मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २१, ऋक् ३

संहिता

ता मि॒त्रस्य॒ प्रश॑स्तय इन्द्रा॒ग्नी ता ह॑वामहे ।
सो॒म॒पा सोम॑पीतये ॥

पदपाठः

ता । मि॒त्रस्य॑ । प्रऽश॑स्तये । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ।
सो॒म॒ऽपा । सोम॑ऽपीतये ॥

सायणभाष्यम्

मित्रस्य स्नेहविषयस्य ममानुष्ठातुः प्रशस्तये ता पूर्वोक्तौ देवौ संपद्येतामिति शेषः । यद्वा । मित्रस्य मम संबंधिनौ ताविंद्राग्नि प्रशस्तये प्रशंसितुमिच्छाम इति शेषः । सोमपा सोमपानक्षमौ ता पूर्वोक्ताविंद्राग्नी सोमपीतये सोमपानार्थं हवामहे । आह्वयामः ॥ प्रशस्तये । तुमर्थाच्च भाववचनात् (पा २-३-१५) इति चतुर्थी । कृदुत्तरपदप्रकृतिस्वरत्वम् । बाधित्वा तादौ च निति कृत्यतौ (पा ६-२-५०) इति गतेः प्रकृतिस्वरत्वम् । सोमपीतये । सोमस्य पीतिर्यस्मिन्कर्मणि तस्मै । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सोमस्य पीतिरिति तत्पुरुषे वा दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः