मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३२, ऋक् २

संहिता

अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष ।
वा॒श्रा इ॑व धे॒नव॒ः स्यन्द॑माना॒ अञ्ज॑ः समु॒द्रमव॑ जग्मु॒रापः॑ ॥

पदपाठः

अह॑न् । अहि॑म् । पर्व॑ते । शि॒श्रि॒या॒णम् । त्वष्टा॑ । अ॒स्मै॒ । वज्र॑म् । स्व॒र्य॑म् । त॒त॒क्ष॒ ।
वा॒श्राःऽइ॑व । धे॒नवः॑ । स्यन्द॑मानाः । अञ्जः॑ । स॒मु॒द्रम् । अव॑ । ज॒ग्मुः॒ । आपः॑ ॥

सायणभाष्यम्

पर्वते शिश्रियाणमाश्रितमहिं मेघमहन् । हतवान् । अस्मा इंद्राय स्वर्यं सुष्ठु प्रेरणीयं यद्वा शब्दनीयं स्तुत्यं त्वष्टा विश्वकर्मा वज्रं ततक्ष । तनूकृतवान् । तेन वज्रेण मेघे भिन्ने सति स्यंदमानाः प्रस्रवणयुक्ता आपः समुद्रमंजः सम्यगवजग्मुः प्राप्ताः । तत्र दृष्टांतः । वाश्रा वत्सान्प्रति हंभारवोपेता धेनव इव । यथा धेनवः सहसा वत्सगृहे गच्छंति तद्वत् ॥ शिश्रियाणाम् । श्रिञ् सेवायाम् । लिटः कानच् । द्विर्भावहलादिशेषेयजादेशाः । चित इत्यंतोदात्तत्वम् । स्वर्यम् । ऋ गतौ । अस्मात्सुपूर्वादृहलोर्ण्यदिति ण्यत् । संज्ञा पूर्वको विधिरनित्य इति वृद्ध्यभावः । यद्वा । स्वृ शब्दोपतापयोरित्यस्मात् ण्यति पूर्ववद्वृध्यभावः । तित्स्वरितमिति स्वरितत्वम् । वाश्यंत इति वाश्राः । वाशृ शब्दे । स्फायितंचीत्यादिना रक् । जग्मुः । उसि गमहनेत्युपधालोपः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६