मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३२, ऋक् ७

संहिता

अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान ।
वृष्णो॒ वध्रि॑ः प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ॥

पदपाठः

अ॒पात् । अ॒ह॒स्तः । अ॒पृ॒त॒न्य॒त् । इन्द्र॑म् । आ । अ॒स्य॒ । वज्र॑म् । अधि॑ । सानौ॑ । ज॒घा॒न॒ ।
वृष्णः॑ । वध्रिः॑ । प्र॒ति॒ऽमान॑म् । बुभू॑षन् । पु॒रु॒ऽत्रा । वृ॒त्रः । अ॒श॒य॒त् । विऽअ॑स्तः ॥

सायणभाष्यम्

अपाद्वज्रेण छिन्नत्वात्पादरहितः अहस्तो हस्तरहितो वृत्र इंद्र मुद्दिश्यापृतन्यत् । पृतनां युद्धमैच्छत् । द्वेषाधिक्येन बहुधा विद्धोऽपि युद्धं न परित्यक्तवानित्यर्थः । अस्य हस्त पादहीनस्य वृत्रस्य सानौ पर्वतसानुसदृशे प्रौढस्कंधेऽध्युपरि वज्रमा जघान । इंद्र अभिमुख्येन प्रक्षिप्तवान् । अशक्तस्यापि युद्धेच्छायां दृष्टांतः । वध्रिश्भिन्नमुष्कः पुरुषो वृष्णो रेतःसेचनसमर्थस्य पुरुषांतरस्य प्रतिमानं सादृश्यं बुभूषन् प्राप्तुमिच्छन् यथा न शक्नोति तद्वदयमिति शेषः । स वृत्रः पुरत्रा बहुष्ववयवेषु व्यस्तो विविधं क्षिप्तस्ताडितः सन् अशयत् । भूमौ पतितवान् ॥ अपात् । बहुव्रीहौ पादशब्दस्यांत्यलोपश्छांदसः । अहस्तः । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं । अपृतन्यत् । सुप आत्मनः क्यच् । कव्यध्वरपृतनस्येत्यंत्यलोपः । बुभूषन् । सनि ग्रहगुहोश्च । पा ७-२-१२ । इतीट् प्रतिषेधः । पुरुत्रा । देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलं । पा ५-४-५६ । इति सप्तम्यर्थे त्राप्रत्ययः । अशयत् । व्यत्ययेन परस्मैपदं । बहुलं छंदसीति शपो लुगभावः । व्यस्तः । असु क्षेपण इत्यस्मात्कर्मणि क्तः । यस्य विभाषेतीट् प्रतिषेधः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं । संहितायामुदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७