मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३१, ऋक् १

संहिता

त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ ।
तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । प्र॒थ॒माः । अङ्गि॑राः । ऋषिः॑ । दे॒वः । दे॒वाना॑म् । अ॒भ॒वः॒ । शि॒वः । सखा॑ ।
तव॑ । व्र॒ते । क॒वयः॑ । वि॒द्म॒नाऽअ॑पसः । अजा॑यन्त । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः ॥

सायणभाष्यम्

हे अग्ने त्वं प्रथम आद्य आंगीरसानामृषीणां सर्वेषां जनकत्वात् । तादृशोंऽगिरोनामक ऋषिरभवः । तथा च ब्राह्मणम् । योंऽगारा असंस्तेंऽगिसोऽभवन् । ऐ ब्रा ३-३४ । इति । तथा स्वयं देवो भूत्वा देवानामन्येषां शिवः शोभनः सखाभवः । तवव्रते त्वदीये कर्मणि कवयो मेधाविनो विद्मनापसो ज्ञानेन व्याप्नुवाना ज्ञातकर्माणो वा भ्राजदृष्टयो दीप्यमानायुधा मरुतो मरुत्संज्ञका देवा अजायंत ॥ विद्मनापसः । विद ज्ञाने । विद्मो वेदनम् । बहुलग्रहणादौणादिको मक्प्रत्ययः । तदस्यास्तीति पामादिलक्षणो नः (पा ५-२-१००) प्रत्ययस्वरेणांतोदात्तत्वम् । विद्मनान्यपांसि येषां ते विद्मनापसः । पूर्वपदस्यान्येषामपि दृत्यत इति दृतिग्रहणादवग्रहसमयेऽपि दीर्घत्वम् । अजायंत । जनी प्रादुर्भावे । तस्य श्यनि ज्ञाजनोर्जा (पा ७-३-७९) इति जादेशः । भ्राजदृष्टयः । भ्राजृ दीप्तौ । व्यत्ययेन शतृ । तस्य लसार्वधातुकानुदात्तत्वे धातुस्वरः । ऋषी गतावित्यस्मात् क्तिच् क्तौ च संज्ञायामिति क्तिजंत ऋष्विशब्दः । ततो बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२