मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३२, ऋक् १२

संहिता

अश्व्यो॒ वारो॑ अभव॒स्तदि॑न्द्र सृ॒के यत्त्वा॑ प्र॒त्यह॑न्दे॒व एकः॑ ।
अज॑यो॒ गा अज॑यः शूर॒ सोम॒मवा॑सृज॒ः सर्त॑वे स॒प्त सिन्धू॑न् ॥

पदपाठः

अश्व्यः॑ । वारः॑ । अ॒भ॒वः॒ । तत् । इ॒न्द्र॒ । सृ॒के । यत् । त्वा॒ । प्र॒ति॒ऽअह॑न् । दे॒वः । एकः॑ ।
अज॑यः । गाः । अज॑यः । शू॒र॒ । सोम॑म् । अव॑ । अ॒सृ॒जः॒ । सर्त॑वे । स॒प्त । सिन्धू॑न् ॥

सायणभाष्यम्

सृके वज्रे । सृको वृक इति वज्रनामसु पठितत्वात् । देवो दीप्यमानः सर्वायुधकुशल एकोऽद्वितीयो वृत्रो यद्यदा त्वा त्वां प्रत्यहन् प्रतिकूलत्वेन प्रहृतवान् तत्तदानीं त्वमश्व्यो वारोऽश्वसंबंधी वालोऽभवः । यथाश्वस्य वालोऽनायसेन मक्षिकादीन्नि वारयति तद्वद्वृत्रमगणयित्वा निराकृतवानित्यर्थः । किंच गाः पणिनापहृतास्त्वमजयः । जितवान् । हे शूर शौर्ययुक्तेंद्र सोम मजयः । जितवान् । तथा च तैत्तिरीयाः त्वष्टा हतपुत्र इत्यस्मिन्नु पाख्याने समामनंति । स यज्ञ वेशसं कृत्वा प्रासहा सोममपिबत् । तै सं २-४-१२-१ । इति । सप्तसिंधून् इमं मे गंगे । ऋग्वे १०-७५-५ । इत्यस्यामृच्याम्नाता गंगाद्याः सप्तसंख्याका नदीः सर्तवे सर्तुं प्रवाहरूपेण गंतुमवासृजः । त्यक्तवान् । वृत्रकृतम् । प्रवाहनिरोधं निराकृतवानित्यर्थः ॥ अश्व्यः । अश्वे भवः । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । वारयति दंशमशकानिति वारः । पचाद्यच् । कपिलकादित्वाल्लत्वविकल्पः (म ८-२-१८) वृषादित्वादाद्युदात्तत्वम् । प्रत्यहन् । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । अजयः । गा इत्यस्य वाक्यांतरगतत्वात्तदपेक्षयास्य तिङ्ङतिङ इति निघातो न भवति । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः । पा १-१-१८-५ । इति वचनात् । सर्तवे । तुमर्थे सेसेनिति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८