे वर्वृतानाः । सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् । (ऋ. सं. १०-३४-१) ॥ प्रवेषिणो मा महतो विभीदकस्य फलानि मादयंति प्रवातेजा इरिणी वर्तमाना इरिणं निर्ऋणमृणातेरपार्णं भवत्यपरतौ अस्मादोषधय इति वा । सोमस्येव मौजवतस्य भक्षः । मौजवतो मूजवति जातो मूजवान् पर्वतो मुंजवान् मुंजो विमुच्यत इषीकयेषीकेषतेर्गतिकर्मण इयमपीतरेषीकैतस्मा देव विभीदको विभेदनाज्जागृविर्जागरणान्मह्यमचच्छदत्प्रशंसत्येनान्प्रथमया निंदत्युत्तराभिर्ऋषेरक्षपरिद्यूनस्यैतदार्षं वेदयंते ग्रावाणो हंतेर्वा गृणातेर्वा गृह्णातेर्वा तेषामेषा भवति ॥ ८ ॥
प्रैते वदंतु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः । यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथें द्राय सोमिनः ॥ (ऋ. सं. १०-९४-१) । प्रवदंत्वेते प्रवदाम वयं ग्रावभ्यो वाचं वदत वदद्भ्यो यदद्रयः पर्वता आदरणीयाः सह सोममाशवः क्षिप्रकारिणः श्लोकः शृणोतेर्घोषो घुष्यतेः सोमिनो यूयं स्थेति वा सोमिनो गृहेष्विति वा येन नराः प्रशस्यंते स नाराशंसो मंत्रस्तस्यैषा भवति ॥ ९ ॥
अमंदान् त्स्तोमान्प्र भरे मनीषया सिंधावधि क्षियतो भाव्यस्ययो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥ (ऋ.सं. १-१२६-१) ॥ अमंदान्त् स्तोमानबालशाननल्पान्वा बालो बलवर्ती वा बलो वा प्रतिषेधव्यवहितः प्रभरे मनीषया मनस ईषया स्तुत्या प्रज्ञया वा सिंधावधि निवसतो भावयव्यस्य राज्ञो यो मे सहस्रं निरमिमीत सवानतूर्तो राजातूर्ण इति वात्वर माण इति वा प्रशंसामिच्छमानः ॥ १० ॥
यज्ञ संयोगाद्राजा स्तुतिं लभेत राजसंयोगाद्युद्धोपक रणानि तेषां रथः प्रथमागामी भवति रथो रंहतेर्गतिकर्मणः स्थिरतेर्वा स्याद्विपरीतस्य रममाणोऽस्मिंस्तिष्ठतीति वा रपतेर्वारस तेर्वा तस्यैषा भवति ॥ ११ ॥
वनस्पते वीड्वंगो हि भूया अस्मत्सखा प्रतरणः सुवीरः । गोभिः संनद्ढो असि वीळयस्वास्थाता ते जयतु जेत्वानि । (ऋ-सं ६-४७-२६) ॥ वनस्पते दृढांगोहि भवास्मत्सखा प्रतरणः सुवीरः कल्याणवीरो गोभिः संनद्धो असि वीळयस्वेति संस्तंभस्वास्थाता ते जयतु जेतव्यानि दुंदुभिरिति शब्दानुकरणं द्रुमोभिन्न इति वा दुंदुभ्यतेर्वा स्याच्छब्दकर्मणस्तस्यैषा भवति ॥ १२ ॥
उपश्वासय पृथवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् । स दुंदुभे सजूरिंद्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् । (ऋ. सं. ६-४७-२९) ॥ उप श्वासय पृथिवी च दिवं च बहुधाते घोषं मन्यतां विष्ठितं स्थावरं जंगमं च यत्स दुंदुभे सहजोषण इंद्रेण च देवैश्च दूराद्दूर तरमप सेध शत्रूनिषधिरिषूणां निधानं तस्यैषा भवति ॥ १३ ॥
बह्वीनां पिता बहुरस्य पुत्रश्चिश्चाकृणोति समनावगत्य । इषुधिः संकाः पृतनाश्च सर्वाः पृष्ठे निदद्धो जयति प्रसूतः ॥ (ऋ. सं. ६-७५-५) बह्वीनां पिता बहुरस्य पुत्र इतीषूनभि प्रेत्य प्रस्मयत इवा पार्वियमाणः शब्दानुकरणं वा संकाः सच तेः संपूर्वाद्वा किरतेः पृष्ठे निनद्धो जयति प्रसूत इति व्याख्या तं हस्तघ्नो हस्ते हन्यते तस्यैषा भवति ॥ १४ ॥
अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिभाधमानः । हस्तघ्ने विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः । (ऋ.सं. ६-७५-१४) अहिरिव भोगैः परिवेष्चयति बाहुं ज्यायावधात् परित्रायमाणो हस्तघ्नः सर्वाणि प्रज्ञानानि प्रजानन् पुमान् पुरुमना भवति पुंसतेर्वाभीशवो व्याख्यातास्तेषामेषा भवति ॥ १५ ॥
रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः । अभीशूनां पनायत मनः पश्चादनु यच्छंति रश्मयः । (ऋ, सं. ६-७५-६) । रथे तिष्ठन्नयति वाजिनः पुरस्तात्सतो यत्र यत्र कामयते सुषारथिः कल्याणसारथिरभीशूनां महिमानं पूजयामि मनः पश्चात्संतोऽनुयच्छंति रश्मयो धनुर्धन्वतेर्गतिकर्मणो वधकर्मणो वा धन्वंत्यस्मादिषवस्तस्यैषा भवति ॥ १६ ॥
धन्वना गा धन्वनाजिं जयेम धन्वना त्रीवाः समदो जयेम । धनुः शत्रोरवक्रामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥ (ऋ. सं. ६-७५-२) ॥ इति सा निगदव्याख्याता समदः समदो वात्तेः संमदो वा मदतेर्ज्या जयतेर्वा जिनातेर्वा प्रजावयतीषूनिति वा तस्या एषा भवति ॥ १७ ॥
वक्ष्यंतीवेदा गनीगंति कर्णं प्रियं सखायं परिषस्वजाना । योषेव शिंक्ते विततादि धन्वन् ज्या इयं समने पारयंती ॥ (ऋ. सं. ७-७५-३) वक्ष्यंतीवागच्छति कर्णंप्रियमिव सखायमिषुं परिष्टजमाना योषेव अंक्ते शब्दं करोति वितताधि धनुषि ज्येयं समने संग्रामे पारयंति पारं नयंतीषुरिषतेर्गति कर्मणो वधकर्मणो वा तस्यैषा भवति ॥ १८ ॥
सुपर्णं वस्ते मृगो अस्या दंतो गोभिः संनद्धा पतति प्रसूता । यत्रा नरः सं च विच द्रवंति तत्रास्मभ्यमिषवः शर्म यंसन् । (ऋ. सं. ६-७५-११) सुपर्णं वस्त इति वाजानभिप्रेत्य मृगमयोऽस्या दंतो मृगयतेर्वा गोभिः संनद्धापतति प्रसूतेति व्याख्यातं (निरु. २.५) यत्र नराः संद्रवंतिच विद्रवंति च तत्रास्मभ्यमिषवः शर्म यच्छंतु शरणं संग्रामेष्टश्वाजनीं कशेत्याहुः कशा प्रकाशयति भयमश्चाय कृष्यतेर्वाणू भावाद्वाक् पुनः प्रकासयत्यर्थान् खशया क्रोशतेर्वाकशाया एषा भवति ॥ १९ ॥
आ जंघंति सान्वेषां जघना उप जिघ्नते । अश्वाजनि प्रचेत सोऽश्वान् त्समत्सु चोदय । (ऋ. सं. ६-७५-१३) ॥ आघ्नातं सानून्येषां सरणानि सक्थीनि सक्थिः सचते रासक्तोऽस्मिन्यायो जघनानि चोपघ्नति जघ्ननं जंघन्यतेरश्वाजनि प्रचेतसः प्रवृद्धचेतसोऽश्वान् समत्सु समरणेषु संग्रामेषु चोदयोलूखल मुरुकरं वैतत्तदुलूखलमित्याचक्षते परोक्षेणेति च ब्राह्मणं तस्यैषा भवति ॥ २० ॥
यच्चिद्धि त्वं गृहेगृह उलूखल युज्यसे । इह द्यमत्तमं वद जायतामिव दुंदुभिः ॥ (ऋ.सं. १-२५-५) इति सा निगद व्याख्याता ॥ २१ ॥
वृषभः प्रजां वर्षतीति वातिबृहति रेत इति वा तद् वृषकर्मा वर्षणाद्वृषभस्तस्यैषा भवति ॥ २२ ॥
न्यक्रंदयन्नपयंत एनममेहयन्वृषभं मध्य आजेः । नते सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय (ऋ. सं. १०-१०२-५) न्य क्रंदयन्नु पयंत एनमिति व्याख्यातममेहयन्वृषभं मध्य अजेराजयनस्याजवनस्येति वा तेन तं सूभर्वं राजानं भर्वतिरत्ति कर्मा तद्वा सूभर्वं सहस्रं गवां मुद्गलः प्रधने जिगाय प्रधन इति संग्रामनाम प्रकीर्णान्यस्मिन्धनानि भवंति द्रुघणो द्रुममयो घनस्तत्रेतिहास माचक्षते मुद्गलो भार्म्यश्व ऋषिर्वृषभं च द्रुघणं च युक्त्वा संग्रामे व्यवहृत्याजिं जिगाय तदभिवादिन्येषर्ग्भवति ॥ २३ ॥
इमं तं पश्य वृषभस्य युंजं काष्ठाया मध्ये द्रुघणं शयानम् । येन जिगाय शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु । (ऋ.सं.१०-१०२-१) इमं तं पश्य वृषभस्य सहयुजं काष्ठाया मध्ये द्रुघणं पृतनाज्यमिति संग्रामनाम पृतनानामजनाद्वा जयनाद्वा मुद्गलो मुद्गवान् मुद्गगिलो वा मदनं गिलतीति वा मदगिलो वा मदंगिलो वा भार्म्यश्वो भ्यम्यश्वस्य पुत्रो भृम्यश्वो भृमयोऽस्याश्वा अश्वभरणाद्वा पितुरित्यन्न नाम पातेर्वा पिबतेर्वा प्यायतेर्वा तस्मैषा भवति ॥ २४ ॥
पितुं नुस्तोषं महो धर्माणं तविषीम् । यस्य त्रिशो व्योजसा वृत्रं विपर्वमर्दयत् । (ऋ. सं. १-१८२-१) ॥ तं पितुं स्तौमि महतो धारयितारं बलस्य तविषीति बलनाम तवतेर्वृद्धिकर्मणो यस्य त्रित ओजसा बलेन त्रितस्त्रिस्थान इंद्रो वृत्रं विपर्वाणं व्यर्दयति नद्यो व्याख्यातास्ता सामेषा भवति ॥ २५ ॥
इमं मे गंगे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या । असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया । (ऋ. सं. १०-८५-५) इमं मे गंगे यमुने सरस्वति शुतुद्रि परुष्णि स्तोम मासेवध्वमसिक्न्या च सह मरुद्वृधे वितस्तया चार्जीकीय आशृणु हि सुषोमया चेति समस्ताथोऽर्थकपदनिरुक्तं गंगा गमनाद्यमुना प्रयुवती गच्छतीति वा प्रवियुतं गच्छतीति वा सरस्वती सर इत्युदकनाम सर्तेस्तद्वती शुतुद्री शुद्राविणी क्षिप्रद्राविण्याशु तुन्नेव द्रवतीति वेरावतीं परुष्णीत्याहुः पर्ववती कुटिलगामिन्यसिक्न्यशुक्लासिता सितमिति वर्णनाम तत्प्रतिषेधोसितं मरुद्वृधाः सर्वा नद्यो मरुत एना वर्धयंति वितस्ता विदग्धावि वृद्धा महाकूलार्जीकीयां विपाळित्याहुर्ऋजीकप्रभवा वर्जुगामिनी वा विपाड्विपाटनाद्वा विपाशनाद्वा विप्रापणाद्वा पाशा अस्यां व्यप्राश्यंत वसिष्ठस्य । मुमूर्षतस्तस्माद्विपाळुच्यते पूर्वमासीदुरंजिरासुषोमा सिंधुर्यदेनामभिप्रसुवंति नद्यः सिंधुः स्यंदनादाप आप्नोतेस्तासामेषा भवति ॥ २६ ॥
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे । दधातन महे रणाय चक्षसे । (ऋ. सं. १०-९-१) । आपो हि स्थ सुखीभुवस्ता नोन्नाय धत्त महते च नो रणाय रमणीयाय च दर्शनायौषधय ओषद्ढयंतीति वौषत्येना धयंतीति वा दोषं धयंतीति वा तासामेषा भवति ॥ २७ ॥
या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा । मनै नु बभ्रूणामहं शतं धामानि सप्त च । (ऋ. सं. १०-९७-१) या ओषधयः पूर्वा जाता देवेभ्यस्त्रीणि युगानि पुरा मन्ये नु तद्बभ्रूणामहं बभ्रुवर्णानां हरणानां भरणानामिति वा । शतं धामानि सप्त च । धामानि त्रयाणि भवंति स्थानानि नामानि जन्मानीति जन्मान्यत्राभिप्रेतानि सप्त शतं पुरुषस्य मर्मणां तेष्वेना दधतीति वा रात्रिर्व्याख्याता तस्या एषा भवति ॥ २८ ॥
आ रात्रि ! पार्थिवं रजः पितुरप्रायि धामभिः । दिवः सदांसि बृहती वितिष्ठिस आ त्वेषं वर्तते तमः । (शैलिकं सूक्तं २५) ॥ आ पूपुरस्त्वं रात्रि पार्थिवं रजः स्थानैर्मध्यमस्य दिवः सदांसि बृहती महती वितिष्ठिस आ वर्तते त्वेषं तमो रजोऽरण्यान्यरण्यस्य पत्न्यरण्यमपार्ण ग्रामादरमणं भवतीति वा तस्या एषा भवति ॥ २९ ॥
अरण्यन्यरण्यान्यसौ या प्रेव नश्यसि । कथा ग्रामं न पृच्छसि न त्वा भीरिव विंदती ३ । (य. सं. १०-१९६-१) ॥ अरण्यानीत्येना मामं त्रयते यासावरण्यानि वनानि पराचीव नश्यसि कथं ग्रामं न पृच्छसि न त्वा भीर्विंदती वे तीवः परिभयार्थे वा श्रद्धा श्रद्धानात्तस्या एषा भवति ॥ ३० ॥
श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः । श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि । (ऋ. सं. १०-१५१-१) श्रद्धयाग्निः साधु समिध्यते श्रद्धया हविः साधु हूयते श्रद्धां भगस्य भागधेयस्य मूर्धनि प्रधानांगे वचनेनावेदयामः पृथिवी व्याख्याता तसा एष भवति ॥ ३१ ॥
स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथः । (ऋ. सं. १-२२-१५) ॥ सुखा नः पृथिवि भवानृक्षरा निवेशयन्यृक्षर कंटकः कंतपो वा कृंततेर्वा कंटतेर्वा स्याद्गतिकर्मण उद्गततमो भवति यच्छ नः शर्म यच्छंतु शरणं सर्वतः पृथ्वप्वा व्याख्याता तस्या एषा भवति ॥ ३२ ।।
अमीषां चित्तं प्रतिलोभयंती गृहाणांगान्यप्वे परे हि । अभि प्रेबि निर्दह हृत्सु शोकैरंधेनामित्रास्तमसा सचंताम् । (ऋ. स. १०-१०३-१२) । अमीषां चित्तानि प्रज्ञानानि प्रतिलोभयमाना गृहाणांगान्यप्वे परेह्यभिप्रेहि निर्दहैषां हृदयानि शोकैरंधेनामित्रास्तमसा संसेव्यंता मग्नाय्यग्नेः पत्नी तस्या एषा भवति ॥ ३३ ॥
इहेंद्राणीमुप ह्वये वरुणानीं स्वस्तये । अग्नायीं सोमपीतये । (ऋ. सं. १-२२-१२) इति सा निगदव्याख्याता ॥ २४ ॥
अथातोऽष्टौ द्वंद्वान्युलूखलमुसले उलूखलं व्याख्यातं मुसलं मुहुः सरं तयोरेषा भवति ॥ ३५ ॥
आयजी वाजसातमा ता ह्यु १ च्चा विजर्भृतः । हरी इवांधासि बप्सता । (ऋ. सं. १-२८-७) ॥ आयुष्टव्ये अन्नानां संभक्ततमे ते ह्युच्चैर्विह्रियेते हरी इवान्नानि भुंजाने हविर्धाने हविषां निधाने तयोरेषा भवति ॥ ३६ ॥
आ वामुपस्ढमद्रुहा देवाः सीदंतु यज्ञियाः । इहाद्य सोमपितये । (ऋ.सं.२-४१-२१) ॥ आसीदंतु वामुपस्थमुपस्थानमद्रोग्थम्ये इति वा यज्ञिया देव यज्ञ संपादिवा इहाद्य सोमपानाय द्यावापृथिव्यौ व्याख्याते तयोरेषा भवति ॥ ३७ ॥
द्यावा नः पृथी इमं सिध्रमद्य दिविस्पृशम् । यज्ञं देवेषु यच्छतम् । (ऋ. सं. २-४१-२०) ॥ द्यावापृथिव्यौ न इमं साधनमद्य दिविस्पृशं यज्ञं देवेषु नियच्छतां विपाट् शुतुद्र्यौ वाख्याते तयोरेषा भवति ॥ ३८ ॥
प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने । गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते । (ऋ. स ३-३३-१) ॥ पर्वतानामुपस्थादुपस्थानादुशंत्यसौ कामयमाने अश्वे इव विमुक्ते इति वा विषण्णे इति वा हासमाने हासतिः स्वर्धायां हर्षमाणे वा गावाविव शुभ्रे शोभने मातरौ संरिहाणी विपाट् छुतुद्र्यौ पयसा प्रजवेते आर्त्नी अर्तन्यौ वारण्र्यौ वारिषण्यौ वा तयोरेषा भवति ॥ ३९ ॥
ते आचरंती समनेव योषा मातेव पुत्रं बिभृतामुपस्थे । अप शत्रून्विध्यतां संविदाने आर्त्नी इमे विष्फरंती अमित्रान् । (ऋ. सं. ६-७५-४) ॥ ते आचरंत्यौ समनसाविव योषेमातेव पुत्रं बिभ्यतामुपस्थनेऽपविध्यतां शत्रून् त्संविदाने आर्त्न्याविमे विघ्नत्याव मित्राञ्चुनासीरौ शुनो वायुःशु एत्यंतरिक्षे सीर आदित्यः सरणात्तयो रेषा भवति ॥ ४० ॥
शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः । तेने मामूप सिंचतम् । (ऋ. सं. ४-५२-५) ॥ इति सा निगदव्याख्याता देवी जोष्ट्री देव्यौ जोषयित्र्यौ द्यावापृथिव्याविति वाहोरात्रे इति वा सस्यं च समा चेति कात्थक्यस्तयोरेष संप्रैषो भवति ॥ ४१ ॥
देवी जोष्ट्री वसुधिती ययोरन्याघा द्वेषांसि यूयवदान्या वक्षद्वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज (मैत्रा. सं ४-१३-८ ॥ तै ब्रा. ३-६-१३) ॥ देवी जोष्ट्री देव्यौ जोषयित्र्यौ वसुधिती वसुधानौ ययोरन्याघानि द्वेषांस्यवयावयत्यावहत्यन्या वसूनि वरणीयानि यजमानाय वसुवननाय च वसुधानाय च वीतां पिबेतां कामयेतां वा यजेति संप्रैषो देवी ऊर्जाहुती देव्या ऊर्जाह्वान्यौ द्यावापृथिव्याविति वाहो रात्रे इति वा सस्यं च समा चेति कात्थक्यस्तयोरेष संप्रैषो भवति ॥ ४२ ॥
देवी ऊर्जाहुती इषमूर्जमन्यावक्षत्सग्धिं सपीतमन्या नवेन पूर्वं दयमानाः स्याम पुराणेन नवं तामूर्जामूर्जाहुती ऊर्जयमाने अधातां वसुवने वसुधेयस्य वीतां यज । (मैत्रा. सं. ४-१३-८ ॥ तै. ब्रा. ३-६-१३) ॥ देवी ऊर्जाहुती दैव्या ऊर्जाह्वान्यावन्नं च रसं चावहत्यावहत्यन्या सहजग्थिं च सहपीतिं चान्या नवेन पूर्वं दयमानाः स्याम पुराणेन नवं तामूर्जमूर्जाहुती ऊर्जायमाने अधातां वसुवननाय च वसुधानाय च वीतां पिबेतां कामयेता वा यजेति संप्रैषो यजेति संप्रैषः ॥ ४२ ॥
अथयान्यश्वो वोळ्हामानोमित्रः कनिक्रदद्भद्रंवदसंवत्सरमुपप्लवदप्रावपाप्रैतेवदन्त्व मंदान्यज्ञ संयोगाद्वनस्पत उपश्वासयद बह्वीनामहिरिवभोगैरथेतिष्ठं धन्वनागावक्ष्यंतीवसुपर्णवस्त जंघति यच्चिद्दित्वं वृषभोन्यक्रंदयन्नि मंतंपितुन्विमंम आपोहियाओषधारारात्र्यरण्यानिश्रद्धयास्योनामीषामिहेंद्राणी मथातोष्टा वायजी आवामुपस्धद्यावानः प्रपर्वतानांते आचरंती शुनासीरो देवी जोष्ट्री देवी ऊर्जाहुती त्रि चत्वारिंशत् ॥
ओं अथातो मध्यस्थाना देवतास्तासां वायुः प्रथमागामी भवति वायुर्वातेर्वेतेर्वा स्याद्गतिकर्मणः एतेरिति स्धौलाष्ठीविरनर्थको वकारस्तस्यैषा भवति ॥ १ ॥
वायवा याहि दर्शतेमे सोमा अरंकृताः । तेषां पाहि श्रुधी हवम् । (ऋ.सं.१-२-१) वायवायाहि दर्शनीयेमे सोमा अरंकृता अलंकृतास्तेषां पिब शृणु नो ह्वानमिति कमन्यं मध्यमा देवमवक्ष्यत्तस्यैषापरा भवति ॥ २ ॥
आसस्राणासः शवसानमच्छेंद्रं सुचक्रे रथ्यासो अश्वाः । अभि श्रव ऋज्यंतो वहेर्यूनू चिन्नु वायोरमृतं विदस्येत् । (ऋ. सं. ६-३२-३) ॥ आससृवांसोऽभिबलायमानमिंद्रं कल्याणचक्रे रथे योगाय रथ्या अश्वा रथस्य वोढार ऋज्यंत ऋजुगामिनोऽन्नमभिवहेयुर्नवं च पुराणं च श्रव इत्यन्ननाम श्रूयत इति सतो वायोश्वास्य भक्षो यथा न विदस्येदितींद्रप्रधानेत्येके नैघंटुकं वायुकर्मोभयप्रधानेत्यपरं वरुणो वृणोतीति सतप्तस्यैषा भवति ॥ ३ ॥
नीचीनवारं वरुणः कबंधं प्र ससर्ज रोदसी अंतरिक्षम् । तेन विश्वस्य भुवनस्य राजा यवं न वृष्विर्व्युनत्ति भूम ॥ (ऋ. सं. ५-८५-३) ॥ नीचीनद्वारं वरणः कबंधं मेघं कवनमुदकं भवति तदस्मिन्धीयत उदकमपि कबंधमुच्यते बंधिरनिभृतत्वे कमनिभृतं च प्रसृजति द्यावापृथिव्यौ चांतरिक्षं च महत्त्वेन ते सर्वस्य भुवनस्य राजा यवमिव वृष्टिर्व्युनत्ति भूमिं तस्मैषापरा भवति ॥ ४ ॥
तमूषु समना गिरा पितृणां च मन्मभिः । नाभाकस्य प्रशस्तिभिर्य सिंधूनामुपोदये सप्तस्वसा स मध्यमो नभंतामन्यके समे ॥ (ऋ. सं. ८-४१-२) ॥ तं स्वभिष्टौमि समानया गिरा गीत्या स्तुत्या पितृणां च मननीयैः स्तोमैर्नाभाकस्य प्रशस्तिभिर्ऋषिर्नाभाको बभूवयः स्यंदमानाानामासामपामुपोदये सप्तस्वसारमेनमाह माग्भिः स मध्यम इति निरुच्यतेऽथैष एव भवति । नभंतामन्यके समे । मा भूवन्नन्यके सर्वे ये नो द्विषंति दुर्धियः पापधियः पापसंकल्पा रुद्रो रौतीति सतो रोरूयमाणो द्रवतीति वा रोदयतेर्वा यदरुदत्तद्रुद्रस्य रुद्रत्वमिति काठकं यदरोदीत्तद्रुद्रस्य रुद्रत्वमिति हारिद्रविकं तस्यैषा भवति ॥ ५ ॥
इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने । अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः । (ऋ. सं. ७-४९-१) ॥ इमा रुद्राय दृढधन्वने गिरः क्षिप्रेषवे देवायान्नवतेऽषाढायान्यैः सहमानाय विधात्रे तिग्मायुधाय भरत शृणोतु नस्तिग्मं तेजतेरुत्साहकर्मण आयुमायोधनात्तस्यैषापरा भवति ॥ ६ ॥
या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः सहस्रं ते स्वपिवात भेषजा मानस्तोकेषु तनयोषु रीरिषः । (ऋ.सं.७-४९-३) ॥ या ते दिद्युदवसृष्टा दिवस्परि दिवोऽधि दिद्युद्दीव्यतेर्वा द्युतेर्वा द्योततेर्वा क्ष्मया चरति क्ष्मा पृथिवी तस्यां चरति तया चरति विक्ष्मापयंती चरतीति वा परिवृणक्तु नः सा सहस्रं ते स्वाप्तवचन भैषज्यानि मा नस्त्वं पुत्रेषु च पौत्रेषु च रीरिषस्तोकं तुद्यते स्तनयं तनोतेरग्निरपि रुद्र उच्यते तस्यैषा भवति ॥ ७ ॥
जराबोध तद्विविड्ठि विशेविशे यज्ञियाय । सोमं रुद्राय दृशीकम् । (ऋ. सं. १-७१-१०) ॥ जरा स्तुतिर्जरतेः स्तुतिकर्मणस्ता बोधि तया बोधयितिरिति वा तद्विविड्ढि तत्कुरु मनुष्यस्य यजमानाय स्तोमं रुद्राय दर्शनीयमिंद्र इरां दृणातीति वेरां ददातीति वेरां दधातीति वेरां दारयुत इति वेरां धारयत इति वेंदवे द्रवतीति वेदां ददातीति वेंदौ रमत इति वेस्वे भूतानीति वा तद्यदेनं प्राणै समैंधत तदिंद्रस्येंद्रत्वमिति विज्ञायत इदं करणादित्याग्रायण इदं दर्शनादित्यौपमन्यव इंद्रतेर्वैश्वर्यकर्मण इञ्छत्रूणां दारयिता वा द्रावयितावादरयिता च य जनां तस्मैषा भवति ॥ ८ ॥
अदर्दरुत्समसृजो वि खानि त्वमर्णवा न्बब्दधाना अरम्णाः । हुहांतमिंन्र पर्वतं वि यद्वः सृजो वि धारा अव दानवं हन् । (ऋ. सं. ५-३२-१) ॥ अदृणः फलुत्समुत्स उत्सदनाद्वोत्स्यंदनाद्वोनत्तेर्वा व्यसृजोऽस्य खानि त्वमर्णवानर्णस्वत एतान्माध्यमिकान्संस्तायान्बाबध्यमानानरम्णा रम्णातिः संयमनकर्मा विसर्जनकर्मा वा महांतमिंद्र पर्वतं मेघं यद्व्यवृणोर्व्यसृजोऽस्य धारा अवहन्नेनं दानवं दानकर्माणं तस्यैषापरा भवति ॥ ९ ॥
यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् । यस्य शुष्णाद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इंद्रः ॥ (ऋ. सं. २-१२-१) ॥ यो जायमान एव प्रथमो मनस्वी देवो देवान् क्रतुना कर्मणा पर्यभवत्पर्यगृह्णात्पर्यरक्षदत्यक्रामदिति वा यस्य बलात् द्यावापृथिव्यावप्यबिभीतां नृम्णस्य मह्नाबलस्य महत्त्वेन स जनास इंद्र इत्यृषेर्दृष्टार्थस्य प्रीतिर्भवत्याख्यानसंयुक्ता पर्जन्यस्तृषे राद्यंतविपरीतस्य तर्पयिता जन्मः परो जेता वा जनयिता वा प्रार्जयिता वा रसानां तस्यैषा भवति ॥ १० ॥
वि वृक्षान् हंत्युत हंति रक्षसो विश्वं विभाय भुवनं महावधात् । उतानागा ईषते वृष्ण्यावतो यत्पर्जन्य स्तनयन्हंति दुष्कृतः । (ऋ. सं. ५-८३-२) ॥ वहंति वृक्षान् विहंति च रक्षांसि सर्वाणि चास्माद्भूतानि बिभ्यति महावधान्यहान् ह्यास्य वधोऽप्यनपराधो भीतः पलायते वर्षकर्मवतो यत्पर्जन्यः स्तनयन् हंति दुष्कृतः पापकृतो बृहस्पतिबृहतः पाता वा पालयिता वा तस्मैषा भवति ॥ ११ ॥
अश्नापिनद्धं मधु पर्यपश्यन्मत्स्यं न दीन उदनि क्शियंतम् । निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥ (ऋ. सं. १०-६८-८) ॥ अशनवता मेघेनापिनद्धं मधु पर्यपश्यन्मत्स्यमिव दीन उदके निवसंतं निर्जहार तच्छमसमिव वृक्षाच्चमसः कस्माच्चमंत्यस्मिन्निति बृहस्पतिर्विरवेण शब्देन विकृत्य बृह्मणस्पतिब्रह्मणः पाता वा पालयिता वा तस्मैषा भवति ॥ १२ ॥
अश्मास्यमवतं ब्रह्मणस्पतिर्मधुधारमभि यमोजसा तृणत् । तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम् । (ऋ. सं. २-२४-४) ॥ अशनवंत मास्यंदन वंतमवातितं ब्रह्मण्पतिर्मधुधारमभि यमोजसा बलेनाभ्यतृणत्तमेव सर्वे पिबंति रश्मयः सूर्यदृशो बह्वेनं सह सिंचंत्युत्समुद्रिणमुदकवंतं ॥ १३ ॥
क्षेत्रस्यपतिः ॥ क्षेत्रं क्षियतेर्निवासकर्मणः । तस्य पाता वा पाल यिता वा । तस्यैषा भवति ॥ १४ ॥
क्षेत्रस्य पतिना वयं हितेनेव जयामसि । गामश्वंपोषयित्न्वा स नो मृळातीदृशे । (ऋ. सं. ४-५२-१) ॥ क्षेत्रस्य पतिना वयं सुहितेनेव जयामो गामश्वं पुष्टं पोषयितृ चाहरेति । स नो मृळातीदृशे । बलेन वा धनेन वा मृळतिर्दानकर्मा तस्मैषापरा भवति ॥ १५ ॥
क्षेत्रस्य पते मदुमंतमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व । मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयंतु । (ऋ. सं. ४-५७-२) ॥ क्षेत्रस्य पते मधुमंतमूर्मिं धेनुरिव पयोऽस्मासु धुक्ष्वेति मधुश्चुतं घृतमिवोदकं सुपूतमृतस्य नः पातारो वा पालयितारो वा मृळयंतु मृळयतिरुपदयाकर्मा पूजाकर्मा वा तद्यत्वमान्यामृचि समानाभिव्याहारं भवति तज्जामि भवतीत्येकं मधुमंतं मधुश्चुतमिति यथा यदेव समाने पादे समानाभिव्याहारं भवति तज्जामि भवतीत्यपरं हिरण्य रूपः स हिरण्यसंदृगिति यथा यथाकथाच विशेषोऽजामि भवतीत्यपरं मंडूका इवोदकान्मंडूका उदकादिवेति यथा । वास्तोष्टतिर्वासतेर्निवासकर्मणस्तस्य पाता वा पालयिता वा तस्यैषा भवति ॥ १६ ॥
अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधिनः (ऋ सं ७-५५-१) ॥ अम्यमनहा वास्तोष्पते सर्वाणि रूपाण्याविशन् त्सखा नः सुसुखो भव शेव इति सुखनाम शिप्यतेर्वकारो नामकरणोऽंतस्थांतरोपलिंगी विभाषितगुणः शेवमित्यप्यस्य भवति यद्यद्रूपं कामयते तत्तद्देवता भवति । रूपं रूपं मघवा बोभवीत्यपि निगमो भवति । वाचस्पतिर्वाचः पाता वा पालयितावा तस्मै षा भवति ॥ १७ ॥
पुनरेहि वाचस्पते देवेन मनसा सह । वस्तोष्पते निरामय मय्येव तन्वं १ मम ॥ इति सा निगदव्याख्यातापांनपात्तनूनप्त्रा व्याख्यातस्तस्यैषा भवति ॥ १८ ॥
यो अनिध्मो दीदयदप्सं १ तर्यं विप्रास ईळते अध्वरेषु । अपांनपान्मधुमतीरपो दा याभिरिंद्रो वावृधे वीर्याय (ऋ. सं. १०-३०-४) ॥ योऽनिध्मो दीदयद्दी प्यतेऽभ्यंतरमप्सु यं मेधाविनः सुवंति यज्ञेषु सोऽपांनपान्मधुमतापो देह्यभिषवाय याभिरिंद्रो वर्धते वीर्याय वीरकर्मणे यमो यच्छतीति सतस्तस्यैषा भवति ॥ १९ ॥
परेयिवांसं प्रवतो महीरनु बहुभ्यः पेथामनुपस्पशानम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्व (ऋ. सं. १०-१४-१) ॥ परेयिवांसं पर्यागतवंतं प्रवत उद्वतो निवत इत्यवतिर्गतिकर्मा बहुभ्यः पंथानमनुपस्पादुवस्वेति दुवस्यती राध्वोतिकर्माग्निरपि यम उच्यते तमेता ऋचोऽनुप्रवदंति ॥ २० ॥
सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतिका । यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनां । (ऋ. सं. १-६६-४) ॥ तं वश्चराथा वयं वसत्यास्तं न गावो नक्षंत इद्धं । (ऋ. सं. १-६६-५) ॥ इति द्विपदाः सेनेव स्वष्टा भयं वा बलं वा दधात्यस्तुरिव दिद्युत्त्वेषप्रतीका भयप्रतीका बलप्रतीका यशःप्रतीका महाप्रतीका दीप्त प्रतीका वा । यमो ह जात इंद्रेणसहसंगतः । यमाविहेह मातरेत्यपि निगमो भवति । यम इवजातो यमो जनिष्यमाणो जारः कनीना जरयिता कन्यानां पतिर्जनीनां पालयिता जायानां तत्प्रधाना हि यज्ञसंयोगेन भवंति । तृतीयो अग्निष्टे पतिरित्यपि निगमो भवति । तं वश्चराथा चरंत्वा पश्वाहुत्या वसत्या च निवसंत्यौषधाहुत्यास्तं यथा गाव आघ्नवंति तथाघ्नयामेद्धं समिद्धं भोगैर्मित्रं प्रमितेस्त्रायतेः संमिन्वानो द्रवतीति वा मेदयतेर्वा तस्यैषा भवति ॥ २१ ॥
मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभिचष्टे मित्राय हव्यं घृतवज्जुहोत (ऋ. सं. १-५७-१) मित्रो जनान्यायतयति प्रब्रुवाणः शब्दं कुर्वन् मित्र इव धारयति पृथिवीं च दिवं मित्रः कृष्टीरनिमिषन्नभिविपश्यतीति कृष्टयदेहा वा मित्राय हव्यं घृतवज्जुहोतेति व्याख्यातं जुहोतिर्दानकर्मा कः कमनो वा क्रमणो वा सुखो वा तस्यैषा भवति ॥ २२ ॥
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । सदाधार पृथिवीं द्यामुतेमा कस्मै देवाय हविषा विधेम (ऋ. सं. १०-१२१-१) ॥ हिरण्यगर्भः हिरण्यमयो गर्भो हिरण्यमयो गर्भोऽस्येति वा गर्भो गृभेर्गृणात्यर्थे गिरत्यनर्थानिति वा यदा हि स्त्री गुणान् गृह्णाति गुणाश्चास्या गृह्यंतेऽथ गर्भो भवति समभवदग्रे भूतस्य जातः पतिरेको बभूव स धारयति पृथिवीं च दिवं च कस्मै देवाय हविषा विधेमेति व्याख्यातं विधतिर्दानकर्मा सरस्वान् व्याख्यातस्तस्यैषा भवति ॥ २३ ॥
या ते सरस्व न्नूर्मयो मधुमंतो घृतश्चुतः । तेभिर्नोऽविता भव (ऋ. सं. ७-९६-५) ॥ इति सा निगदव्याख्याता ॥ २४ ॥
विश्वकर्मा सर्वस्य कर्ता तस्यैषा भवति ॥ २५ ॥
विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् । तेषामिष्टानि समिषा मदंति यत्रा सप्तऋषीन्पर एकमाहुः । (ऋ. शं. १०-८२-२) ॥ विश्वकर्मा विभूतनमना व्याप्ता धाता च विधाता च परमश्च संदृष्टा भूतानां तेषामिष्टानि वा कांतानि वा क्रांतानि वा गतानि वा मतानि वा नतानि वाद्भिः सह संमोदंते यत्रैतानि सप्तऋषीणानि ज्योतींषि तेभ्यः पर आदित्यस्तान्येतस्मिन कं भवंतीत्यधिदैवतमथाध्यात्मं विश्वकर्मा विभूतमना व्याप्ता धाताच विधाता च परमश्च संदर्शयितेंद्रियाणामेषामिष्टानि वा शांतानि वा क्रांतानि वा गतानि वा मतानि वान्नेन सह संमोदंते यत्रेमानि सप्तऋषीणानींद्रियाणीभ्यः पर आत्मा तान्येतस्मिन्नेकं भवंतीत्यात्मगतिमाचष्टे तत्रेतिहासमाचक्षते विश्वकर्मा भौवनः सर्वमेधे सर्वाणि भूतानि जुहवांचकार स आत्मानम प्यंततो जुहवांचकार तदभिवादिन्येषर्ग्भवति । य इमा विश्वा भुवनानि जुह्वदिति तस्योत्तरा भूयसे निर्वचनाय ॥ २६ ॥
विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् । मुह्यंत्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु । (ऋ. सं. ११-८१-६) ॥ विश्वकर्मन्हविषा वर्धयमानः स्वयं यजस्व पृथिवीं च दिवं च मह्यंत्वन्ये अभितो जनाः सपत्ना इहास्माकं सूरिरस्तु प्रज्ञाता तार्क्ष्यस्त्वष्ट्रा व्याख्यातस्तीर्णेंतरिक्षे क्षियति रक्षत्यश्नोतेर्वा तस्यैषा भवति ॥ २७ ॥
त्यमूषु वाजिनं देवजूतं सहावानं तरुतारं रथानां । अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम (ऋ. सं. १०-१७८-१) ॥ तं भृशमन्नवंतं जूतिर्गतिः प्रीतिर्वा देवजूतं देव गतं देवप्रीतं वा सहस्वंतं तारयितारं रथानामरिष्टनेमिं पृतनाजितमाशुं स्वस्तये तार्क्ष्य मिह ह्वयेमेति तमन्यं मध्यमादेवमवक्ष्यत्तस्यैषापरा भवति ॥ २८ ॥
सद्यश्चिद्यः शवसा पंचकृष्टीः सूर्य इव ज्योतिषापस्ततान । सहस्रसाः शतसा अस्य रहिर्न स्मा वरंते युवतिं न शर्यां (ऋ. सं. १०-१७८-३) ॥ सद्योपि यः शवसा बलेन तनोत्यपः सूर्य इव ज्योतिषा पंच मनुष्यजातानि सहस्रसानिनी शतसानित्यस्य सा गर्तिन स्मैनां वारयंति प्र युवतीमिव शरमयीमिषुं मन्युर्मन्यते दीर्प्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा मन्यंत्यस्मादिषवस्तस्यैषा भवति ॥ २९ ॥
त्वया मन्यो सरथमारुजंतो हर्षमाणासोऽधृषिता मरुत्वः ॥ तिग्मेषव आयुधा संशिशाना अभि प्र यंतु नरो अग्निरूपाः (ऋ. सं. १०-८४-१) ॥ त्रया मन्यो सरथमारुह्य रुजंतो हर्ष माणानरो अग्निरूपा अग्निकर्माणः संनद्धाः कवचिन इति वा दधिक्रा व्याख्यातस्तस्यैषा भवति ॥ ३० ॥
आ दधिक्राः शवसा पंच कृष्टीः सूर्य इव ज्योतिषापस्ततान । सहस्रसाः शतसा वाज्यर्वा पृणुक्तु मध्वा समिमा वचांसि । (ऋ. सं. ४-३८-१०) ॥ आतनोतिदधिक्राः शवसा बलेनापः सूर्य इव ज्योतिषा पंच मनुष्यजानाति सहस्रसाः शतसा वाजी वेजनवानर्वेरणवान्संपृणक्तु नो मधुनोदकेन वचनानीमानीति मधु धमतेर्विपरीतस्य सविता सर्वस्य प्रसविता तस्यैषा भवति ॥ ३१ ॥
सविता यंत्रैः पृथिवीमरम्णादस्कंभने सविता द्यामदृंहत् अश्वमिवाधुक्षद्धुनिमंतरिक्षमतूर्ते बद्धं सविता समुद्रम् । (ऋ. सं. १०-१४९-१२) ॥ सविता यंत्रैः पृथिवीमरमयदनारंभणेऽंतरिक्षे सविता द्यामदृंहदश्चमिवाधुक्षद्धुसिमंतरिक्षे मेघं बद्धमतूर्ते बद्ध मतूर्ण इतिवा त्वरमाण इति वा सविता समुदितारामितिकमन्यं मध्यमादेवमवक्ष्यदादित्योऽपि सवितोच्यते तथा च हैरण्यस्तूपे ऋषिरिदं सूक्तं प्रोवाच तदभिवादिन्येषर्ग्भवति ॥ ३२ ॥
हिरण्यस्तूपः सवितर्यथा त्वांगिरसो जुह्वे वाजे अस्मिन् । एवा त्वार्चन्नवसे वंदमान सोमस्येवांशुं प्रति जागराहवं (ऋ. सं. १०-१४९-५) ॥ हिरण्यस्तूपो हिरण्यमयः स्तूपो हिरण्यमयः सूपो स्येति वा स्तूपः स्त्यायतेः संघातः सकतर्यथा त्वांगिरसो जुह्वे वाजेऽन्नेऽस्मिन्नेवं त्वार्चन्नवनाय वंदमानः सोमस्येवांशुं प्रतिजागर्म्यहं त्वष्टा व्याख्यातस्तस्यैषा भवति ॥ ३३ ॥
देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान । इमाच विश्वा भुवनान्यस्व महद्देवाना मसुरत्वमेकं । (ऋ. सं. २-५५-१९) ॥ देवस्त्वष्टा सविता सर्वरूप पोषति प्रजाः रसानुप्रदानेन बहुधा चेमा जनयति इमानि च सूर्वाणि भूतान्युदकान्यस्य महाच्चास्म्यै देवानामसुरत्वमेकं पृज्ञावत्त्वं वानवत्त्वं वापि वासुरिति प्रज्ञाना मास्यत्यनर्थान स्ताश्चास्यामर्थ असुरत्वमादिलुप्तं वातो वातीति सतस्तस्यैषा भवति ॥ ३४ ॥
वात आ वातु भेषजं शंभु मयोभु नो हृदे । प्र ण आयूंषि तारिषत् (ऋ. सं. १०-१८६-१) ॥ वात आवातु भैषज्यानि शंभु मयोभु च नो हृदयाय प्रवर्धय च न आयुरग्निर्व्या ख्यातस्तस्यैषा भवति ॥ ३५ ॥
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे । मरुद्बिरग्न आगहि । (ऋ. सं. १-१९-१) ॥ तं प्रति चारुमध्वरं सोमपानाय प्रहूयसे सोऽग्रे मरुद्भिः सहागच्छेति कमन्यं मध्यमादेवमवक्ष्येत्तस्यैषापरा भवति ॥ ३६ ॥
अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु मरुद्भिरग्न आगहि (ऋ. सं. १-१९-९) ॥ अभिसृजामि त्वा पूर्वपीतये पूर्वपानाय सोम्यं मधु सोममयं सोऽग्ने मरुद्भिः सहागच्छेति ॥ ३७ ॥
वेनो वेनतेः कांतिकर्मणस्तस्यैषा भवति ॥ ३८ ॥
अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहंति (ऋ. सं. १०-१२३-१) ॥ अयं वेनश्चोदयत्पृश्निगर्भाः प्राष्टवर्णगर्भा आप इति वा ज्योतिर्जरायुर्ज्योतिरस्य जरायुस्थानीयं भविति जरायुर्जरया गर्भस्य जरया यूयत इति वेममपां च संगमने सूर्यस्य च शिशुमिव विप्रा मतिभी रिहंति लिहंति स्तुवंति वर्धयंति पूजयंतीति वा शिशुः शंसनीयो भवति शिशीतेर्वा स्याद्दानकर्मणश्चिरलब्धो गर्भो भवत्यसुनीतिरसून्नयति तस्यैषा भवति ॥ ३९ ॥
असुनीते मनो अस्मासु धारय जीवातवे सुप्रतिरान आयुः । रारंधि नः सूर्यस्य संदृति घृतेन त्वं तन्वं वर्धयस्व (ऋ. सं. १९-५९-५) ॥ असुनीते मनोऽस्मासु धारय चिरं जीवनाय प्रवर्धय च न आयू रंधय च नः सूर्यस्य संदर्शनाय रध्यतिर्वशगमनेऽपि दृश्यते । मा रधाम द्विषते सोम राजन्नित्यपि निगमो भवशि । घृतेन त्वमात्मानं तन्वं वर्धयस्वर्तो वाख्यातस्तस्यैषा भवति ॥ ४० ॥
ऋतस्य हि शुरधः संति पूर्वीर्ऋतस्य धीतिर्व्यजिनानि हंति । ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः (ऋ. सं. ४-२३-८) ॥ ऋतस्य हि शुरुधः संति पूर्वीर्ऋतस्य प्रज्ञा वर्जनीयानि हंति ऋतस्य श्लोको बधिरस्यापि कर्णावातृणत्ति बधिरो बद्धश्रोत्रः कर्णौ बोधयन्दीप्यमानश्चायोरयनस्य मनुष्यस्य ज्योतिषो वोदकस्य वेंदुरिंधेरुनत्तेर्वा तस्यैषा भवति ॥ ४१ ॥
प्रतद्वोचेयं भव्यायेंदवे हव्यो न य इषवान्मन्मरेजति रक्षोहा मन्म रेजति । स्वयं सो अस्मदानिदो वधैरजेत दुर्मतिं । अव स्रवेदशघशंसोऽवतरमव क्षुद्रमिव स्रवेत् (ऋ. सं. १-१२९-६) ॥ प्रब्रवीमि तद्भव्यायेंदवे हवनार्ह इव य इषवानन्नवान्वा मननानि च नो रेजयति रक्षोहा च बलेन रेजयति स्वयं सोऽस्मदभिनिंदितारं । वधैरजेत दुर्मतिं । अवस्रवेदघशंसस्ततश्चावतरं क्षुद्रमिवावस्रवेदभ्यासे भूयांसमर्थं मन्यंते यथाहो दर्शनीयाहो दर्शनीयेति तत्परुच्छेपस्य शीलं परुच्छेप ऋषिः पर्ववच्छेपः परुषि परुषि शेपोऽस्येति वेतीमानि सप्तविंशतिर्देवतानामधेयान्यनुक्रांतानि सूक्तभांजि हविर्भांजि तेषामेतान्य हविर्भांजि वेनोऽसुनीतिर्ऋत इंदु प्रजापतिः प्रजानां पाता वा पालयिता वा तस्यैषा भवति ॥ ४२ ॥
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणां । (ऋ. सं. १०-१२१-१०) ॥ प्रजापते न हि त्वदेतान्यन्यः सर्वाणि जातानि तानि परिबभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणामित्याशीरहिर्व्याख्यातस्तस्यैषा भवति ॥ ४३ ॥
अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजःसु षीदन् (ऋ.सं.७-३४-१९) ॥ अप्सुजेमुक्थैरहिं गृणीषे बुध्ने नदीनां रजःसूदकेषुसीदन्बुध्नमंतरिक्षं बद्धा अस्मिन्धृता आप इति वेदमपीतरद् बुध्नमेतस्मादेव बद्धा अस्मिन् धृताः प्राणा इति योऽहिः स बुध्नो बुध्नमंतरिक्षं तन्निवासात्तस्यैषा भवति ॥ ४४ ॥
मा नोऽहिर्बुध्न्यो रिषे धान्मा यज्ञो अस्य स्रिधदृतायोः (ऋ. सं. ७-३४-१७) ॥ मा च नोऽहिर्बुध्नो रेषणाय धान्मास्य यज्ञोखा च स्रिधद्यज्ञकामस्य सुपर्णो व्याख्यातस्त्यैषा भवति ॥ ४५ ॥
एकः स्तुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे । तं पाकेन मनसापश्यमंतितस्तं माता रेह्ळि स उ रेह्ळि मातरं (ऋ. सं. १०-११४-४) ॥ एकः सुपर्णः स समुद्र माविशति स इमानि सर्वाणि भूतान्यभिविपश्यति तं पाकेन मनसा पश्यमंतित इत्यृषेर्दृष्टार्थस्य प्रीतिर्भवत्याख्यानसंयुक्ता तं मातारेळ्हि वागेषा माध्यमिका स उ मातरं रेळ्हि पुरूरवा बहुधारोरूयते तस्मैषा भवति ॥ ४६ ॥
समस्मिञ्जायमान आसत ग्ना उतेमवर्धन्नध्यः १ स्वगूर्ताः । महेयत्त्वा पुरूरवो रणायावर्धयन्द स्युहत्याय देवाः (ऋ.सं.१०-९५-७) ॥ समासतास्मिञ्जायमाने ग्ना गमनादापो देवपत्न्यो वापि चैनमवर्धयन्नद्यः स्वगूर्ताः स्वयंगामिन्शो महते च यत्त्वा पुरूरवो रणाय रमणीयाय संग्रामायावर्धयन्द स्युहत्याय च देवा देवाः ॥ ४७ ॥
अथातोमध्यस्थानावायवायाह्या स स्राणासो नीचीनवारं तमूष्विमा रुद्राययाते दिद्युज्जराव बोधादर्दर्यो जातो विविक्षानश्नापिनद्धमश्मास्यमवतं क्षेत्रस्यपतिः क्षेत्रस्यपतिना क्षेत्रस्यपतेऽमीवहा पुनरेहियो अनिध्मपरोयिवांसं सेनेवसृष्टा मित्रोजनान् हिरण्यगर्भोयेते सरस्वो विश्वकर्मासर्व स्य विश्वकर्माविमाना विश्व कर्म न्हविषात्य मूषु सद्यश्चित्व यामन्यो आदधिक्राः सविताहिरण्य स्तूपो देवस्त्वष्टावात आवातु प्रतित्यमभित्वावेनोवेनतेरयं वेनोऽसुनीत ऋतस्य हि प्रतद्वोचेयं प्रजापतेब्जामुक्धैमानोहि रेकः सुपर्णः समस्मिन् त्सप्तचत्वारिंशत् ॥
ओं । श्येनो व्याख्यातस्तस्यैषा भवति ॥ १ ॥
आदाय श्येनो अभरत्सोमं सहस्रं सवा अयुतं च साकं । अत्रापुरंधिरजहादरातीर्मदे सोमस्य मूरा अमूरः । (ऋ. सं. ४-२६-७) ॥ आदाय श्शेनोऽहरत्सोमं सहस्रं सवानयुतं च सह सहस्रं सहस्रसाव्यमभिप्रेत्य तत्रायुतं सोमभक्षास्तत्सं बंधेनायुतं दक्षिणा इति वा तत्र पुरंधिरजहादमित्रानदानानिति वा । मदे सोमस्य मूरा अमूर इत्यैंद्रे च सूक्ते सोमपानेन च स्तुतस्तस्मादिंद्रं मन्यंत ओषधिः सोमः सुनोतेर्यदेनमभिषुण्वंति बहुलमस्य नैघंटुकं वृत्तमाश्चर्यमिव प्राधान्येन तस्य पावमानीषु निदर्शनायोदाहरिष्यामः ॥ २ ॥
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । इंद्राय पातवे सुतः (ऋ. सं .१९-१-१) ॥ इति सा निगदव्याख्याताथैषापरा भवति चंद्रमसो वैतस्य वा ॥ ३ ॥
सोमं मन्यते पपिवान्यत्संपिंषंत्योषधिं । स्तोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन (ऋ. सं. १०-८-५३) ॥ सोमं मन्यते पपिवान्यत्संपिंषंत्योषधिमिति वृथासुतमसोममाह सोमं यं ब्रह्माणो विदुरिति न तस्याश्नाति कश्चनायज्ञेत्यधियज्ञ मथाधिदैवतं सोमं मन्यते पपिवान्यत्संपिंषंत्योषधिमिति यजुः सुतमसोममाह सोमं यं ब्रह्माणो विदुश्चंद्रमसं न तस्याश्नाति कश्चनादेव इत्यथैषापरा भवति चंद्रमसो वैतस्य वा ॥ ४ ॥
यत्त्वा देव प्रपिबंति तत आप्यायसे पुनः । वायुः सोमस्य रक्षिता समानां मास आकृतिः । (ऋ. सं. १०-८५-५) ॥ यत्त्वा देव प्रपिबंकि तत आप्यायसे पुनरिति नाराशंसानभिप्रेत्य पूर्वपक्षापरपक्षाविति वा वायुः सोमस्य रक्षिता वायुमस्य रक्षितारमाह साहचर्याद्रसहरणाद्वा समानां संवत्सराणां मास आकृतिः सोमो रूपविशेषैरोषधिश्चंद्रमा वा चंद्रमाश्चायंद्रमपि चंद्रो माता चांद्रं मानमस्येति वा चंद्रश्चंदतेः कांतिकर्मणश्चंदनमित्यप्यस्य भवशि चारु द्रमति चिरं द्रमति चर्मेवा पूर्वं चारुरुचेर्विपरीतस्य तस्यैषा भवति ॥ ५ ॥
नवोनवो भवति बायमनोऽह्नां केतुरुषसामेत्यग्रं । भागं देवेभ्यो वि दधात्यायंप्र चंद्रमास्तिरते दीर्घमायुः (ऋ. सं. १०-८५-१९) ॥ नवो नवो भवति जायमान इति पूर्वपक्षादिमभिप्रत्याह्नां केतुरुषसामेत्यग्रमित्यपरपक्षांतमभिप्रेत्यादित्यदैवतो द्वितीयः पाद इत्येके भागं देवेभ्यो विदधात्यायन्नित्यर्धमासेज्यामभिप्रेत्य प्रवर्धयते चंद्रमा दीर्घामायुमृत्युर्मारयतीति सतो मृतं च्यावयतीति वा शतबलाक्षो मौद्गल्यस्तस्यैषा भवति ॥ ६ ॥
परं मैत्यो अनु परेहि पंथां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् (ऋ. सं. १०-१८-१) परं मृत्यो ध्रुवं परेहि मृत्यो कथितं तेन मृत्यो मृतं च्यावयते भवति मृत्यो मदेर्वा मुदेर्वा तेषामेषा भवति ॥ ७ ॥
विश्वानरो व्याख्यातः । तस्यैषा भवति ॥ ८ ॥
प्र वो महे मंदमानायांधसोऽर्चा विश्वानराय विश्वाभुवे । इंद्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः (ऋ. सं. १०-५०-१) ॥ प्रार्चत यूयं स्तुतिं महतेऽंधसोऽन्नस्य दात्रे मंदमानाय मोदमानाय स्तूयमानाय शब्दाय्यमानायेति वा विश्वानराय सर्वं विभूतायेंद्रस्य यस्य प्रीतौ सुमहद्बलं महच्च श्रवणीयं यशो नृम्णं च बलं नृन्नतं द्यावापृथिव्यौ वः परिचरत इति कमन्यं मध्यमादेवमवक्ष्यत्तस्यैषापराभवति ॥ ९ ॥
उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् (ऋ. सं. ७-७६-१) ॥ उदशिश्रयज्ज्योतिरमृतं सर्वजन्यं विश्वानरः सविवा देव इति धाता सर्वस्य विधाता तस्यैषा भवति ॥ १० ॥
