मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३२, ऋक् ५

संहिता

अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यं॑स॒मिन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ ।
स्कन्धां॑सीव॒ कुलि॑शेना॒ विवृ॒क्णाहि॑ः शयत उप॒पृक्पृ॑थि॒व्याः ॥

पदपाठः

अह॑न् । वृ॒त्रम् । वृ॒त्र॒ऽतर॑म् । विऽअं॑सम् । इन्द्रः॑ । वज्रे॑ण । म॒ह॒ता । व॒धेन॑ ।
स्कन्धां॑सिऽइव । कुलि॑शेन । विऽवृ॑क्णा । अहिः॑ । श॒य॒ते॒ । उ॒प॒ऽपृक् । पृ॒थि॒व्याः ॥

सायणभाष्यम्

अयमिंद्रो वज्रेण संपादितो यो महान्वधस्तेन वज्रेण वृत्रतरमतिशयेन लोकानामावरकमंधकाररूपम् । यद्वा । वृत्रैरावरणैः सर्वांछत्रूंस्तरति तम् । वृत्रमेशन्नामकमसुरं व्यंसं विगतांसं छिन्नबाहुर्यथा भवति तथाहन् । हतवान् । अंसच्छेदे दृष्टांतः । कुलिशेन कुठारेण विवृक्णा विशेषतश्छिन्नानि स्कंधांसीव । यथा वृक्षस्कंधाश्छिन्ना भवंति तद्वत् । तथा सत्यहिर्वृत्रः पृथिव्या उपर्युपपृक् सामीप्येन संपृक्तः शयते । शयनं करोति । भिन्नकाष्ठवद्भूमौ पततीत्यर्थः ॥ वृत्रतरम् । वृतु वर्तने । स्फायिशंचीत्यादिना भावे रक्प्रत्ययांतो वृत्रशब्दः । वृत्रेणावरणेन सर्वं तरतीति वृत्रतरः । तरतेः पचाद्यच् । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । तरपि तु व्यत्ययेन । व्यंसम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्व उदात्तस्वरितयोर्यण इति स्वरितत्वम् । वधेन । हनश्च वध इति भावेऽप् । तत्संनियोगेन धातोर्वधादेशः । स चांतोदात्तः । अंत्यस्याकारस्यातो लोप इति लोप उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् । विवृक्णा । ओव्रश्चू छेदने । कर्मणि निष्ठा । यस्य विभाषेतीट् प्रतिषेधः । ओदितश्च (पा ८-२-४५) इति परत्वान्निष्ठानत्वम् । ततो व्रश्चभ्रश्चेति षत्वे प्राप्ते निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो वक्तव्यः । पा ८-२-६-७ । इति नत्वस्य सिद्धत्वेन झल्परत्वाभावात् षत्वं न भवति । कुत्वे तु कर्तव्ये तदसिद्धमेव (पा ८-२-१) इति चोः कुरिति कुत्वम् । शेश्छंदसि बहुलमिति शेर्लोपः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । शयते । बहुलं छंदसीति शपो लुगभावः । पृथिव्याः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं ॥ ३६ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६