मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २१, ऋक् २

संहिता

ता य॒ज्ञेषु॒ प्र शं॑सतेन्द्रा॒ग्नी शु॑म्भता नरः ।
ता गा॑य॒त्रेषु॑ गायत ॥

पदपाठः

ता । य॒ज्ञेषु॑ । प्र । शं॒स॒त॒ । इ॒न्द्रा॒ग्नी इति॑ । शु॒म्भ॒त॒ । न॒रः॒ ।
ता । गा॒य॒त्रेषु॑ । गा॒य॒त॒ ॥

सायणभाष्यम्

हे नरो मनुष्या ऋत्विजः ता पूर्वोक्तौ ताविंद्राग्नी यज्ञेष्वनुष्टीयमानकर्मसु प्रशंसत शस्त्रैः । तथा शुंभत । नानाविधैरलंकारैः शोभितौ कुरुत । तथा ता पूर्वोक्तौ ताविंद्राग्नि गायत्रेक्षु गायत्रीच्छंदस्केषु मंत्रेषु सामरूपेण गायत ॥ ता । सुपां सुलुगित्याकारः । शुंभत । अस्य संहितायामन्येषामपि दृश्यत इति दीर्घः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः