मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३२, ऋक् १४

संहिता

अहे॑र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् ।
नव॑ च॒ यन्न॑व॒तिं च॒ स्रव॑न्तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥

पदपाठः

अहेः॑ । या॒तार॑म् । कम् । अ॒प॒श्यः॒ । इ॒न्द्र॒ । हृ॒दि । यत् । ते॒ । ज॒घ्नुषः॑ । भीः । अग॑च्छत् ।
नव॑ । च॒ । यम् । न॒व॒तिम् । च॒ । स्रव॑न्तीः । श्ये॒नः । न । भी॒तः । अत॑रः । रजां॑सि ॥

सायणभाष्यम्

हे इंद्र जघ्नुषो वृत्रं हतवतस्तव हृदि चित्ते यद्यदि भीरगच्छत् न हतवानस्मीति बुद्ध्या भयं प्राप्नुयात् तर्ह्यहेर्वृत्रस्य यातारं हंतारं कमपश्यः । त्वत्तोऽन्यं कं पुरुषं दृष्टवानसि । तादृशस्य पुरुषांतरस्याभ्यावान्मा भूत्तव भयमित्यर्थः । यद्यस्मात्कारणात्त्वं नव च नवतिं च स्रवंतीरेकोनशतसंख्याकाः प्रवहंतीर्नदीः प्राप्य रजांसि तत्रत्यान्युदकान्यतिरः । तीर्णवानसि । तत्र दृष्टांतः । श्येनो न । श्येननामको बलवान्पक्षीव दूरगमनात्तव भयमासीदिति गम्यते । तद्भयं मा भूदित्यभिप्रायः । तच्च दूरगमनं ब्राह्मणे । समाम्नातम् । इंद्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगच्छत् । ऐ ब्रा ३-१५ । इति । तैत्तरीयाश्चामनंति । इंद्रो वृत्रं हत्वा परां परावतमगच्छदपराधमिति मन्यमानः । तै ब्रा १-६-७-४ । इति ॥ हृदि । पद्दन्नित्यादिना हृदयशब्दस्य हृदादेशः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । जघ्नुषः । हंतेर्लिटः क्वसुः । षष्ठ्येकवचने वसोः संप्रसारणमिति संप्रसारणपरपूर्वत्वे । शासिवसिघसीनां चेति षत्वम् । न च षत्वतुकोरसिद्धः (पा ६-१-८६) इत्येकादेशस्यासिद्धत्वात् षत्वं न प्राप्नुयादिति वाच्यं संप्रसारणङीट् सु प्रतिषेधो वक्तव्यः । का ६-१-८६-१ । इत्यसिद्धवद्भावस्य प्रतिषिद्धत्वात् । गमहनेत्यादिनोपधालोपः । न चासिद्धवदत्रा भादिति संप्रसारणस्यासिद्धवद्भावः । भिन्नाश्रयत्वात् । संप्रसारणं हि षष्ठ्येकवचने उपधालोपस्तु वसाविति भिन्नाश्रयत्वम् । स्रवंतीः । स्रु गतौ । सप्श्यनोर्नित्यम् (पा ७-१-८१) इति नुमागमः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेणाद्युदात्तत्वम् । अतरः । यद्वृत्तयोगादनिघातः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८