मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् १९

संहिता

अ॒प्स्व१॒॑न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तये ।
देवा॒ भव॑त वा॒जिनः॑ ॥

पदपाठः

अ॒प्ऽसु । अ॒न्तः । अ॒मृत॑म् । अ॒प्ऽसु । भे॒ष॒जम् । अ॒पाम् । उ॒त । प्रऽश॑स्तये ।
देवाः॑ । भव॑त । वा॒जिनः॑ ॥

सायणभाष्यम्

अप्सु जलेष्वंतर्मध्येऽमृतं पीयूषं वर्तते । तस्याब्विकारत्वात् । अमृतं वा अप इति श्रुत्यंतराच्च । तथैवाप्सु भेषजमौषधं वर्तते । क्षुद्रोगनिवर्तकस्यान्नस्याप्ककार्यत्वात् । उतापि च तादृशीनामपां देवतानां प्रशस्तये प्रशंसार्थं हे देवा ऋत्विजादयो ब्राह्मणाः । एते वै देवाः प्रत्यक्षं यद्ब्राह्मणा इति श्रुत्यंतरात् । वाजिनो वेगवंतो भवत । शीघ्रं स्तुतिं कुरुतेत्यर्थः ॥ अप्सु । ऊडिदमित्यादिना सप्तम्या उदात्तत्वम् । संहितायामुदात्तस्वरितयोर्यणः स्वरित इति स्वरितत्वम् । अमृतम् । नञो जरमरमित्रमृताः (पा ६-२-११६) इत्युत्तरपदाद्युदात्तत्वम् । प्रशस्तये । तादौ च निति (पा ६-२-५०) इति गतेः प्रकृतिस्वरत्वम् । भवत । आमंत्रितं पूर्वमविद्यमानवदिति पूर्वस्यामंत्रितस्याविद्यमानवत्त्वेन पादादित्वान्ननिघातः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११