मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३१, ऋक् २

संहिता

त्वम॑ग्ने प्रथ॒मो अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तम् ।
वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे॑ ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । प्र॒थ॒मः । अङ्गि॑रःऽतमः । क॒विः । दे॒वाना॑म् । परि॑ । भू॒ष॒सि॒ । व्र॒तम् ।
वि॒ऽभुः । विश्व॑स्मै । भुव॑नाय । मेधि॑रः । द्वि॒ऽमा॒ता । श॒युः । क॒ति॒धा । चि॒त् । आ॒यवे॑ ॥

सायणभाष्यम्

हे अग्ने त्वं प्रथम आद्य अंगिरस्तमोऽतिशयेनांगिरा भूत्वा कविर्मेधावी सन् देवानामन्येषां व्रतं कर्म परि भूषसि । परितोऽलंकरोषि । कीदृशस्त्वम् । विश्वस्मै भुवनाय समस्तलोकानुग्रहार्थं विभुर्बहुविधः । आहवनीयाद्यनेकरूपधारीत्यर्थः । मेधीरो मेधावान् द्विमाता द्वयोररण्योरुत्पन्नः । यद्वा । द्वयोर्लोकयोर्निर्माता । आयवे मनुष्यार्थं कतिधा चित् कतिभिः प्रकारैः सर्वत्र शयुः शयानः । तत्तन्मनुष्यगृहेऽवस्थितस्य तव प्रकारा इयंत इति न केनापि ज्ञायत इत्यर्थः ॥ भूषसि । भूष अलंकारे । भौवादिकः । विभुः । विप्रसंभ्यो ड्वसंज्ञायाम् (पा ३-२-१८०) इति विपूर्वाद्भवतेर्डुप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । भुवनाय । भूदूसूभ्रस्जिभ्यश्छंदसि (उ २-८०) इति क्युन् । योरनादेशे नित्स्वरेणाद्युदात्तत्वम् । मेधिरः । मेधृ संगमे च । अस्माद्बाहुलक इरन्प्रत्ययः । नित्स्वरः । द्विमाता । द्वौ मातरौ यस्यासौ द्विमाता । समासस्येत्यंतोदात्तत्वम् । शयुः । शीङ् स्वप्ने । भृमृशीत्यादिना (उ १-७) उप्रत्ययः । कतिधा । डत्यंतस्य किंशब्दस्य बहुगणपतुडति संख्या (पा १-१-२३) इति संख्यासंज्ञायां संख्याया विधार्थेधा (पा ५-३-४२) इति धाप्रत्ययः । आयवे । छंदसीणः (उ १-२) इत्येतेरुण् प्रत्ययः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२