मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २१, ऋक् ५

संहिता

ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा॑ग्नी॒ रक्ष॑ उब्जतम् ।
अप्र॑जाः सन्त्व॒त्रिणः॑ ॥

पदपाठः

ता । म॒हान्ता॑ । सद॒स्पती॒ इति॑ । इन्द्रा॑ग्नी॒ इति॑ । रक्षः॑ । उ॒ब्ज॒त॒म् ।
अप्र॑जाः । स॒न्तु॒ । अ॒त्रिणः॑ ॥

सायणभाष्यम्

तौ पूर्वेक्ताविंद्राग्नी रक्षो राक्षसजातिमुब्जतम् । ऋजुकुरुतम् । क्रौर्यं परित्याजयतमित्यर्थः । कीदृशौ । महांता महांतौ गुणैरधिकौ सदस्पती सभापालकौ । तयो प्रसादादत्रिणो भक्षका राक्षसा अप्रजा अनुत्पन्नाः संतु ॥ महांता । सांत महतः संयोगस्य (पा ६-४-१०) इति दीर्घः । सदस्पती सदसस्पती इति समासे षष्ठ्या लुकि प्रातिपदिकसकारस्य रुत्वाभावश्चांदसः । उभे वनस्पत्यादिषु युगपदित्युभयपदप्रकृतिस्वरत्वम् । इंद्राग्नी । आमंत्रिताद्युदात्तत्वम् । अप्रजाः । प्रजायंत इति प्रजाः । अन्येष्वपि । दृश्यते (पा ३-२-१०१) इति जनेर्डप्रत्ययः । न प्रजाः अप्रजाः । प्रजाशब्दस्य बहुव्रीहौ हि नित्यमसिच् प्रजामेधयोः (पा ५-४-१२२) इत्यसिजादेशः स्यात् । अव्ययपूर्वपदप्रकृतिस्वरः । अत्रिणः । तृजंतस्यातृशब्दस्य जसश्छांदस इनुडागमः । चित इति ऋकार उदात्तः । तस्य यणादेश उदात्तयणो हल्पूर्वादितीकार उदात्तः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः