मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६, ऋक् ९

संहिता

अतः॑ परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑ ।
सम॑स्मिन्नृञ्जते॒ गिरः॑ ॥

पदपाठः

अतः॑ । प॒रि॒ऽज्म॒न् । आ । ग॒हि॒ । दि॒वः । वा॒ । रो॒च॒नात् । अधि॑ ।
सम् । अ॒स्मि॒न् । ऋ॒ञ्ज॒ते॒ । गिरः॑ ॥

सायणभाष्यम्

हे परिज्मन् परितो व्यापिन्मरुद्गण अतोऽस्थान्मरुद्गणस्थानादंतरिक्षादा गहि । अस्मिन्कर्मण्यागच्छ । दिवो वा । द्युलोकाद्वा समागच्छ । रोचनादधि । दीप्यमाना दादित्यमंडलाद्वा समागच्छ । अस्मदीयकर्मकाले यत्र यत्र तिष्ठति ततः सर्वस्मादागच्छेत्यर्थः । किमर्थमागमनमिति तदुच्यते । अस्मिन्कर्मणि वर्तमान ऋत्विग्गिरः स्तुतीः समृंजते । सम्यत् प्रसाधयति । ऋंजतिः प्रसाधनकर्मा (नि ६-२१) इति यास्कः । एताः स्तुतीः श्रोतुमागच्छेत्यर्थः । यद्यप्यृत्वजा मंत्रस्य प्रयुज्यमानत्वादृंजतिधातोरुत्तमपुरुषेण भवितव्यं तथापि परोक्षकृतत्वेन निर्देशात्प्रथमपुरुषप्रयोगः । परोक्षकृतलक्षणं च यास्क अह । तास्त्रिविधा ऋचः परोक्षकृताः प्रत्यक्षकृता आध्यात्मिक्यश्च । तत्र परोक्षकृताः सर्वाभिर्नामविभक्तिभिर्युज्यंते । प्रथमपुरुषैश्चाख्यातस्य (नि ७-१) इति ॥ अतः । पंचम्यास्तसिल् (पा ५-३-७) एतदोऽश् (पा ५-३-५) शित्त्वात्सर्वादेशः (पा १-१-५५) लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । परिज्मन् । अज गतिक्षेपणयोः । अन्येभ्योऽपि दृश्यंते (पा ३-२-७५) इति मनिन् । अकारलोपश्छांदसः । आमंत्रितनिघातः । गहि । गमेर्बहुलं छंदसि (पा २-४-७३) इति शपो लुक् । हेर्जित्वात् (पा ३-३-८७) अनुदात्तोपदेशेत्यादिना (पा ६-४-३७) मलोपः । अतो हेः (पा ६-४-१०५) इति हिलोपो न भवति । तस्मिन्कर्तव्येऽसिद्ध वदत्रा भात् (पा ६-४-२२) इति मलोपस्यासिद्थत्वेनानकारांतत्वात् । दिवः । ऊडिद मित्यादिना विभक्तेरुदात्तत्वम् । वा । चादयोऽनुदात्ताः (फि ४-१६) इतृनुदात्तः । रोचनात् । रुच दीप्तौ । अनुदात्तेतश्च हलादेः (पा ३-२-१४९) इति युच् । युवोरनाकौ (पा ७-१-१) इत्यनादेशः । चिदित्यंतोदात्तः । अधि । अधिपरी अनर्थकौ (पा १-४-९३) इति कर्मप्रवचनीयत्वेन सह निपातसंज्ञायाः समावेशान्निपाता आद्युदात्ता इत्याद्युदात्तः । अस्मिन् । परिज्मन्नित्यादिष्टस्यैवान्वादेशादिदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (पा २-४-३२) इत्यश् अनुदात्तः शित्त्वात्सर्वादेशः । विभक्तिरनुदात्तौ सुप्पितौ (पा ३-१-४) इत्यनुदात्तेति । सर्वानुदात्तत्वम् । ऋंजते । ऋजि भृजी भर्जने । समित्युपसर्गयोगात्प्रसाधने वर्तने । निघातः । गिरः । प्रातिपदिकस्वरः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२