धाता ददातु दाशुषे प्राचीं जीवातुमक्षितां । वयं देवस्य धीमहि सुमतिं सत्यधर्मणः (ऋ. सं. ७-१७-२) ॥ मैत्रा सं. ४-१२-६) ॥ धाता ददातु दत्तवते प्रवृद्धां जीविकामनुपक्षीणां वयं देवस्य धीमहि सुमतिं कल्याणीं मति सत्यधर्मणो विधाता धात्रा व्याख्यातस्तस्यैष निपातो भवति बहुदेवतायामृचि ॥ ११ ॥
सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेरनुमत्या उ शर्मणॆ । तवाहमद्य मघवन्नु पस्तुतौ धातर्विधातः कलशा अभक्षयं (ऋ. सं. १०-१६७-३) ॥ इत्येताभिर्देताभिरभिप्रसूतः सोमकलशानभक्षयमिति कलशः कस्मात्कला अस्मि ञ्छेरते मात्राः कलिश्च कलाश्च किरते ।र्विकीर्णा मात्राः ॥ १२ ॥
अथातो मध्यस्थाना देवगणास्तेषां मरुतः प्रथमागामिनो भवंति मरुतो मितराविणो वा मितरोचिनो वा महद्द्रवंतीति वा तेषामेषा भवति ॥ १३ ॥
आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः ॥ आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः (ऋ. सं. १-८८-१) ॥ विद्युन्मद्भिर्मरुतः स्वर्कै स्वतिचनैरिति वा स्वर्चिभिरिति वा रथैरायात ऋष्टिमद्भिरश्वपर्णैरश्वपतन्मॆर्चष्ठेन च नोऽन्नेन वय इवापतत सुमायाः कल्याणकर्माणो वा कल्याणप्रज्ञा वा रुद्रा व्याख्यातास्तेषामेषा भवति ॥ १४ ॥
आ रुद्रास इंद्रवंतः सजोषसो हिरण्यरथाः सुविताय गंतन । इयं वो अस्मत्प्रति हर्यते मतिस्तृष्णजे न दिव उत्सा उदन्यवे ॥ (ऋ. सं. ५-५७-१) ॥ आगच्छत रुद्रा इंद्रेण सहजोषणाः सुविताय कर्मण इयं वोऽस्मदपि प्रतिकामयते मतिस्तृष्णज इव दिव उत्सा उदन्यवे इति तृष्णक् तृष्यते रुदन्युरुदन्यतेर्ऋभव उरु भांतीति वर्तेन भांतीति वर्तेन भवंतीति वा तेषामेषा भवति ॥ १५ ॥
विष्टी शमी तरणित्वेन वाघतो मर्तासः संतो अमृतत्वमानशुः । सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यंत धीतिभिः ॥ (ऋ. सं. १-११०-४) ॥ कृत्वा कर्माणि क्षिप्रत्वेन वोढारो मेधाविनो वा मर्तासः संतोऽमृतत्वमानशिरे सौधन्वना ऋभवः सूरख्याना वा सूरप्रज्ञा वा सुवत्सरे समपृच्यंत धीतिभिः कर्मभिर्ऋभुर्विर्भ्वा वाज इति सुधन्वन आंगिरसस्य त्रयः पुत्रा बभूवुस्तेषां प्रथमोत्तमाभ्यां बहुवन्निगमा भवंति न मध्यमेन तदेतदृभोश्च बहुवचनेन चमसस्य च संस्तवेन बहूनि दशतयीषु सूक्तानि भवंत्यादित्यरश्मयोऽप्यृभव उच्यंते । अगोह्यस्य यदसस्तना गृहे तदद्येदमृभवो नानु गच्छथः । अगोह्य आदित्योऽगूहनीयस्तस्य यदस्वपथ गृहे यावत्तत्र भवथ न तावदिह भवथेत्यंगिरसो व्याख्यातास्तेषामेषा भवति ॥ १६ ॥
विरूपास इदृषयस्त इद्गंभीरवेपसः । ते अंगिरसः सूनवस्ते अग्नेः परि जज्ञिरे ॥ (ऋ. सं. १०-६२-५) ॥ बहुरूपा ऋषयस्ते गंभीर कर्माणो वा गंभीरप्रज्ञावा तेऽंगिरसः पुत्रास्तेऽग्नेरधिजज्ञिर इत्यग्निजन्म पितरो व्याख्यातास्तेषामेषा भवति ॥ १७ ॥
उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवंतु पितरो हवेषु । (ऋ. सं. १०-१५-१) ॥ उदीरतामवंर उदीरतां पर उदीरतां मध्यमा पितरः सोम्याः सोमसंपादिनस्तेऽसुं ये प्राणमन्वीयुरवृका अनमित्राः सत्यज्ञा वा यज्ञज्ञा वा ते न आगच्छंतु पितरो ह्वानेषु माध्यमितो यम इत्याहुस्तस्मान्माध्शमिकान् पितृन् मन्यंतेऽंगिरसो व्याख्याताः पितरो व्याख्याता भृगवो व्याख्याता अथर्वाणोऽथनवंतस्थर्वति श्चरतिकर्मा तत्प्रतिषेधस्तेषामेषा साधारणा भवति ॥ १८ ॥
अंगिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥ (ऋ. सं. १०-१४-६) ॥ अंगिरसो नः पितरो नवगतयो नवनीतगतयो चाथर्वाणो भृगवः सोम्याः सोमसंपादिस्तेषां वयं सुमतौ कल्याण्यां मतौ यज्ञियानामपि चैषां भद्रे भंदनीये भाजनवति वा कल्याणे मनसि स्यामेति माध्यमिको देवगण इति नैरुक्ताः पितर इत्यारूयानमथाप्यृषयः स्तूयंते ॥ १९ ॥
सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः । वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः (ऋ. सं. ७-२३-८) इति यथा आप्त्या आप्नोते स्तेषामेष निपातो भवत्यैंद्र्यामृचि ॥ २० ॥
स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानां । आ दर्षते शवसा सप्त दानूनाप्र साक्षते प्रतिमानासि भूरि (ऋ. सं. १०-१२०-६) ॥ स्तोतव्यं बहुरूपमुरुभूतमीश्वरतममाप्तव्यमाप्तव्याना मादृणाति यः शवसा बलेन सप्त दातृनिति वा सप्त दानवानिति वा प्रसाक्षते प्रतिमानानि बहूनि साक्षतिराप्नोतिकर्मा ॥ २१ ॥
अथातो मध्यस्थाना स्त्रियस्तासामदितिः प्रथमागामिनी भवत्यदितिर्व्याख्याता तस्या एषा भवति ॥ २२ ॥
दक्षस्य वादिते जन्मानि व्रते राजाना मित्रावरुणा विवासति । अतूर्तपंथाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु (ऋ. सं. १०-६४-५) ॥ दक्षस्य वादिते जन्मनी व्रते कर्मणि राजानौ मित्रावरुणौ परिचरसि विवासतिः परिचर्यायां हविष्मां आविवासतीत्या शास्तेर्वातूर्तपंथा अत्वरमाणपांथा बहुरथोऽर्यमूदित्योऽरीन्नियच्छति सप्तहोता सप्तास्मै रश्मयो रसानभि संनामयंति सप्तैनमृषयः स्तुवंतीति वा विषमरूपेषु जन्मसु कर्मसूदॆयेष्वादित्यो दक्ष इत्याहुरादित्यमध्ये च स्तुतोऽदितिर्दाक्षायणी अदतेर्दक्षो अजायत दक्षाद्वादितिः परीति च । तत्कथमुपपद्येत समानजन्मानौ स्यातामित्यपि वा देवधर्मेणेतरेतर जन्मानौ स्यातामितरेतं प्रकृती अग्निरप्यदितिरुच्यते तस्मैषा भवति ॥ २३ ॥
यस्मै त्वं सुद्रविणो ददाशोऽनागास्त्वामदिते सर्वताता । यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम । (ऋ. सं. १-९४-१५) यस्मै त्वं सुद्रविणो ददास्यनागास्त्वव नपराधेत्वमदिते सर्वासु कर्मततिष्वाग आङ्पूर्वाद्गमेरेन एतेः किल्मिषं किल्भिदं सुकृत कर्मणो भयं कीर्तिमस्य भिनत्तीति वा यं भद्रेण शवसा बलेन चोदयसि प्रजावता च राधसा धनेन ते वयमिह स्यामेति सरमा सरणात्तस्या एषा भवति ॥ २४ ॥
किमिच्छंती सरमा प्रेदमानड् दूरे ह्यध्वा जगुरिः पराजैः । कास्मेहितिः का परितक्म्यासीत्कथं रसाया अतरः पयांसि । (ऋ. सं. १०-१०८-१) किमिच्छंती सरमेदं प्रानड् दूरे ह्यध्वा जगुरिर्जंगम्यतेः परांचनैरचितः का तेःस्मास्वर्थहितिरासीत्किं परितनकं परितक्म्या रात्रिः परित एनां तक्म तक्मेत्युष्णनाम इति सतः कथं रसाया अतरः पयांसीति रसा नदी रसतेः शब्दकर्मणः कथंरसानि तान्युदकानीति वा देव शुनींद्रेण प्रहिता पणिभिरसुरैः समूद इत्याख्यानं सरस्वती व्याख्याता तस्या एषा भवति ॥ २५ ॥
पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धिया वसुः । (ऋ. सं. १-३-१०) ॥ पावका नः सरस्वत्यन्नैरन्नवती यज्ञं वष्टु धियावसुः कर्मवसुस्तस्या एषापरा भवति ॥ २६ ॥
महो अर्णः सरस्वती प्रचेतयति केतुना । धियो विश्वा विराजति । (ऋ. सं. १-३-१२) ॥ महदर्णः सरस्वती प्रचेतयति प्रज्ञापयति केतुना कर्मणा प्रज्ञया वेमानिच सर्वाणि प्रज्ञानान्यभिविराजति वागर्थेषु विधीयते तस्मान्माध्यमिकां वाचं मन्यंत वाग्व्याख्याता तस्या एषा भवति ॥ २७ ॥
यद्वाग्वदंत्यविचेतनानि राष्ट्री देवानां निषसाद मंद्रा । चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥ (ऋ. सं. ८-१००-१०) ॥ यद्वाग्वदंत्यविचेतनान्य विज्ञातानि राष्ट्री देवानां सिषसाद मंद्रा मदना चतुस्रोऽनु दिश ऊर्जं दुदुहे पयांसि क्वस्विदस्याः परमं जिगामेति यत् पृथ्वीं गच्छतीति वा यदादित्य रश्मयो हरंतीति वा तस्या एषापरा भवति ॥ २८ ॥
देवींवाचमजनयंत देवास्तां विश्वरूपाः पशवो वदंति । सानो मंद्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु । (ऋ. सं. ८-१००-११) देवींवाचमजनयंत देवास्तां सर्वरूपाः पशवो वदंति व्यक्तवाचश्चाव्यक्तवाचश्च सा नो मदनान्नं च रसं च दुहानाधेनुर्वागस्मानुपैतु सुष्टुतानुमती राकेति देवप्न्यामिति नैरुक्ताः पौर्णमास्याविति याज्ञिका या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राकेति विज्ञायतेऽनुमतिरनुमननात्तस्या एषा भवति ॥ २९ ॥
अन्विदनुमते त्वं मन्यासै शं च नस्कृधि । क्रत्वे दक्षाय नो हि नु प्रण आयूंषि तारिषः । (तै. सं. ३-३-११) ॥ अनुमन्यस्वानुमते त्वं सुखं च नः कुर्वन्नन्नं च नोऽपत्याय हि प्रवर्धय च न आयू राका रातेर्दानकर्मणस्तस्या एषा भवति ॥ ३० ॥
राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्वपः सूच्याच्छिद्यमानयाददातु वीरं शतदाय मुक्थ्यं । (ऋ. सं. २-३२-४) ॥ राकामहं सुह्वानां सुष्टुत्याह्वये शृणोतु नः सुभगा बोधत्वात्मना सीव्यत्वपः प्रजननकर्म सूच्याच्छिद्यमानया सूची सीव्यतेर्ददातु वीरं शतपृदमुक्थ्यं वक्तव्यप्रशं सं सिनीवाली कुहूरिति देवपत्न्याविति नैरुक्ता अमावास्ये इति याज्ञिका या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूरिति विज्ञायते सिनीवाली सिनमन्नं भवति सिनाति भूतानि बालं पर्व वृणीतेस्तस्मिन्नन्न वती वालिनी वा वालेनेवास्यामणित्वाच्चंद्रमाः सोतपो भवतीति वा तस्या एषा भवति ॥ ३१ ॥
सिनीवाली पृथुष्टुके या देवानामसि स्वसा । जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढिनः (ऋ. सं. २-३२-६) सिनीवालि पृथुजघने स्तुकस्त्यायतेः संघातः पृथुकेशस्तुके पृथुष्टुते वा या त्वं देवानामसि स्वसा स्वसा सु असा स्वेषु सीदतीति वा जुषस्व हव्यमाहुतं प्रजां च देवि दिश नः कुहूर्गूहतेः क्वाभूदिति वा क्व सती हूयत इति वा क्वाहुतं हविर्जुहोतीति वा तस्या एषा भवति ॥ ३२ ॥
कुहूमहं सुकृतं विद्मनापसमस्मिन् यज्ञे सुहवां जोह वीमि । सा नो ददातु श्रवणं पितृणां तस्यै तेदेवि हविषा विधेम (मैत्रा. सं. ४-१२-६) कुहूमहं सुकृतं विदितकर्माणमस्मिन्यज्ञे सुह्वानामाह्वये सा नो ददातु श्रवणं पितृणां पित्र्यं धनमिति वा पित्र्यं यश इति वा तस्यै ते देवि हविषा विधेमति व्याख्यातं यमी व्याख्याता तस्या एषा भवति ॥ ३३ ॥
अन्यमूषु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षं ॥ तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्रां । (ऋ. सं. १-१०-१४) ॥ अन्यमेव हित्वं यम्यन्यस्त्वां कुरुष्व संविदं सुभद्रां कल्याणभद्रां यमी यमं चकमे तां प्रत्याचचक्षे त्याख्यानं ॥ ३४ ॥
उर्वशी व्याख्याता तस्या एषा भवति ॥ ३५ ॥
विद्युन्न या पतंती दविद्योद्भरंती मे अप्या काम्यानि । जनिष्ठो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः (ऋ. सं. १०-९५-१०) विद्युदिव या पतंत्यद्योतत । हरंती मे अप्या कामान्यु. दकान्यंतरिक्षलोकस्य यदा नूनमयं जायेताद्भ्योऽध्यप इति नर्यो मनुष्यो नृभ्यो हितो नरापत्यमिति वा सुजातः सुजाततरोऽथोर्वशी प्रवर्धयते दीर्घमायुः पृथिवी व्याख्याता तस्या एषा भवति ॥ ३६ ॥
बळित्था पर्वतानां खिद्रं बिभर्षि पृथिवि । प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि (ऋं. सं. ५-८४-१) ॥ सत्यं त्वं पर्वतानां मेघानां खेदनं छेदनं भेदनं बलममुत्र धारयसि पृथिवि प्रजिन्वसि या भूमिं प्रवणवति महत्त्वेन महतीत्युदकवतीति वेंद्राणींद्रस्य पत्नी तस्या एषा भवति ॥ २७ ॥
इंद्राणीमासु नारिषु सुभगामहमश्रवं । न ह्यस्या अपरं चन जरसा मरते पतिर्विशस्मादिंद्र उत्तरः । (ऋ, सं. १०-८६-११) इंद्राणीमासु नारिषु सुभगामहमशृणवं न ह्यस्या अपरामसि समां जरया म्रियते पतिः सर्वस्माद्य इंद्र वुत्तरस्तमेतद् ब्रूमस्तस्या एषापरा भवति ॥ ३८ ॥
नाहमिंद्राणि रारण सख्युर्वृषाकपेर्ऋते । यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिंद्र उत्तरः (ऋ. सं. १०-८६-१२) ॥ साहमिंद्राणि रमे सख्युर्वृषाकपेर्ऋते यस्येदमप्यं हविरप्सु शृतमद्भिः संस्कृतिमिति वा प्रियं देवेषु निगच्छति सर्वस्माद्य इंद्र उत्तरस्तमेतद ब्रूमो गौरी रोचतेर्ज्वलतिकर्मणोऽयमपीतरो गौरो वर्ण एतस्मादेव प्रशस्यो भवति तस्या एषा भवति ॥ ३९ ॥
गौरीर्मिमाय सलिलानि तक्ष त्येकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्यो मन् (ऋ. सं. १-१६४-४१) ॥ गौरीर्मिमाय सलिलानि तक्षती कुर्वत्येकपदी मध्यमेन चादित्येन च चतुष्टदी दिग्भिरष्टापदी दिग्भिश्चावांतरदिग्भिश्च नवपदी दिग्भिश्चावांतरदिग्भिश्चादित्येन च सहस्राक्षरा बहूदका परमे व्यवने तस्या एषापरा भवति ॥ ४० ॥
तस्याः समुद्रा अधि वि क्षरंति तेन जीवंति प्रदिशश्चतस्रः । ततः क्षरत्यक्षरं तद्विश्वमुप जीवति । (ऋ. सं. १-१६४-४२) ॥ तस्याः समुद्रा अधिविक्षरंति वर्षंति मेघास्तेन जीवंति दिगाश्रयाणि भूतानि ततः क्षरत्यक्षरमुदकं तत्सर्वाणि भूतान्युपजीवंति गौर्व्याख्याता तस्मा एषा भवति ॥ ४१ ॥
गौरमीमेदनु वत्सं मिषं तं मूर्धानं हिङ् कृणोन्मातवा उ । सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः (ऋ. सं. १-१६४-२८) ॥ गौरन्वमीभेद्वत्सं निमिषंतमनिमिषंतमादित्यमिति वा मूर्धानमसाभिहिङ् करोन्मननाय सृक्वाणं सरणं घर्मं हरणमभिवावशाना मिमाति मायुं प्रप्यायते पयोभिर्मायमिविवादित्यमिति वा वागेषा माध्यमिका धर्मधुगिति याज्ञि काधेनुर्धयतेर्वा तॆस्या एषा भवति ॥ ४२ ॥
उपह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनां । श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्रवोचं ॥ (ऋ. सं. १-१६४-२५) ॥ उपह्वये सुदोहनां धेनुमेतां कल्याणहस्तो गोधुगपि च दोग्ध्वेनां श्रेष्ठं सवं सविता सुनोतु न इत्येष हि श्रेष्ठः सर्वेषां सवानां यदुदकं यद्वा पयो यजुष्मदभीद्धो घर्मस्तं प्रब्रवीमि वागेषु माध्यमिका धर्मदुगिति याज्ञिका अघ्नाहंतव्या भवत्यघघ्नीति वा तस्या एषा भवति ॥ ४३ ॥
सूयवसाद्भगवती हि भूया अथो वयं भगवंतः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरंती । (ऋ. सं. १-१६४-४०) सुयवसादिनी भगवती हि भावाथेदानीं वयं भगवंतः स्यामाद्धि तृणमघ्ने सर्वदा पिब च शुद्धमुदकमाचरंती तस्या एषापरा भवति ॥ ४४ ॥
हिंकृण्वती वसुपत्नी नसूनां वत्समिच्छंती मनसाभ्यागात् दुहामश्चिभ्यां पयो अघ्नेयं सा वर्धतां महते सौभगाय । (ऋ. सं. १-१६४-२७) इति सा निगदव्याख्याता पथ्यास्वस्तिः पंथा अंतरिक्षं तन्निवासात्तस्या एषा भवति ॥ ४५ ॥
स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति । सा नो अमा सो अरणी नि पातु स्वावेशा भवतु देवगोपा (ऋ. सं. ४-३०-१०-६३-१६) ॥ स्वस्तिरेव हि प्रपथे श्रेष्ठा रेक्णस्वती धनवत्यभ्येति या वसूनि वननीयानि सा नोऽअमा गृहे सा निरमणे सा निर्गमने पातु स्वावेशा भवतु देवी गोप्त्री देवान्गोपयत्विति देवा एनां गोपायंत्विति वोषा व्याख्याता तस्या एषा भवति ॥ ४६ ॥
अपोषा अनसः सरत्संपिष्टादहं बिभ्युषी । नि यत्सीं शिश्मथद्वृषा (ऋ. सं. ४-३०-१०) ॥ अपासरदुषा अनसः संपिष्टान्मेघाद्भिभ्युष्यनो वायुरनितेरपि वोपमार्थे स्यादनस इव शकटादिवानः शकटमानद्ध मस्मिंश्चीवरमनितेर्वा स्याज्जीवनकर्मण उपजीवंत्येनन्मेघोऽप्यन एतस्मादेव यन्निरशिश्नथद्वृषा वर्षिता मध्यमस्तस्या एषापरा भवति ॥ ४७ ॥
एतदस्या अनः शये सुसंपिष्टं विपास्यां । ससार सीं परावतः । (ऋ. सं. ४-३०-११) ॥ एतदस्या अन आशेते सुसंपिष्टमितरदिव विपाशि विमुक्तपाशि ससारोषाः परावतः प्रेरितवतः परागताद्वेळा व्याख्याता तस्या एषा भवति ॥ ४८ ॥
अभि न ईळा यूथस्य माता स्मन्नदीभिरुर्वशी वा गृणातु । उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः (ऋ. सं. ५-४१-१९) ॥ सिषक्तु न ऊर्जव्यस्य पुष्टेः (ऋ. सं. ५-४१-२०) ॥ अभिगृणातु न इळा यूथस्य माता स्मदभिनदीभिरुर्वशी वा गृणातूर्वशी वा बृहद्दिवा महद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्य प्रभृतस्यायो रयनस्य ज्योतिषो वोदकस्य वा सेवतां नोऽन्नस्य पुष्टे रोदसी रुद्रस्य पत्री तस्या एषा भवति ॥ ४९ ॥
रथं नु मारुतं वयं श्रवस्युमा हुवामहे । आ यस्मिन् तस्थौ सुरणानि बिभृती सचा मरुत्सु रोदसी (ऋ. सं. ५-५६-८) ॥ रथं क्षिप्रं मारुतं मेघं वयं श्रवणीयमाह्वयामह आ यस्मिन् तस्थौ सुर मणीयान्युदकानि बिभ्रती सचा मरुद्भिः सह रोदसी रोदसी ॥ ५० ॥
ओं ॥ अथातो द्युस्थाना देवतास्तासामश्विनौ प्रथमागामिनौ भवतोऽश्विनौ यद्ध्यश्नुवाते सर्वं रसेनान्यो ज्योतिषान्योऽश्वै रश्विना वित्यौर्णवाभस्तत्कावश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्याचंद्रमसावित्येके राजानौ पुण्यकृतावित्शैतिहासिकास्तयोः काल ऊर्ध्वमर्धरात्रात् प्रकाशीभावस्यानुष्टंभमनु तमोभागोहि मध्यमो ज्योतिर्भाग आदित्यस्तयोरेषा भवति ॥ १ ॥
वसातिषु स्म चरथोऽसितौ पेत्वाविव । कदेदमश्विना युवमभि देवां अगच्छतम् ॥ इति सा निगदव्याख्याता तयोः समानकालयोः समानकर्मणो संस्तुतप्राययो रसंस्तवेनैषोऽर्धर्चो भवति वासात्यो अन्य उच्यत उषः पुत्रस्तवान्य इति तयोरेषाऽपरा भवति ॥ २ ॥
इहेह जाता समवावशीतामरेपसा तन्वा३ नामभिः स्वैः । जिष्णु र्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे (ऋ. सं. १-१८१-४) ॥ इह चेह च जातौ संस्तूयेते पापेनालिप्यमानाया तन्वा नामभिश्च स्वैर्जिष्णुर्वामन्यः सुमहतो बलस्येरयिता मध्यमो दिवोऽन्यः सुभगः पुत्र उह्यत आदित्यस्तयोरेषापरा भवति ॥ ३ ॥
प्रातर्युजा विबोधयाश्विनावेह गच्छतां । अस्य सोमस्य पीतये ॥ (ऋ. सं. १-२१-१) ॥ प्रातर्योगिनौ विबोधयाश्विनाविहागच्छतामस्य सोमस्य पानाय तयोरेषापरा भवति ॥ ४ ॥
प्रातर्यजध्वमश्विना हिनोत न सायमस्ति देवया अजुष्टं । उतान्यो अस्मद्यजते वि चावः पूर्वः पूर्वो यजमानो वनीयान् (ऋ. सं. ५-७७-२) प्रातर्यजध्वमश्विनौ प्रहिणुत न सायमस्ति देवेज्या अजुष्टमेतदप्यन्नोऽस्मद्यजते वि चावः पूर्वो यजमानो वनीयान्वनयितृतमस्तयोः कालः सूर्योदयपर्यं तस्तस्मिन्नन्या देवता ओष्यंत उषा वष्टेः कांतिकर्मण उच्छतेरितरा माध्यमिका तस्या एषा भवति ॥ ५ ॥
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । येन तोकं च तनयं च धामहे (ऋ. सं. १-९५-१३) ॥ उषस्तच्चित्रं चायनीयं मंहनीयं धनमाहरास्मभ्यमन्नवति येन पुत्रांश्च पौत्रांश्च दधीमहि तस्या एषापरा भवति ॥ ६ ॥
एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमंजते । निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीयंति मातरः (ऋ. सं. १-९२-१) ॥ एतास्ता उषसः केतुमकृषत प्रज्ञानमेकस्या एव पूजनार्थे बहुवचनं स्यात्पूर्वेऽर्धेऽंतरिक्ष लोकस्य समंजते भानुना । निष्कृण्वाना आयुधानीव धृष्णवः । निरित्येष समित्येतस्य स्थान एमीदेषां निष्कृतं जारिणीवेत्यपि निगमो भवति । प्रतियंति गावो गमनादरुषीरारोचनान्मातरो भासो निर्मात्र्यः । सूर्या सूर्यस्य पत्न्येषैवाभिसृष्टकालतमा तस्या एषा भवति ॥ ७ ॥
सुकिं शुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रं । आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व । (ऋ. सं. १०-८५-२०) ॥ सुकाशनं शन्नमलं सर्वरूपमपि वोप मार्थे स्यात्सुकिंशुकमिव शल्मलि मिति किंशुंकं क्रंशतेः प्रकाशयति कर्मणः शल्मलिः सुशरो भवति शरवान्वारोह सूर्ये अमृतस्य लोकमुदकस्य सुखं पत्ये वहतुं कुरुष्व सविता सूर्ये प्रायच्छत्सोमाय राज्ञे प्रजापतये वेति च ब्राह्मणं वृषाकपायी वृषाकपेः पत्नेषैवाभिसृष्टकालतमा तस्या एषा भवति ॥ ८ ॥
वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे । घसत्त इंद्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिंद्र उत्तरः । (ऋ. सं. १०-८६-१३) ॥ वृषाकपायि रेवति सुपुत्रे मध्यमेन सुस्नुषे माध्यमिकया वाचा स्नुषा साधुसादिनीति वा साधुसानिनीति वा स्वपत्यं तत्सनोतीति वा प्राश्नातु त इंद्र उक्षण एतान्माध्यमिकान् त्सं स्त्यायानुक्षण उक्षते र्वृद्धिकर्मण उक्षंत्युदकेनेति वा प्रियं कुरुष्ट सुखाचयकरं हविः सुखकरं हविः सर्वस्माद्य इंद्र उत्तरस्तमेतद् ब्रूम आदित्यं सरण्यूः सरणात्तस्या एषा भवति ॥ ९ ॥
अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्पते । उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः (ऋ. सं. १०-१७-२) ॥ अप्यगूहन्नमृतां मर्त्येभ्य कृत्वी सवर्णामददुर्विव स्वतेऽप्यश्विनानभरद्यत्तदासीदजहाद् द्वौमिथुनौ सरण्यूर्मध्यमं च माध्यमिकां च वाचमिति नैरुक्ता यमं च यमी च चेत्यैतिहासिका स्तत्रेतिहासमाचक्षते त्वाष्ट्री सरण्यूर्विवस्वत आदित्याद्यमौ मिथुनौ जनयांचकार सा सवर्णामन्यां प्रतिनिधायाश्वं रूपं कृत्वा प्रदु द्राव स विवस्वानादित्य आश्वमेव रूपं कृत्वा तामनुसृत्य संबभूव ततोऽश्विनौ जज्ञाते सवर्णायां मनुस्तदभिवादिन्येषर्ग्भवति ॥ १० ॥
त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति । यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश (ऋ. सं. १०-१७-१) ॥ त्वष्टा दुहितुर्वहनं करोतीतीदं विश्वं भुवनं समेतीमानि च सर्वाणि भूतान्यभिसमागच्छंति यमस्य माता पर्युह्यमाना महतो जाया विवस्वतो ननाश रात्रिरादित्यस्यादित्यो दयेऽंतर्धीयते ॥ ११ ॥
सविता व्याख्यातस्तस्य कालो यदा द्यौरपहततमस्क् कीर्णरश्मिर्भवति तस्यैषा भवति ॥ १२ ॥
विश्वा रूपाणि प्रतिमुंचते कविः प्रासावीद्भद्रे द्विपदे चतुष्पदे । विनाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति (ऋ. सं. ५-८१-२) सर्वाणि प्रज्ञानानि प्रतिमुंचते मेधावी कविः क्रांतदर्शनो भवति कवतेर्वा प्रसुवति भद्रे द्विपाद्भ्यश्च चतुष्पाद्भ्यश्च व्यचिख्यापयन्नाकं सविता वरणीयः प्रयाणमनूषसो विराजत्यधोरामः सावित्र इति पशुसमाम्नाये विज्ञायते कस्मात्सामान्यदित्यधस्तात्तद्वेलायां तमो भवत्येतस्मात्सामान्यादधस्ताद्रामोऽधस्तात् कृष्ण तस्मात्सामानादित्यग्निं चित्वा न रामामुपेयद्रामा रमणायोपेयते न धर्माय कृष्णजातीयैतस्मात्सामान्यात् कृकवाकुः सावित्र इति पशुसमाम्नाये विज्ञायते कस्मात्सामान्यदिति कालानुवाद परीत्य कृकवाकोः पूर्वं शब्दानुकरणं वचेरुत्तरपदं भगो व्याख्यातस्तस्य कालः प्रागुत्सर्पणात्तस्यैषा भवति ॥ १३ ॥
प्रातर्जितं भगमुग्रं हुमेव वयं पुत्रमदितेर्यो विधर्ता । आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्य भगं भक्षीत्याह (ऋ. सं. ७-४१-२) ॥ प्रातर्जितं भगमुग्रं ह्वयेम वयं पुत्रमदतेर्यो विधारयिता सर्वस्याध्रश्चिद्यं मन्यमान आढ्यालुरिद्रस्तुरश्चित्तुर इति यमनाम तरतेर्वा त्वरतेर्वा त्वरया तूर्णगतिर्यमो राजा चिद्यं भगं भक्षीत्याहांदो भग इत्याहुरनुत्सृप्तो न दृश्यते प्राशित्रमस्याक्षिणे निर्जघानेति च ब्राह्मणं जनं भगो गच्छतीति वाजनं गच्छत्यादित्य उदयेन सूर्य सर्तेर्वा सुवतेर्पा स्वीर्यतेर्वा तस्मैषा भवति ॥ १४ ॥
उदु त्यं जातवेदसं देवं वहंति केतवः । दृशे विश्वाय सूर्यम् (ऋ. सं. १-५०-१) ॥ उद्वहंति तं जातवेदसं रश्मयः केतवः सर्वेषां भूतानां दर्शनाय सूर्यमिति तस्मैषापरा भवति ॥ १५ ॥
चित्रं देवानामुदगाननीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आ प्राद्यावापृथिवी अंतरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च । (ऋ. सं. १-११५-१) ॥ चायनीयं देवानामुदगपदनीशं ख्यानं मित्रस्य वरुणस्याग्नेश्चापूपुरद् द्यावापृथिव्यौ चांतरिक्षंच महत्त्वेन तेन सूर्य आत्मा जंगमस्य च स्थावरस्य चाथयद्रश्मिपोषं पुष्यति तत्पूषा तस्मैषा भवति ॥ १६ ॥
शुक्रं ते अन्यद्यजतं ते अन्यद्विपुरूषे अहनीद्यौरिवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु (ऋ. सं. ६-५८-१) ॥ शुक्रं ते अन्यल्लोहितं ते अन्यद्यजतं ते अन्यद्यज्ञियं ते अन्यद्विषमरूपे ते अहनीकर्म द्यौरिव चासि सर्वाणि प्रज्ञानान्यवस्यन्नवन् भाजनवती ते पूषन्निह रातिरस्तु तस्मैषापरा भवति ॥ १७ ॥
पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्यानळर्कं । स नो रासच्छुरुधश्चंद्राग्रा धियंधियं सीषधाति प्रपूषा (ऋ. सं. ६-४९-८) ॥ पथस्पथोऽधिपतिं वचनेन कामेन कृतोऽभ्यानडर्कम् अभ्यापन्नोऽर्कमिति वा स नो ददातु चायनीयाग्राणि धनानि कर्म कर्म च नः प्रसाधयतु पूषेत्यथयद्विषतो भवति तद्विष्णुर्भवति विष्णुर्विशतेर्वा र्व्यश्नोतेर्वा तस्मैषा भवति ॥ १८ ॥
इदं विष्णर्विचक्रमे तेधा नि दधे पदं । समूळ्हमस्य पांसुरे (ऋ.सं १-२२-१७) ॥ यदिदं किंच तद्विक्रमते विष्णुस्त्रिधा निधत्ते पदं पृथिव्यामंतरिक्षे दिवीतिशाकपूणिः समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः समूळ्हमस्य पांसुरेप्यायनेऽंतरिक्षे पदं न दृश्यतेऽवोपमार्थे स्यात्तमूळ्हमस्य पांसुल इव पदं न दृश्यत इति पांसवः पादैः सूयंत इति वा पन्नाः शेरत इति वा पिंशनीया भवंतीति वा ॥ १९ ॥
विश्वानरो व्याख्यातस्तस्यैष निगमो भवत्यैंद्र्यामृचि ॥ २० ॥
विश्वानरस्य वनस्पतिमनानतस्य शवसः । एवैश्च चर्षणीनामूती हुवे रथानाम् । (ऋ. सं. ८-६८-४) ॥ विश्वानरस्यानानतस्य शवसो महतो बलस्यैवैश्च कामैरयनरवनैर्वा चर्षणीनां मनुष्याणा मूत्या च पथा रथानामिंद्र मस्मिन्यज्ञे ह्वयामि वरुणो व्याख्यात स्तस्शैषा भवति ॥
येना पावक चक्षसा भुरण्यंतं जना अनु । त्वं वरुण पश्यसि (ऋ. सं. १-५०-६) ॥ भुरण्युरिति क्षिप्रनाम भुरण्युः शकुनिर्भूरिमध्वानं नयति स्वर्गस्य लोकस्यापि वोळ्हा तत्संपाति भुरण्युरनेन पावकख्यानेन । भुरण्यं तं जना अनु । त्वं वरुण पश्यसि । तत्ते वयं स्तुम इति वाक्यशेषोपि वोत्तरस्याम् ॥ २२ ॥
येना पावक चक्षसा भुरण्यंतं जनां अनु । त्वं जनां अनु त्वं वरुण पश्यसि (ऋ. सं. १-५०-६) ॥ विद्यामेषि रजस्पृथ्वहा । मिमानो अक्तुभिः । पश्शन् जन्मानि सूर्य (ऋ. सं. १-५०-७) ॥ व्येषि द्यां रजश्च पृथु महांतं लोकमहानि च मिमानो अक्तुभी रात्रिभिः सह पश्शन् जन्मानि जातानि सूर्यपि वा पूर्वस्याम् ॥ २३ ॥
येना पावक चक्षसा भुरण्यंतं जना अनु । वरुण पश्यसि (ऋ. सं. १-५०-६) ॥ प्रत्यङ् देवानां विशः प्रत्यङ्ङिदेषि मानुषान् । प्रत्यङ् विश्व स्वर्दृशे (ऋ. सं. १-५०-५) प्रत्यङ्ङिदं सर्वमदेषि ज्योतिरुच्यते प्रत्यङ्ङिदं सर्वमभिपश्यसीत्यपि वैतस्यामेव ॥ २४ ॥
येना पावक चक्षसा भुरण्यंतं जना अनु । त्वं वरुण पश्यसि तेन नो जनानभिविपश्यति केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद्वा तस्शैषा भवति ॥ २५ ॥
केश्यग्निं केशी विषं केशी बिभर्ति रोदसी । केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते (ऋ. सं. १०-१३६-१) ॥ केश्यग्निं च विषंच विषमित्युदकनाम विष्णातेर्विपूर्वस्य स्नातेः शुद्ध्यर्थस्य विपूर्वस्य वा सचतेर्द्यावापृथिव्यौ च धारयति केशीदं सर्वमभि विपश्यति केशीदं ज्योतिरुच्यत इत्यादित्यमाहाथाप्येते इतरे ज्योतिषी केशिनी उच्येते धूमेनाग्नी रजसा च मध्यमस्तेषामेषा साधारणा भवति ॥
त्रय केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषां ॥ विश्वमेकोअभि चष्टे शचीभिर्ध्राजि रेकस्य ददृशे न रूपम् (ऋ. सं. १-१६४-४४) ॥ त्रयः केशिन ऋतुथा विचक्षते काले कालेऽभिविपश्यंति संवत्सरे वपत एक एषामित्यग्निः पृथिवीं दहति सर्वमेकोऽभिविपश्यति कर्मभिरादित्यो गतिरेकस्य दृश्यते न रूपं मध्यमस्याथ यद्रश्मिभिरभिप्रकंपयन्नेति तद्वृषाकपिर्भवति वृषाकंपनस्तस्यैषा भवति ॥ २७ ॥
पुनरेहि वृषाकपे सुविता कल्पयावहै । य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिंद्र उत्तरः (ऋ. सं. १०-८६-२१) ॥ पुनरेहि वृषाकपे सुप्रसूतानि वः कर्माणि कल्पयावहै य एष स्वप्ननंशनः स्वप्नान्नाशयस्यादित्य उदयेन सोऽस्तमेषि पथा पुनः सर्वस्माद्य इंद्र उत्तरस्तमेतद् ब्रूम आदित्यं यमो व्याख्यातस्तस्यैषा भवति ॥ २८ ॥
यस्मिन् वृक्षे सुपलाशे देवैः संपिबते यमः । अत्रा नो विष्पतिः पिता पुराणा अनु वेनति (ऋ. सं. १०-१३५-१) ॥ यस्मिन् वृक्षे सुपलाशे स्थाने वृतक्षये वापि वोपमार्थे स्याद्वृक्ष इव सुपलाश इति वृक्षो व्रश्चनात्पलाशं पलाशनाद्देवैः संगच्छते यमो रश्मिभिरादित्यस्तत्र नः सर्वस्य पाता वा पालयिता वा पुराणाननुकामयेताज एक पादजन एकः पाद एकेन पादेन पातीति वैकेन पादेन पिबतीति वैकोऽस्य पाद इति वा । एकं पादं नोत्खिनतीत्यपि निगमो भवति तस्यैष निपातो भवति वैश्वदेव्यामृचि ॥ २९ ॥
पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिंधुरापः समुद्रियः । विश्वे देवासः शृणवन्वचांसि मे सरस्वती सह धीभिः पुरंध्या (ऋ. सं. १०-६५-१३) ॥ पविः शल्यो भवति यद्विपुनाति कायं तद्वत्पवीर मायुधं तद्वानिंद्रः पवीरवान् । अतितस्थौ पवीरवानित्यपि निगमो भवति । तद्देवता वाक्पावीरवी पावीरवी च दिव्या वाक्तन्यशुस्तनित्री वाचोऽन्यस्या अजश्चैकपाद्दिवो धारयिता च सिंधुश्चापश्च समुद्रियाश्च सर्वे च देवाः सरस्वती च सह पुरंध्या स्तुत्ता प्रयुक्तानि धीभिः कर्मभिर्युक्तानि शृण्वंतु वचनानीमानीरि पृथिवी व्याख्याता तस्या एष निपातो भवत्यैंद्र्याग्न्यामृचि ॥ ३० ॥
यदिंद्राग्नी परमस्यां पृथिम्यं मध्यमस्यामवमस्यामुतस्थः । अतः परि वृषणा वा हि यातमधा सोमस्य पिबतं सुतस्य (ऋ. सं. १-०१८-१०) ॥ इति सा निगदव्याख्यातासमुद्रो व्याख्यातस्तस्यैष निपातो भवति पावमान्यमृचि ॥ ३१ ॥
पवित्रवंतः परि वाचमासते पितैषां प्रत्नो अभिरक्षति व्रतं । महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम् (ऋ. सं. ९-७३-३) ॥ पवित्रवंतो रश्मिवंतो माध्यमिका वहदेणाः पर्यासते माध्यमिकां वाचं पितैषां प्रश्नः पुराणोऽभिरक्षति व्रतं कर्म महः समुद्रं वरुणस्तिरोऽंतर्दधात्यथ धीराः शक्नुवंति धरुणे षूदकेषु कर्मण आरंभमारब्धु मजएकपाद्व्याख्यातः पधिवी व्याख्याता समुद्रो व्याख्यातस्तेषामेष् निपातो भवत्यपरस्यां बहुदेवतायामृचि ॥ ३२ ॥
उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः । विश्वे देवा ऋतावृधो हुवानाः स्तुता मंत्राः कविशस्ता अवंतु (ऋ. स ६-५०-१४) ॥ अपि च नोऽहिर्बुध्न्यः शृणोत्वजश्चैकपात् पृथिवी च देवाः सत्यवृधो वा यज्ञवृधो वा हूयमाना मंत्रैः स्तुता मंत्राः कविशस्ता अवंतु मेधाविशस्ता दधङ् प्रत्यक्तो ध्यानमिति वा प्रत्यक्त मस्मिन्न ध्यानमिति वार्थर्वा व्याख्यातो मनुर्मननात्तेषामेष निपातो भवत्यैंद्र्यामृचि ॥ ३३ ॥
यामथर्वा मनुष्पिता दध्यङ् धियमत्नत । तस्मिन् ब्रह्माणि पूर्वथेंद्र उक्था समग्मतार्चन्ननु स्वराज्यम् (ऋ. सं. १-५-३१) ॥ यामथर्वा च मनुश्च पिता मानवानां दध्यङ् च धियमतनिषत तस्मिन् ब्रह्माणि कर्माणि पूर्वेंद्रउक्थानि च संगच्छंतामर्चन्योनू पास्ते स्वाराज्यम् ॥ ३४ ॥
अथातो द्युस्थाना देवगणास्तेषामादित्याः प्रथमागामिनो भवंत्यादित्या व्याख्यातास्तेषामेषा भवति ॥ ३५ ॥
इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः (ऋ. सं. २-२७-१) ॥ घृतस्नूर्घृतप्रस्नाविन्यो घृतप्रस्राविण्यो घृतसानिन्यो घृतसारिण्य इति वाहुतीरादित्येभ्यश्चिरं जुह्वा जुहोमि चिरं राजभ्य इति वा शृणोतुन इमा गिरो मित्रश्चार्यमा च भगश्च बहुजातश्च धाता दक्षोवरुणोंशश्चांशोंशुना व्याख्यातः सप्त ऋषयो व्याख्या तास्तेषामेषा भवति ॥ ३६ ॥
सप्त ऋषयः प्रतिहिताः तरीरे सप्त रक्षंति सदमप्रमादं । सप्तापः स्वपतो लोकमीयुस्तत्र जागृतो अस्वप्नजौ सत्रसदौ च देवौ (वा. सं. २४-५५) सप्त ऋषयः प्रतिहिताः शरीरे रश्मय आदित्ये सप्त रक्षंति सदमप्रमादं संवत्सरमप्रमाद्यंतः सप्तापनास्त एव स्वपतो लोकमस्तमितमादित्यं यंति तत्र जागृतोऽस्वप्नजौ सत्रसदौ च देवौ वाय्वादित्यावित्यधिदैवतमथाध्यात्मं सप्त ऋषयः प्रतिहिताः शरीरे षडिंद्रियाणि विद्यासप्तम्यात्मनि सप्त रक्षंति सदमप्रमादं शरीरमप्रमाद्यंति सप्तापनानीमान्येव स्वपतो लोकमस्तमितमात्मानं यंति तत्र जागृतोऽस्वप्नजौ सत्रसदौ च देवौ प्राज्ञश्चात्मा तैजसश्चेत्यात्मगतिचष्टे तेषामेषापरा भवति ॥ ३७ ॥
तिर्यग्बिलश्चमस ऊर्ध्वबुध्नो यस्मिन्यशो निहितं विश्वरूपं ॥ अत्रासत ऋषयः सप्त साकं ये अस्य गोपामहतो बभावुः (अथ सं . १०-८-९) तिर्यग्बिलश्चमस ऊर्ध्वबंधन ऊध्वबॊधनो वा यस्मिन्यशो निहितं सर्वरूपमत्रासत ऋषयः सप्त सहादित्यरश्मियो ये अस्य गोपामहतो बभूवुरित्यधिदैवतमथाध्यात्मं तिर्यग्बिलश्चमस ऊर्ध्वबंधन ऊर्ध्वबोधनो वा यस्मिन्यशो निहितं सर्वरूपमत्रासत ऋषयः सप्त सहेंद्रियाणि यान्यस्य गोप्त्यणि महतो बभूवुरित्यात्मगतिमाचष्टे देवा व्याख्यातास्तेषामेषा भवति ॥ ३८ ॥
देवानां भध्रासुमतिर्ऋजूयतां देवानां रातिरभिनो निवर्ततां ॥ देवानां सख्वमुपसेदिमा वयं देवा न आयुः प्रतिरंतु जीवसे (ऋ.सं.१-८९-२) ॥ देवानां वयं कल्याण्यां मतावृजुगामिनामिति वा देवानां दानमभिनो निवर्ततां देवानां सख्यमुपसीदेम वयं देवा न आयुः प्रवर्धयंतु जीवनाय विश्वे देवाः सर्वे दॆवास्तेषामेषा भवति ॥ ३९ ॥
ओमासश्चर्षणी धृतो विश्वे देवास आगत । दाश्वांसो दाशुषः सुतम् (ऋ. सं. १-३-७) अवितारो वावनीया वा मनुष्यधृतः सर्वे च देवाः इहा गच्छत दत्तवंतो दत्तवतः सुतमिति तदेतदेक मेव वैश्व देवं गायत्रं तृचं दशतयीषु विद्यते यत्तु किंचिद्बहुदैवतं तद्वैशदेवानां स्थाने युज्यते यदेव विश्वलिंगमिति शाकपूणि रन त्यंतगतस्त्वेष उद्देशो भवति बभ्रुरेक इति दश द्विपदा अलिंगाः ॥ (ऋ. सं. ८-२९) भूतांशः काश्यप आश्विनमेकलिंगमभितषीयं सूक्त मेकलिंगं साध्या देवाः साधनात्तेषामेषा भवति ॥ ४० ॥
यज्ञेन यज्ञमयजंत देवस्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवाः (ऋ. सं. १-१६४-५० ॥ १०-९०-१६) यज्ञेन यज्ञमयजंत देवा अग्निनाग्निमय जंत देवा अग्निः पशुरासीत्तमालभंत तेनायजंतेति च ब्राह्मणं तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः समसेवंत यत्र पूर्वे साध्याः संति देवाः साधनाद् द्युस्थानो देवगण इति नैरुक्ताः पूर्वं देवयुगमित्याख्यानं वसवो यद्विवसते सर्वमग्निर्व सुभिर्वासव इति समाख्या तस्मान्मध्यस्थाना वसव आदित्य रश्मयो विवासनात्तस्माद् द्युस्थानास्तेषामेषा भवति ॥ ४१ ॥
सुगावो देवाः सुपथा अकर्म य आजग्मुः सवनमिदं जुषाणाः । जक्षिवांसश्चः पपिवांसश्च विश्वेऽस्मेधत्त वसवो वसूनि ॥ स्वागम नानि वो देवाः सुपथान्यकर्म य आगच्छत सवनानीमानि जुषाणाः खादितवंतः पीतवंतश्च सर्वेऽस्मास धत्त वसवो वसूनि तेषा मेषापरा भवति ॥ ४२ ॥
ज्मया अत्र वसवो रंत देवा उरावंतरिक्षे मर्जयंत शुभ्राः । अर्वाक्पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य (ऋ. सं. ७-३९-३) ॥ ज्मया अत्र वसवोऽरमंत देवा ज्मा पृथिवी तस्यां भवा उता चांतरिक्षे मर्जयंत गमयंत शुभ्राः शोभ माना अर्वाच एनान्वथो बहुजवाः कुरुध्वं शृणुत दूतस्य जग्मुषो नोऽस्याग्नेर्वाजिनो व्याख्यातास्तेषामेषा भवति ॥ ४३ ॥
शं नो भवंतु वाजिनो हवेषु देवताता मितद्रवः । जंभ यंतोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः (ऋ-सं-७-३८-७) सुखा नो भवंतु वाजिनो ह्वानेषु देवतातौ यज्ञे मितद्रवः स्वर्काः स्वंचनाः इति वा स्वर्चना इति वा स्वर्चिष इति वा जंभयंतो हिं च वृकं च रक्षांसि च क्षिप्रमस्मद्यावयंत्वमीवा देवाश्चा इति वा देवपत्न्यो देवानां पत्न्यस्तासामेषा भवति ॥ ४४ ॥
देवानां पत्नीरुशतीरवंतु नः प्रावंतु नस्तुजये वाजसातये । याः पार्थिवासो या अपामपि व्रते तानो देवीः सहवाः शर्म यच्छत । (ऋ. सं. ५-४६-७) ॥ देवानां पत्न्य उशत्योऽवंतु नः प्रावंतु नस्तुजयेऽपत्यजननाय चान्नसंसननाय च याः पार्थिवासो या अपामसि व्रते कर्मणि ता नो देव्यः सुहवाः शर्म यच्छंतु शरणं तासामेषापरा भवति ॥ ४५ ॥
उत ग्ना व्यंतु देवपत्नीरिंद्राण्य १ ग्नाय्यश्विनी राट् । आरोदसि वरुणानी शृणोतु व्यंतु देवीर्य ऋतुर्जनीनाम् (ऋ. सं. ५-४५-८) अपि चग्ना व्यंतु देवपत्न्य इंद्राणींद्रस्य पत्न्य ग्नाय्यग्नेः पत्न्यश्विन्यश्विनोः पत्नी राड्राजते रोदसी रुद्रस्य पत्नी वरुणानी च वरुणस्य पत्नी व्यंतु देव्यः कामयंतां य ऋतुः कालो जायानां य ऋतुः कालो जायानां य ऋतुः कालो जायानाम् ॥ ४६ ॥
ओं अथेमा अतिस्तुतय इत्याचक्षतेऽपि वा संप्रत्यय एव स्यान्माहाभाग्याद्देवतायाः सोऽग्नीमेव प्रथममाह त्वमग्ने द्युभिस्त्वमाशुशुक्षणिरिति यथैतस्मिन् त्सूक्ते न हि त्वदारे निमिषश्चनेश इति वरुणस्याथैषेंद्रस्य ॥ १ ॥
यद् द्याव इंद्र ते शतं शतं भूमीरुत स्युः । न त्वा वज्रिन् त्सहस्रं सूर्य अनु न जातमष्ट रोदसी (ऋ. सं. ८-७०-५) यदि त इंद्र शतं दिवः शतं भूमयः प्रतिमानानि स्युर्न त्वा वज्रिन् त्सहस्रामपि सूर्यान द्यावापृथिव्यावप्यभ्यश्नुवीतामित्यथैषादित्यस्य ॥ २ ॥
यदुदंचो वृषाकपे गृहमिंद्रा जगंतन । क्वस्य पुल्वघो मृगः कममंजनयोषनो शिश्सस्मादिंद्र उत्तरः (ऋ. सं. १०-८६-२२) यदुदंचो वृषाकपे गृहमिंद्रा जगमत क्व स्य पुल्वघो मृगः क्व स बह्वादी मृगो मृगो मार्ष्टेर्गतिकर्मणः कमगमद्देशं जनयोपनः सर्वस्माद्य इंद्र उत्तरस्तमेतद् ब्रूम आदित्यमथैषादित्य रश्मीनाम् ॥ ३ ॥
वि हि सेतोरसृक्षत नेंद्रं देवममंसत । यत्रामदद्वृषा कपिरर्यपुष्टेषु मत्सखा विश्वस्माविंद्र उत्तरः । (ऋ. सं. १०-८६-१) ॥ व्यसक्षत हि प्रसवाय न चेंद्रं देवममद् वसत यत्रामाद्यद् वृषाकपिरर्य ईश्वरः पुष्टेषु पोषेषु मत्सखा मम सखा मदनसखा ये नः सखायस्तैः सहेति वा सर्वस्माद्य इंद्र उत्तरस्तमेतद् ब्रूम आदित्यमथैषाश्विनोः ॥ ४ ॥
सृण्यीव जर्भरी तुर्फरीतु नृतोशेव तुर्फरी पर्फरीका । उदन्यजेव जेमना मदेरू ता मे जराय्वजरं मरायु (ऋ. सं. १०-१०६-६) ॥ सृण्यीवेति द्विविधा सृणिर्भवति भर्ता च हंता च तथाश्विनौ चापि भर्तारौ जर्भरी भर्तारावित्यर्थस्तुर्फरीतू हंतारौ । नैतोतेव तुर्फरी पर्फरीका । नितोशस्वापत्यं नैतूशं नैतोशेवक्षिप्रहंतारौ । उद्यनजेव जेमना मदेरू । उदन्यजेवेत्युदकजे इव ठत्ने सामुद्रे चांद्रमसे वा जेमने जेमना मदेरू । ता मे जराय्वजरं मरायु । एतज्जरायुजं शरीरं शरमजीर्णमथैषा सोमस्य ॥ ५ ॥
तरत्स मंदी धावति धारा सुतस्यांधसः । तरत्समंदी धावति । (ऋ. सं. ९-५८-१) ॥ तरति स पापं सर्वं मंदी यः स्तौति धावति गच्छत्यूर्ध्वांगतिं । धारा सुतस्यांधसः । धारयाभिषुतस्य सोमस्य मंत्र पूतस्य वाचा स्तुतस्याथैषा यज्ञस्य ॥ ६ ॥
चत्वारि शृंगा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आ विवेश (ऋ. सं. ४-५८-३) ॥ चत्वारि शृंगेति वेद वा एत उक्तास्त्रयोऽस्य पादा इति सवनानि त्रीणि द्वे शीर्षे प्रायणीयोदयनीये सप्त हस्तासः सप्त च्छंदांसि त्रिधा बद्धस्त्रेधा बद्धो मंत्र ब्राह्मणक्पैर्वृषभो रोरवीति रोरवणमस्य सवनक्रमेण ऋग्भिर्यजुर्भिः सामभिर्यदेनमृग्भिः शंसंति यजुभिर्यजंति सामभिस्तुवंति महो देव इत्येष हि महान्देवो यद्यज्ञो मर्त्यां आ विवेशेत्येष हि मनुष्यानाविशति यजनाय तस्योत्तरा भूयसे निर्वचनाय ॥ ७ ॥
स्वर्यंतो नापीक्षंत आ द्यां रोहंति रोदसी । यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥ स्वर्गच्छंत ईजाना ना नेक्षंते तेऽमुमेव लोकं गतवंत ईक्षंत इति । आ द्यां रोहंति रोदसी । यज्ञं ये विश्वतोधारं सर्वतोधारं सुविद्वांसो वितेनिर इत्यथैषा वाचः प्रवळ्हितेव ॥ ८ ॥
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेंगयंति तुरीयं वाचो मनुष्या वदंति (ऋ. सं. १-१६४-४५) ॥ चत्वारि वाचः परिमितानि पदानि तानि विदुर्ब्राह्मणा ये मेधाविनो गुहायां त्रीणि निहितानि नार्थं वेदयंते गुहा गूहतेस्तुरीयं त्वरतेः कतमानि तानि चत्वारि पादान्योंकारो महाव्याहृतयश्चेत्यार्षं नामाख्याने चोपसर्गनिपाताश्चेति वैयाकरणा मंत्रः कल्पो ब्राह्मणं चतुर्थी व्यावहारिकीति याज्ञिका ऋचो यजूंषि सामानि चतुर्थी व्यावहारिकीति नैरुक्ताः सर्पाणां वाग्वयसां क्षुद्रस्य सरीसृपस्य चतुर्थी व्यावहारिकीत्येके पशुषु तूणवेषु मृगेष्वात्मनि चेत्यात्मप्रवादा अथापि ब्राह्मणं भवति -सा वै वाक् सृष्टा चतुर्धा व्यभवदेष्टेव लोकेषु त्रीणि पशुषु तुरीयं या पृथिव्यां साग्नौ सा रथंतरे यांतरिक्षे सा वामदेव्ये या दिवि सादित्ये सा बृहति सा स्तनयित्नावथ पशुषु ततो या वागत्यरि च्यत तां ब्राह्मणे न्यदधुस्तस्माद्ब्राह्मणा उभयीं वाचं वदंति या च देवानां या च मनुष्याणाम् (मै. सं. १-११-५) इत्यथैषाक्षरस्य ॥ ९ ॥
ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥ (ऋ. सं. १-१६४-३९) ॥ ऋचो अक्षरे परमे व्यवने यस्मिन्देवा अधिनिषण्माः सर्वे यस्तन्न वेद किं स ऋचा करिष्यति य इत्तद्विदुस्त इमे समासत इति विदुष उपदिशति कतमत्तदेवदक्षरमो ३ मित्येषा वागिति शाकपूणिर्ऋचश्चह्यक्षरे परमे व्यवने धीयंते नानादेवतेष च मंत्रेष्वेतद्ध वा एतदक्षरं यत्सर्वां त्रयीं विद्यां प्रति प्रतीति च ब्राह्मणम् (कौषी - ब्रा-६-१२) ॥ १० ॥
आदित्य इति पुत्रः शाकपूर्णेरेषर्ग्भवति यदेनमर्चंति प्रत्यृचः सर्वाणि भूतानि तस्य यदन्यन्मात्रेभ्यस्तदक्षरं भवशि रश्मयोऽत्र देवा उच्यंते य एतस्मिन्नधिनिषण्णा इत्यधिदैवत मथाध्यात्मं शरीरमत्र ऋगुच्यते यदेनेनार्चंति प्रत्यृचः सर्वाणेंद्रियाणि तस्य यदविनाशिधर्म तदक्षरं भवतींद्रियाण्यत्र देवा उच्यंते यान्यस्मिन्मात्मन्येकं भवंतीत्यात्मप्रवादाः ॥ ११ ॥
अक्षरं न क्षरति न क्षीयते वाक्षयू भवति वाचोऽक्ष इति वाक्षो यानस्यांजनात् प्रकृतीतंद्वर्तन सामादित्ययं मंत्रार्थचिंताभ्यूहोऽभ्यूथोपि श्रुतितोऽपि तर्कतो न तु पृथक्त्वेन मंत्रा निर्वक्तव्याः प्रकरणश एव तु निर्वक्तव्या न ह्येषु प्रत्यक्षमस्त्यनृषेरतपसो वा पारोवर्यवित्सु तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवतीत्युक्तं पुरस्तान्मनुष्या वा ऋषिषूत्क्रामत्सु देवानब्रुवन्को न ऋषिर्भविष्यतीति तेभ्य एतं तर्कमृषिं प्रायच्छन्मंत्रार्थ चिंताभ्यूहं तस्माद्यदेवं किंचानूचानोऽभ्यूहत्यार्षं तद्भवति ॥ १२ ॥
हृदा तष्टेषु मनसो जवेषु यद्ब्राह्मणाः संयजंते सखायः । अत्राह त्वं विजहुर्वेद्याभिरोह ब्रह्माणो वि चरंत्यु त्वे (ऋ. सं. १०-७१-८) ॥ हृदातष्टेषु मनसां प्रजवेषु यद्ब्राह्मणाः संयजंते समानख्याना ऋत्विजोऽत्राह त्वं विजहुर्वेदाभिर्वेदितव्याभिः प्रवृत्तिभिरोहब्रह्माण ऊह एषां ब्रह्मेति वा सेयं विद्या श्रुतिमति बुद्धिस्तस्यास्तपसा पारमीप्सितव्यं तदिदमायुरिचृता न निर्वक्तव्यं तस्मा च्छंदः सु शेषा उपेक्षितव्या अथागमो यां यां देवतां निराह तस्यास्तस्यास्ताद्भाव्य मनुभवत्यनुभवति ॥ १३ ॥
ओं व्याख्यातं दैवतं यज्ञांगं चाढात ऊर्ध्वमार्गगतिं व्याख्यास्यामः सूर्य आत्मेत्युदितस्य हि कर्मदृष्टाथैतदनुप्रवदत्यथैतं महांतमात्मानमेषर्ग्गणः प्रवदतींद्रं मित्रं वरुणमग्नि माहुरित्यथैष महानात्मात्म जिज्ञासयात्मानं प्रोवाचाग्निरस्मि जन्मना जातवेदा अहमस्मि प्रथमजा इत्येताभ्यां ॥ १ ॥
अग्नरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् । अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम (ऋ. नं. ३-२६-७) ॥ अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम । यो मा ददाति स इदेव मावदहमन्न मन्नमदंतमद्मि ॥ इति सहज्ञाता प्रादुर्बभूवैवं तं व्याजहारायं तमात्मान मध्यात्मजमंतिकमन्मस्या या चचक्षेति ॥ २ ॥
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरंतं । स सध्रीचीः सविषूचीर्वसान आवरीवर्ति भुवनेष्टंतः (ऋ. सं. १-१६४-३१) ॥ आवरीवर्ति भुवनेष्वंतरित्यथैष महानात्मा सत्वलक्षस्तत्परं तद्ब्रह्म तत्सत्यं तत्सलिलं तदव्यक्तं तदस्पर्शं तदरूपं तदरसं तदगंधं तदमृतं तच्छुक्लं तन्निष्ठो भूतात्मा सैषा भूतप्रकृतिरित्येके तत् क्षेत्रं तत् ज्ञानात् क्षेत्रज्ञमनुप्राप्य निरात्मकमथैष महानात्मा त्रिविधो भवति सत्वं रजस्तम इति सत्वं तु मध्ये विशुद्धं तिष्ठत्यभितो रजस्तमसी रज इति कामद्वेषस्तम इत्यविज्ञातस्य विशुध्यतो विभूतिं कुर्वतः क्षेत्रज्ञ पृथक्त्वाय कल्पते प्रतिभातिलिंगे महानात्मा तमोलिंगो विद्याप्रकाशलिंगस्तमोऽपि निश्चयलिंग आकाशः ॥ ३ ॥
आकाशगुणः शब्द आकाशाद्वायुर्द्विगुणः स्पर्शेन वायोर्ज्योति स्त्रिगुणं रूपेण ज्योतिष आपश्चतुर्गुणा रसेनाद्भ्यः पृथवी पंचगुणा गंधेन पृथिव्या भूतग्राम स्थावरजंगमा स्तदेतदहर्युगसहस्रं जागर्ति तस्यांते सुषुप्स्यन्नंगानि प्रत्याहरति भूतग्रामाः पृथिवीमपियंति पृथिव्यप आपो ज्योतिषं ज्योतिर्वायुं वायुराकाशमाकाशो मनो मनो विद्यां विद्या महांतमात्मानं महानात्मा प्रतिभां प्रतिभा प्रकृतिं सा स्वपिति युगसहस्रं रात्रिस्तावेतावहोरत्रावजस्रं परिवर्तेते स कालस्तदेतदहर्भवति युगसहस्रपर्यं तमहर्यद्भ्रह्मणो विदू रात्रिं युगसहस्रांतां तेऽहोरात्रविदो जना इति ॥ ४ ॥
तं परिवर्तमन्योऽनुप्रर्तते स्रष्टा द्रष्टा विभक्तातिमात्रोऽहमिति गम्यते स मिथ्यादर्शनेदं पावकं महाभूतेषु चिरोण्वाकाशाद्वायोः प्राणश्चक्षुश्च वक्तारं च तेजसोद्भ्यं स्नेहं पृथिव्या मूर्तिः पार्थिवांस्त्वष्टौ गुणान् विद्यात्त्रीन् मातृतस्त्रीन् पितृतोऽस्थिस्नायुमज्जानः पितृतस्त्वङ्मांसशोणितानि मातृतोन्नं पानमित्यष्टौ सोऽयं पुरुषः सर्वमयः सर्वज्ञानोपि कृप्तः ॥ ५ ॥
स यद्यनुरुध्यते तद्भवति यदि धर्मोऽनुरुध्यते तद्देवो भवति यदि ज्ञानमनुरुध्यते तदमृतो भवति यदि काममनुरुध्यते संच्यवत इमां योनिं संदध्यात्तदिदमत्र मतं श्लेष्मा रेतसः संभवति श्लेष्मणो रसो रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसः स्नावा स्नावोऽस्थीन्यस्थिभ्यो मज्जा मज्जातो रेतस्तदिदं योनौ रेतः सिक्तं पुरुषः संभवति शुक्रातिरेके पुमान् भवति शोणितानि रेके स्त्रि भवति द्वाभ्यां समेन नपुंसको भवति शुक्रेण बिन्नेन यमो भवति शुक्रशोणितसंयोगा न्मातृपितृसंयोगाच्च तत्कथमिदं शरीरं परं संयम्यते सौम्यो भवत्येकरात्रोषितं कललं भवति पंचरात्राद्बुद्बुदाः सप्तरात्रात्पेशी द्विसप्तरात्रादर्बुदः पंचविंशतिरात्रः स्वस्थितो घनो भवति मासमात्रात्कठिणो भवति द्विमासाभ्यंतरे शिरः संपद्यते मासत्रयेण ग्रीवाव्यादेशो मासचतुष्केण त्वग्व्यादेशः पंचमे मासे नखरोमव्यादेशः षष्ठे मुखनासिकाक्षि श्रोत्रं च संभवति सप्तमे चलनसमर्थॊ भवत्यष्चमे बुद्धाध्यवस्यति नवमे सर्वांगसंपूर्णो भवति । मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः । नानायोनि सहस्राणि मयोषितानि यानि वै । आहारा विवधा भुक्ताः पीता नानाविधाः स्तनाः । मातरो विविधाः दृष्टाः पितरः सुहृदस्तथा । अवाङ्मुखः पीड्यमानो जंतुश्चैव समन्वितः । सांख्यं योगं समभ्यस्येत्पुरुषं वा पंचविंशकमिति ततश्च दशमे मासे प्रजायते जातश्च वायुना स्पृष्टोन स्मरति जन्ममरणेंते च शुभाशुभं कर्मैतच्छरीरस्य प्रामाण्यम् ॥ ६ ॥
अष्टोत्तर संधिशतमष्टाकपालं शिरः संपद्यते षोडश वपापलानि नवस्नायुशतानि सप्तशतं पुरुषस्यवर्मणा मर्ध चतस्रो रोमाणि कोट्यो हृदयं ह्यष्टकपालानि जिह्वा वृषणौ ह्यष्टसुवर्णौ तथोपस्थगुदपाय्वेतन्मूत्रपुरीषं तस्मादाहारपानसिक्तत्वादनुपचितकर्माणावन्योन्यं जायते इति तं विद्याकर्मणे समन्वारभेते पूर्वप्रज्ञा च महत्यज्ञान तमसि मग्नो जरामरण क्षुत्पिपासा शोकक्रोध लोभ मोहमदभय मत्सर हर्षविषादेर्ष्या सूयात्मकैर्द्वंद्वैरभिभूयमानः सोऽस्मादार्जवं जवीभावानां तन्निर्मुच्यतेसोऽस्मात्पान्महा भूमिका वच्छरीरान्निमेषमात्रॆः प्रक्रम्य प्रकृतिरधिपरीत्य तृजसं शरीरं कृत्वा कर्मणानुरूपं फलमनुभूय तस्य संक्षये पुनरिमं लोकं प्रतिपद्यते ॥ ७ ॥
अथ ये हिंसामाश्रित् विद्यामुत्सज्य वनहत्तपस्तेपिरे चिरेण वेदोक्तानि वा कर्माणि कुर्वंति ते धूममभिसंभवंति धूमाद्रात्रिं रात्रेरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद्दक्षिणायनं दक्षिणायनात् पितृलोकं पितृलोकात् चंद्रमसं चंद्रमसो वायुं वायोर्वृष्टिं वृष्टेरोषधयश्चैतद्भूत्वा तस्य संक्षये पुनरेवेमं लोकं प्रतिपद्यते ॥ ८ ॥
अथ ये हिंसामुत्सृज्य विद्यामाश्रित्य महत्तपस्तेपिरे ज्ञानोक्तानि वा कर्माणि कुर्वंति तेऽर्चिरभिसंभवंत्यर्चिषोऽहरह्न आपूर्यमाण पक्षमापूर्यमाण पक्षादुदगयनमुदगयनाद्धेवलोकं देवलोकादादित्यमादित्याद्वैद्युतं वैद्युतान्मानसं मानसः पुरुषो भूत्वा ब्रह्मलोकमभिसंभवंति ते न पुनरावर्तंते शिष्टा दंदशूका यत इदं व जानंति तस्मादिदं वेदितव्यमथाप्याह ॥ ९ ॥
न तं विदाथ य इमा जनानान्यद्यष्माकमंतरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरंति (ऋ. सं. १०-८२-७) ॥ न तं विद्यया विदुषो यमेवं विद्वांसो वदंत्यक्षरं ब्रह्मणस्पतिमन्यद्युष्माकमंतरमन्यदेषामंतरं बभूवेति नीहारेण प्रावृतास्तमसां जल्प्या चासुतृप उक्थशासः नीहारेण प्रावृतास्तमसां जल्प्या चासुतृप उक्थशासः प्राणं सूर्यं यत्पथगामिनश्चरंत्यविद्वांसः क्षेत्रज्ञमनुप्रवदंत्यथाहो विद्वांसः क्षेत्रज्ञोऽनुकल्पते तस्य तपसा सहाप्रमादमेत्यथाप्तव्यो भवति तेनासंततमिच्छेत्तेन सख्यमिच्छेदेष हि सखा श्रेष्ठः संजानाति भूतं भवद्भविष्यदिति ज्ञाता कस्माज्जायतेः सखा कस्मात्सख्यतेः सह भूतेंद्रियैः शेते महाभूतानि सेंद्रियाणि प्रज्ञया कर्म कारयतीति वा तस्य तदापः प्रतिष्ठा शीलमुपशम आत्मा ब्रह्मेति स ब्रह्मभूतो भवति साक्षिमात्रो व्यवतिष्ठतेऽवंधो ज्ञान कृतोऽथात्मनो महतः प्रथमं भूतनामधेयान्यनुक्रमिष्यामः ॥ १० ॥
हंसः । घमः । यज्ञः । वेनः । मेघः । कृमिः । भूमिः । विभुः । प्रभुः । शंभुः । राभुः । वधकर्मा । सोमः । भूतं । भवनं । भविष्यत् । अपः । महत् । व्योम । यशः । महः । स्वर्णीकं । स्मृतीकं । सतीकम् । सतीनं । गहनं । गभीरं । गह्वरं । कं । अन्नं । हविः । सद्म । सदनं । ऋतं । योनिः । ऋतस्य । योनिः । सत्यं । नीरं । हविः । रयिः । सत् । पूर्णं । सर्वं ॥ सर्वं । उक्षितं । बर्हिः । नाम । सर्पिः । अपः । पवित्रं । अमृतं । इंदुः । हेम । खः । सर्गाः । शंबरं । अंबरं । वियत् । व्योम । बर्हिः । धन्व । अंतरिक्षं । आकाशं । आपः । पृथिवी । भूः । स्वयंभूः । अध्वा । पुष्करं । सगरः । समुद्रः । तपः । तेजः । सिंधुः । अर्णवः । नाभिः । वृक्षः । ऊर्ध्वः । तत् । यत् । किं । ब्रह्म । वरेण्यं । हंसः । आत्मा । भवति । वधंत्य ध्वानं । यद्वाहिष्या । शरीराणि । अव्ययं च संस्कुरुते । यज्ञः । आत्मा । भवति । यदेनं तन्वतेऽथैतं महामात्मानमेतानि सूक्तान्येता ऋचोऽनुप्रवदंति ॥ ११ ॥
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेंद्रस्य जनितोत विष्णोः (ऋ. सं. ९-९६-५) ॥ सोमः पवते सोमः सूर्यः प्रसवनाज्जनिता मतीनां प्रकाशकर्मणामादित्यरश्मीनामग्नेर्गतिकर्मणामादित्यरश्मीनां सूर्यस्य स्वीकरण कर्मणामादित्यरश्मीनामिंद्रस्यैश्वर्यकर्मणामादित्यरश्मीनां विष्णोर्व्याप्ति कर्मणामादित्यरश्मीनामित्यधिदैवतमथा ध्यात्मं सोम आत्माष्येतस्मादेवेंद्रियाणां जनितेत्यर्थः । अपि वा सर्वाभिर्विभूतिभिर्विभूतत आत्मेत्यात्मगतिमाचष्टे ॥ १२ ॥
ब्रह्मा देवानां पदवी कवीनामृषिर्विप्राणां महिषो मृगाणां । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् (ऋ. सं. ९-९६-६) ॥ ब्रह्मा देवानामित्येष हि ब्रह्मा भवति देवानां देवनकर्मणामादित्यरश्मीनां पदवीः कवीनामित्येष हि पदं वेत्ति कवीनां कवीयमानानामादित्यरश्मीनामृषिर्विप्राणामित्येष हि ऋषिणो भवति विप्राणां व्यापनकर्मणामादित्यरश्मीनां महिषो मृगाणामित्येष हि माहन् भवति मृगाणां मार्गणकर्मणामादित्य रश्मीनां श्येनो गृध्राणामितिश्येन आदित्यो भवति श्यायतेर्गतिकर्मणो गृध्र आदित्यो भवति गृध्यतेः स्थानकर्मणो यत एतस्मिन् तिष्ठति स्वधितिर्वनानामित्येष हि स्वयं कर्मण्यादित्यो धत्ते वनानां वनन कमणामादित्यरश्मीनां सोमः पवित्रमत्येति रेभन्नित्येष हि पवित्रं रश्मिनामत्येति स्तूयमान एष एवैतत्सर्वमक्षरमित्यधिदैवतमथाध्यात्मं ब्रह्मा देवानामित्ययमपि ब्रह्मा भवति देवानां देवन कर्मणामिंद्रियाणां पदवीः कवीनामित्ययमपि पदं वेत्ति कवीनां कवीयमानानामिंद्रियाणामृषिर्विप्राणामित्ययमप्यृषिणो भवति विप्राणां व्यापनकर्मणामिंद्रियाणां महिषो मृगाणामित्ययमपि महान् भवति मृगाणां मार्गणकर्मणामिंद्रियाणांश्येनो गृध्राणामिति श्येन आत्मा भवति श्यायतेज्ञान कर्मणो गृध्राणींद्रियाणि गृध्यतेर्ज्ञानकर्वणो यत एतस्मिन् तिष्ठति स्वधितिर्वनानामित्ययमपि स्वयं कर्मर्ण्यात्मनि धत्ते वनानां वननकर्मणामिंद्रियाणां सोमः पवित्रमत्येति रेभन्नित्ययमपि पवित्रमत्येति रेभन्नित्ययमपि पवित्रमिंद्रियाण्यत्येति सूयमानोऽय मेवैतत्सर्वमनुभवत्याश्म गतिमाचष्टे ॥ १३ ॥
