मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २१, ऋक् ६

संहिता

तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने॑ प॒दे ।
इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥

पदपाठः

तेन॑ । स॒त्येन॑ । जा॒गृ॒त॒म् । अधि॑ । प्र॒ऽचे॒तुने॑ । प॒दे ।
इन्द्रा॑ग्नी॒ इति॑ । शर्म॑ । य॒च्छ॒त॒म् ॥

सायणभाष्यम्

हे इंद्राग्नी सत्येनावश्यफलप्रदानावितथेन तेनास्माभिरनुष्ठितेन कर्मणा प्रचेतुने प्रकर्षेण फलभोगज्ञापके पदे स्वर्गलोकादिस्थानेऽधि जागृतम् । आधिक्येन सावधानौ भवतम् । ततोऽस्मभ्यं शर्म यच्छतम् । सुखं गृहं वा । दत्तम् । गयः कृदर इत्यादिषु द्वाविंशतिसंख्याकेषु गृहनामसु शर्म वर्मेत्युक्तं ॥ जागृतम् । जागृ निद्राक्षये । अदिप्रभृतिभ्यः शप इति शपो लुक् । तिङ्ङतिङ इति निघातः । प्रचेतुने । चिती संज्ञान इत्यस्माण्यंताद्बाहुलकादौणादिक उनप्रत्ययः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । इंद्राग्नी । इहेंद्राग्नी इत्यत्रोक्तम् । आमंत्रितत्वादाद्युदात्तत्वमत्र विशेषः । शृणाति हिनत्ति दुःखमिति शर्म । शृ हिंसायाम् । अन्येभ्योऽपि दृश्यंत इति मनिन् । यच्छतम् । इषुगमियमां छ इति छः ॥ ३ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः