मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २४, ऋक् १

संहिता

कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥

पदपाठः

कस्य॑ । नू॒नम् । क॒त॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ ।
कः । नः॒ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥

सायणभाष्यम्

कस्येत्यनयर्चा शुनःशेपो यूपे बद्धः कांदिशीकः कं देवमुपधावानीति विचकित्सति । तथा चाम्नायते । हंताहं देवता उपधावामीति स प्रजापतिमेव प्रथमं देवतानामुपससार । ऐ ब्रा ७-१६ । इति । वयं शुनःशेपनामका अमृतानां देवतानां मध्ये कतमस्य किंजातीयस्य कस्य देवस्य चारु शोभनं नाम मनामहे । उच्चारयामः । को देवो मां मुमूर्षुं पुनरपि मह्यै महत्यै अदितये पृथिव्यै दात् । दद्यात् । तेन दानेनाहममृतः सन् पितरं मातरं च दृशेयं । पश्येयं । को ह वै नाम प्रजापतिरिति श्रुतेः कस्येति शब्दसामान्यदनया प्रजापतिरेवोपसृत इति गम्यते ॥ कतमस्य । किंशब्दाद्वा बहूनां जातिपरिप्रश्ने डतमच् । पा ५ । ३ । ९३ । चित इत्यंतोदात्तत्वं । अमृतानां नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वे प्राप्ते नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वं । मनामहे । मन ज्ञाने । व्यत्ययेन शप् । पादादित्वादनिघातः । मह्यै । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं । दात् । गातिस्था । पा २-४-७७ । इति सिचो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडागमाभावः । दृशेयं दृशिर् प्रेक्षणे । आशीर्लिङि मिपोऽम् । दृशेरग्वक्तव्यः । म ३-१-८६-२ । इत्यक्प्रत्ययः । शपोऽपवादः । कित्त्वाल्लघूपधगुणाभावः । लिङ्याशिष्यङ् । पा ३-१-८६ । इत्यङि हि सति ऋदृशोऽङि गुणः । पा ७-४-१६ । इति गुणः स्यात् । यासुट् । सलोपः । अतो येयः । आद्गुणः । यासुटः स्वरेणैकार उदात्तः । मातरं चेत्यत्र च शब्दाद्दृशेयमित्यनुषज्यते । अतस्तदपेक्षयैषा तिङ्विभक्तिः प्रथमेति चवायोगे प्रथमेति न निहन्यते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३