तिस्रो वाच ईरयति प्र वह्निर्ऋतस्य धीतिं ब्रह्मणो मनीषां । गावो यंति गोपतिं पृच्छमानाः सोमं यंति मतयो वावशानाः (ऋ. सं. ९-९७-३४) ॥ वह्निरादित्यो भवति स तिस्रो वाचः प्रेरयत्यृचो यजूंषि सामान्यृतस्यादित्यस्य कर्माणि ब्रह्मणो मतान्येष एवैतत्सर्वमक्षरमित्यधिदैवतमथाध्यात्मं वह्निरात्मा भवति स तिस्रो वाच ईरयति प्रेरयति विद्यामतिबुद्धिमतामृतस्यात्मनः कर्माणि ब्रह्मणो मतान्ययमेवैतत्सर्वमनुभवत्यात्मगतिमाचष्टे ॥ १४ ॥
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः । सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवंते (ऋ. सं. ९-९७-३५) ॥ एत एव सोमं गावो धेनवो रश्मयो वावश्यमानाः कामयमानाः आदित्यं यंत्येवमेव सोमः सुतः षूयते अज्यमान एतमेवार्काश्च त्रिष्टुभश्च संनवंते तत एतस्मिन्नादित्य एकं भवंतीत्यधिदैवतमथाध्यात्ममेत एव सोमं गावो धेनव इंद्रियाणि वावश्यमानानि कामयमानान्यात्मानं यंत्येवमेव सोमः सुतः पूयते अज्यमान इममेवात्मा च सप्त ऋषयश्च संनवंते तानीमानीन्येतस्मिन्नात्मन्येकं भवंतीत्यात्मगतिमाचष्टे ॥ १५ ॥
अक्रान् त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य राजा । वृषा पवित्रे अधि सानो अव्ये बृहत्सोपो वावृधे सुवान इंदुः (ऋ. सं. ९-९७-४०) ॥ अत्यक्रमीत्समुद्र आदित्यः परमे व्यवने वर्षकमणा जनयन्प्रजा भुवनस्य राजा सर्वस्य राजा वृषा पवित्रे आधि सानो अव्ये बृहत्सोमो वावृधे सुवान इंदुरित्यधिदैवतमथाध्यात्म मत्यक्रमीत्समुद्र आत्मा परमे व्यवने ज्ञानकर्मणा जनयन्प्रजा भुवनस्य राजा सर्वस्य राजा वृषापवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवाव इंदुरित्यात्मगतिमाचष्टे ॥ १६ ॥
महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । अदधादिंद्रे पवमान ओजो अजनयत्सूर्ये ज्योतिरिंदुः (ऋ. सं. ९-९७-४१) ॥ महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवानामाधिपत्यमदधादिंद्रे पवमान ओजोजनयत्सूर्ये ज्योतिरिंदुरादित्य इंदुरात्मा ॥ १७ ॥
विधुं दंद्राणं समने बहूनां युवानं संतं पलितो जगार । देवस्य पश्य काव्यं महित्वाद्या ममार सह्यः समान (ऋ. सं. १०-५५-५) ॥ विधुं विधमनशीलं दंद्राणं दमनशीलं युवानं चंद्रमसं पलित आदित्यो गिरति सद्यो म्रियते स दिवा समुदिते त्यधि दैवतमथाध्यात्मं विधुं विधमनशीलं दद्राणां दमनशीलं युवानं महांतं पलित आत्मा गिरति रात्रौ म्रियते रात्रिः समुदितेत्यात्मगतिमा चष्टे ॥ १८ ॥
साकंजानां सप्तथमाहुरेकजं षळिद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामशः स्थात्रे रेजंते विकृतानि रूपशः (ऋ. सं. १-१७४-१५) ॥ सहजातानां षण्णामृषीणामादित्यः सप्तमस्तेषामिष्टानि वा कांतानि वा क्रांतानि वा गतानि वा मतानि वा नतानि वाद्बिः सह सं मोदंतॆ यत्रैतानि सप्तऋषीणानि ज्योतींषि तेभ्यः पर आदित्य स्तान्येतस्मिन्नेकं भवंतीत्यधिदैवतमथाध्यात्मं सहजातानां षण्णामिंद्रियाणामात्मा सप्तमस्तेषामिष्टानि वा कांतानि वा क्रांतानि वा गतानि वा मतानि वा नतानि वान्नेन सह संमोदंते यत्रेमानि सप्तऋषिणानिंद्रयाण्येभ्यः पर आत्मा तान्यस्मिन्नेकं भवंतीत्यात्मगतिमाचष्टे ॥ १९ ॥
स्त्रियः सतीस्तां उ मे पुंस आहुः पश्यदक्षण्वान्न वि चेदन्यः । कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्टितासत् (ऋ. सं. १-१६४-१६) ॥ स्त्रिय एवैताः शब्दस्पर्शरूप रसगंधहारिण्यस्ता अमुंपुंशब्देन निराहारः प्राण इति पश्यन् कष्टान्न विजानात्यंधः कविर्यः पुत्रः स इमा जानाति यः स इमा जानाति स पितुष्पितासदित्यात्मगतिमा चच्टे ॥ २० ॥
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठंति प्रदिशा विधर्मणि । ते धीतिभिर्मनसा ते विवश्वितः परिभुवः परि भवंति विश्वतः (ऋ. सं. १-१६४-२६) ॥ सप्त्यैतानादित्यरश्मीनियमादित्यो गिरति मध्यस्थानोर्ध्वशॆब्दो यान्यस्मिंस्तिष्ठंति तानि धीतिभिश्च मनसा च विपर्ययंति परिभुवः परिभवंति सर्वाणि कर्माणि वर्षकर्मणेत्यधिदैवतमथाध्यात्मं सप्ते मानींद्रियाण्ययमात्मा गिरति मध्यस्दानोर्ध्वशब्धो यान्यस्मिंस्तिष्ठंति तानि धीतभिश्च मनसा च विपर्ययंति परिभुवः परभवंति सर्वाणींद्रि याणि ज्ञानकर्मणे त्यात्यगति माचष्टे ॥ २१ ॥
न वि जानामि यदि वीदमस्मि निण्यः संनद्धो मनसा चरामि । यदा मागन्प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः (ऋ. सं. १-१६४-०७) ॥ न विजानामि यदि वेदमस्मि निण्यः संनद्धो मनसा चरामि न हि जानन् पुष्टिः पुत्रः परिवेदयंतेऽ य मादित्योऽय मात्मा २ ॥ २२ ॥
अपाङ् प्राङीति स्वधया गृभीतोऽमर्त्यो मर्त्येनासयोनि । ता शश्वंता विषूचीना वियंता न्य १ न्यं चिक्युर्न नि चिवयुरन्यं (ऋ. सं. १-१६४-३८) ॥ अपांचयति प्रांचयति । स्वधया गृभीतो मर्त्य आदित्यो मर्त्येन चंद्रमसा सह तौ शश्वद्गामिनौ विश्वगामिनौ बहुगौमिनौ वा पश्यत्यादित्यं न चंद्रमसमित्यधिदैवत मथाध्यात्ममपांचयति स्वधया गृभीतोऽमर्त्य आत्मा मर्त्येन मनसा सह तौ शश्वद्गामिनौ विश्वगामिनौ बहुगामिनौ वा पश्यत्यात्मानं न मन इत्यात्मगतिमाचष्टे ॥ २३ ॥
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदंत्यूमाः (ऋ. सं. १०-१२०-१) ॥ तद्भवति भूतेषु भुवनेषु ज्येष्ठमादित्यं यतो जज्ञ उग्रस्त्वेषनृम्णो दीप्तिनृम्णः सद्यो जज्ञानो निरिणाति शत्रूनिति निरिणातिः प्रीतिकर्मा दीप्तिकर्मा वानुमदंति यं विश्व ऊमा इत्यधिदैवत मथाध्यात्मं तद्भवति भूतेषु भुवनेषु ज्येष्ठमव्यक्तं यतो जायत उग्रस्त्वेषनृम्णो ज्ञाननृम्ण सद्यो जज्ञानो निरिणाति शत्रूनिति निरिणातिः प्रीतिकर्मा दीप्तिकर्मा वानुमदंति यं सर्व ऊमा इत्यात्मगति माचष्टॆ ॥ २४ ॥
को अद्य युंक्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्निषून् हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्सजीवान् (ऋ. सं. १-८४-१६) ॥ क आदित्यो धुरि गा युंक्ते रश्मीन् कर्मवतो भानुमतो दुराधर्षानसूनसुनवंतीषूनिषुणवंति मयोभूनि सुखभूनि य इमं संभृतं वेद कथं स जीवतीत्यधि दैवतमथाध्यात्मं क आत्मा धुरि गा युंक्त इंद्रियाणि कर्मवंति भानुमंति दुराधर्षानसूनसुनवंतीषूनिषुणवंति मयोभूनि य इमानि संभृतानि वेद चिरं स जीवतीत्याग्मगतिमाचष्टे ॥ २५ ॥
क ईषते तुज्यते को भिभाय को मंसते संतमिंद्रं को अंति । कस्तोकाय क इमायोत रायेऽधिब्रवत्तन्वे ३ को जनाय (ऋ. सं. १८-४१-७) ॥ क एव गच्छति को ददाति को बिभेति को मंसते संतमिंद्रं कस्तोकायापत्याय महते च नो रणाय रमणीयाय दर्शनाय ॥ २६ ॥
को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिध्रुवेभिः । कस्मै देवा आ वहानाशु होम को मंसंते वीतिहोत्रः सदेवः (ऋ.सं.१-८४-१८) ॥ क आदित्यं पूजयति हविषा च घृतेन च स्रुचा यजाता ऋतुभिर्ध्रुवेभिरिति कस्मैदेवा आवहनाशु होमार्थान् को मंसते वीतिहोत्रः सुदेवः कल्याणदेव इत्यधिदैवतमथाध्यात्मं क आत्मानं पूजयति हविषा च घृतेन च स्रुचा यजाता ऋतुभिर्ध्रुवेभिरिति कस्मै देवा आवहानाशु होमार्थात् को मंसते वीतिहोत्रः सुप्रज्ञः कल्याणप्रज्ञ इत्यात्मगतिमाचष्टे ॥ २७ ॥
त्वमंग प्र शंसितो देवः शविष्ठ मर्त्यं । न त्वदनो मघवन्नस्ति मर्डितेंद्र ब्रवीमि ते वचः (ऋ. सं. १-८४-१९) ॥ त्वमंग प्रशंसीद्देवः शविष्ठ मर्त्यं न त्वदन्योऽस्ति मघवन् पाता वा पालयिता वा जेता वा सुखयिता वेंद्र ब्रवीमि ते वचः स्तुतियुक्तंम् ॥ २८ ॥
हंसः शुचिषद्वसुरंतरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वर सदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् (ऋ. सं. ४-४०-५) ॥ हंस इति हंसाः सूर्यरश्मयः परमात्मा परं ज्योतिः पृथिवी व्याप्तेति व्याप्तं सर्वं व्याप्तं दननकर्मणानभ्यासेना दित्यमंडलेनेति त्ययतीति लोको त्ययतीति हंसयंत्ययतीति हंसाः परमहंसाः परमात्मा सूर्यरश्मभिः प्रभूत गभीर वसतीति त्रिभिर्वसतीति वा रश्मिर्वसतीति वा वह्निर्वसतीति वा सुवर्णरेताः पूषा गर्भारिभेति रिभंता वनकुटिलानिकुटंता रिभंतांतरिक्षा चरत्पथांतरिक्षा चरचरदिति दिवि भुवि गमनं वा सुभानुः सुप्रभूतो होतादित्यस्य गता भवंत्यतिथिर्दु रोणसत्सर्वे दुरोणसद्रवं सर्वे रसा विकर्षयति रश्मिर्विकर्षयति वह्निर्विकर्षयति वननं भवत्यश्वगोजा अद्रिगोजा धरित्रिगोजाः सर्वे गोजा ऋतजा बहुशब्दा भवंति निगमो निगमव्यति भवत्येष निर्वचनाय ॥ २९ ॥
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वा द्व त्य न श्न न्न न्नो अभि चाकशेमि (ऋ. सं. १-१६४-२०) ॥ द्वौ द्वौ प्रतिष्ठितौ सुकृतौ धर्मकर्तारौ दुष्कृतं पापं परिसारकमित्याचक्षते सुपर्णा सुयुजा सखायेत्यात्मानं परमात्मानं प्रत्युत्तिष्ठति शरीरं एव तज्जायते वृक्षं वृक्षं शरीरं वृक्षं पक्षौ प्रतिष्ठापयति तयोरन्यद्भुक्त्वान्नमनश्नन्नन्यां सरूपतां सलोकता मश्नुतेय एवं वेदान्नमनश्नन्नन्यो अभिचाकशीतीत्यात्मगतिमाचष्टे ॥ ३० ॥
आ याहींद्र पथिभिरीळितेभिर्यज्ञमिमं नो भागधेयं जुषस्व । तृप्तां जुहुर्मातुळस्येव योषा भागस्ते पैतृष्वसेयी वपामिव (खैलिकसूक्तं १४-६) ॥ आगमिष्यंति शक्रो देवतास्तास्त्टिभिस्तीर्थेभिः शक्रप्रतरैरीळितेभिस्त्रिभिस्तीर्थैर्यज्ञमिमं नो यज्ञभाग ।मग्नीषोमभागाविंद्रो जुषस्व तृप्तामेवं मातुलयोगकन्याभागं सकर्तृकेव सा या देवतास्तास्तत् स्थाने शक्रं निदर्शनम् ॥ ३१ ॥
विप्रं विप्रासोऽवसे देवं मर्तास ऊतये । अग्निं गीर्भिर्हवामहे (ऋ. सं. ८-११-६) ॥ विप्रं विप्रासेऽवसे विदुर्वेद विंदतेर्वेदितव्यं विमलशरीरेण वायुना विप्रस्तु हृत्पद्मनिलय स्थित मकारसंहितमुकारं पूरयेन्मकारनिलयं गतं विप्रं प्राणेषु बिंदुसिक्तं विकसितं वह्नितेजः प्रभं कनकपद्मेष्वमृत शरीरममृत जातस्थितममृत वाचामृतमुखे वदंति । अग्निं गीर्भिर्हवामहे । अग्निं संबोधयेदग्निः सर्वा देवता इति तस्योत्तरा भूयसे निर्वचनाय ॥ ३२ ॥
जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः । स नः वर्षदति दुर्गाणि विश्वा नावेव सिंधुंदुरितात्यग्निः (ऋ.सं.१-९९-१) जातवेदस इति जातमिदं सर्वं सचराचरं स्थित्युत्पत्तिप्रलय न्यायेनाच्छाय सुनवाम सोममिति प्रसवेनाभिषवाय सोमं राजानममृतमरातीयतो यज्ञार्थमिति स्मो निश्चये निदहाति दहति भस्मीकरोति सोमो दददित्यर्थः । स नः पर्षदति दुर्गाणि दुर्गमनानिस्थानानि नावेव सिंधुं यथा कश्चित् कर्णधारोनावेव सिंधोः स्यंदनान्नदीं जलदुर्गां महाकूलां तारयति दुरितात्यग्निरिति दुरितानि तारयति तस्यैषापरा भवति ॥ ३३ ॥
इदं तेऽन्याभिरसमनमद्भिर्याः काश्च सिंधुं प्रवहंति नद्यः । सर्पॊ जार्णामिव त्वचं जहाति पापं सशिरस्कोऽभ्युपेत्य ॥ इदं तेऽनाभिरसमनाभिर्याःकाश्च सिंधुं पतिं कृत्वा नद्यो वहंति सर्पॊ जीर्णामिव सर्पस्त्वचं त्यजति पापं त्यजंत्याप आप्नॊतेस्तासामेषा भवति ॥ ३४ ॥
त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनं । उर्वारुकमिव बंधनान्मृत्योर्मुक्षीय मामृतात् (ऋ. सं. ७-५९-१२) ॥ त्र्यंबको रुद्रस्तं त्र्यंबकं यजामहे सुगंधिं सुगंधिं सुष्ठगंधिं पुष्टिवर्धनं पुष्ढिकारकमिवोर्वारकमिव फलं बंधनादारोधनान्मृत्योः सकाशान्मुंचस्वमां कस्मादित्येषामितरेषापरा भवति ॥ ३५ ॥
शतं जीव शरदो वर्धमानः शतं हेमंतान् शतमु वसंतान् । शतमिंद्राग्नी सविता बृहस्पतिः शतायुषा हविषेमं पुनर्दुः (ऋ. सं. १०-१६१-४) ॥ शतं जीव शरदो वर्धमान इत्यपि निगमो भवति शतमिति शतं दीर्घमायुर्मरुत एना वर्धयंति शतमेनमेव शतात्मानं भवति शतमनंतं भवति शतमैश्वर्यं भवति शतमिति शतं दीर्घमायुः ॥ ३६ ॥
मा ते राधांसि मा त ऊतयो वसोऽस्मान् कदा चना दभन् । विश्वा च न उपमिमीह मानुष वसूनि चर्षणिभ्य आ (ऋ. सं. १-८४-२०) मा च ते धदानि मा च ते कदा च नः सरिषुः सर्वाणि प्रज्ञानान्युपनामय मनुष्यहितोऽयमादित्योऽयमात्मा थैतदनुप्रवदत्यथैतं महांतमात्मानमेषर्गणः प्रवदति वैश्वकर्मणे देवानां नु वयं जाना नासदासीन्नो सदासीत्तदानीमिति च सैषात्म जिज्ञासा सैषा सर्वभूतजिज्ञासा ब्रह्मणः सारिष्टं सरूपतां सलोकतां गमयति य एवं वेद नमो ब्रह्मणे नमो महते भूताय नमः पारस्कराय नमो यास्काय ब्रह्मशुक्लमसीय ब्रह्म शुक्लमसीय ॥ ३७ ॥
व्याख्यातमग्नि रस्मि जन्मना पश्यं गोपामाकाशगुणस्तं परिवर्तमानं स यद्यनुरध्यतेऽष्टोत्तरमथयोहि सामाश्रित्याथ यो हिंसामुत्सज्य नतहंसो थर्मः सोमः पवते ब्रह्मा देवानां तिस्रोवाचईरयति स्यॊमंगावोऽक्रांत महत्तत्सोमो विधुंदद्राणं साकं जानां स्त्रियः सतीःसप्तार्धगर्भानविजानाम्यपाङ् प्राङीति तदिदासको अद्ययुंक्तेर्क इषते को अग्निमीट्टे त्वमंग हंसः शुचिषद् द्वासुपर्णा याहींद्रविप्रं विप्रासो जातवेदस इदंतेन्याभिस्त्र्यंबकं शतं जीवमोतराधांसीति सप्तत्रिंशत् ॥