मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२, ऋक् ६

संहिता

अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ ।
ह॒व्य॒वाड्जु॒ह्वा॑स्यः ॥

पदपाठः

अ॒ग्निना॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । क॒विः । गृ॒हऽप॑तिः । युवा॑ ।
ह॒व्य॒ऽवाट् । जु॒हुऽआ॑स्यः ॥

सायणभाष्यम्

अग्निमंथनेऽग्निनाग्निः समिध्यत इत्येषानुवचनीया । प्रातर्वैश्वदेव्यां प्रेषित इति खंडे सूत्रितम् । अग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निना (आ २-१६) इति ॥ एषैवाग्निमत इत्यस्यानुवाक्या । अथाग्नेय्य इति खंडेऽग्नावग्निप्रयन इत्युपक्रम्य सूत्रितम् । यद्वो वयं प्रमिनाम व्रतान्यग्निनाग्निः समिध्यते (आ ३-१३) इति ॥

अग्निराहवनीयाख्यस्तस्मिन्प्रक्षिप्यमाणेनाग्निना निर्मथ्येन प्रणीतेन वा सहसमिध्यते । सम्यक् दीप्यते । कीदृशोऽग्निः । कविर्मेधावी गृहपतिर्यजमानगृहस्य पालको युवा नित्यतरुणो हव्यवाट् हविषो वोढा जुह्वास्यो जुहूरूपेण मुखेन युक्तः ॥ गृहपतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम् । युवा । यु मिश्रणे । कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिव इति कनिन् । नित्त्वादाद्युदात्तः हव्यं वहतीति हव्यवाट् । वहश्चेति ण्विप्रत्ययः । णित्त्वादुपधावृद्धिः । गतिकारकोपपदात्कृदुत्तरपदप्रकृतिस्वरत्वम् । जुह्वास्यः । हूयतेऽनयेति जुहूः । हुवः श्लुवच्च उ २-६० । इति क्विप् । तत्सन्नियोगाद्दीर्घः । श्लुवद्भावाद्द्विर्भावः । चुत्वजश्त्वे । प्रातिपदिकस्वरेणांतोदात्तः । जुहूरास्यं यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव शिष्यते । शेषनिघातः । यणादेश उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (पा ८-२-४) इत्याकारः स्वरितः ॥ २२ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२