मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३२, ऋक् १०

संहिता

अति॑ष्ठन्तीनामनिवेश॒नानां॒ काष्ठा॑नां॒ मध्ये॒ निहि॑तं॒ शरी॑रम् ।
वृ॒त्रस्य॑ नि॒ण्यं वि च॑र॒न्त्यापो॑ दी॒र्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः ॥

पदपाठः

अति॑ष्ठन्तीनाम् । अ॒नि॒ऽवे॒श॒नाना॑म् । काष्ठा॑नाम् । मध्ये॑ । निऽहि॑तम् । शरी॑रम् ।
वृ॒त्रस्य॑ । नि॒ण्यम् । वि । च॒र॒न्ति॒ । आपः॑ । दी॒र्घम् । तमः॑ । आ । अ॒श॒य॒त् । इन्द्र॑ऽशत्रुः ॥

सायणभाष्यम्

वृत्रस्य शरीरमापो वि चरंति । विशेषेणोपर्याक्रम्य प्रवहंति । कीदृशं शरीरम् । निण्यं निर्नामधेयम् । अप्सु मग्नत्वेन गूढत्वात्तदीयं नाम न केनापि ज्ञायते । एतदेव स्पष्टीक्रियते । काष्ठानामपां मध्ये निहितं निक्षिप्तम् । कीदृशानां काष्ठानाम् । अतिष्ठंतीनां स्थितिरहितानां अनिवेशनानामुपवेशनरहितानाम् । प्रवहणस्वभावत्वादेतासां मनुष्यवन्न क्वापि स्थिति संभवति । इंद्रशत्रुर्वृत्रो जलमध्ये शरीरे प्रक्षिप्ते सति दीर्घं तमो दीर्घं निद्रात्मकं मरणं यथा भवति तथा आशयत् । सर्वतः पतितवान् ॥ अतिष्ठंतीनाम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अनिवेशनानाम् । निविशंतेऽस्मिन्निति निवेशनं स्थानम् । करणाधिकरणयोश्चेत्यधिकरणे ल्युट् । तद्रहितानाम् । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । क्रांत्वा स्थिताः काष्ठाः । पृषोदरादि । निहितम् । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं ॥ अत्र यास्कः । अतिष्ठंतीनामनिविशमानानामित्यस्थावराणां काष्ठानां मध्ये निहितं शरीरं मेघः । शरीरं शृणातेः शम्नातेर्वा । वृत्रस्य निण्यं निर्णामं विचरंति विजानंत्यास इति दीर्घं द्राघतेस्तमस्तनोतेराशयदाशेतेरिंद्रशत्रुरिंद्रोऽस्य शमयिता वा शातयिता वा तस्मादिंद्रशत्रुः । तत्को वृत्रो मेघ इति नैरुक्तास्त्वाष्ट्रोऽसुर इत्यैतिहासिकाः ॥ नि । २ । १६ । इति ॥ ३७ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७