मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३३, ऋक् ३

संहिता

नि सर्व॑सेन इषु॒धीँर॑सक्त॒ सम॒र्यो गा अ॑जति॒ यस्य॒ वष्टि॑ ।
चो॒ष्कू॒यमा॑ण इन्द्र॒ भूरि॑ वा॒मं मा प॒णिर्भू॑र॒स्मदधि॑ प्रवृद्ध ॥

पदपाठः

नि । सर्व॑ऽसेनः । इ॒षु॒ऽधीन् । अ॒स॒क्त॒ । सम् । अ॒र्यः । गाः । अ॒ज॒ति॒ । यस्य॑ । वष्टि॑ ।
चो॒ष्कू॒यमा॑णः । इ॒न्द्र॒ । भूरि॑ । वा॒मम् । मा । प॒णिः । भूः॒ । अ॒स्मत् । अधि॑ । प्र॒ऽवृ॒द्ध॒ ॥

सायणभाष्यम्

सर्वसेनः कृत्स्नसेनायुक्त इषुधीन्बाणानामाधारभूतान्निषंगान्न्यसक्त । नितरां पृष्ठभागे संयोजितवान् । अर्यः स्वामिरूप इंद्रो यस्य देवस्य वष्टि असुरेणापहृता गाः प्रदातुं कामयते तस्य देवस्य गृहे ता गाः समजति । सम्यक् । प्रापयति । हे प्रवृद्ध प्रकृष्टवृद्धियुक्तेंद्र भूरि वामं प्रभूतं गोरूपं धनं चोष्कूयमाणोऽस्मभ्यं प्रयच्छन् अस्मदध्यस्मासु पणिर्मा भूः । व्यवहारी मा भूयाः गवां मूल्यं मा याचस्वेत्यर्थः ॥ सर्वसेनः । इनेन सह वर्तत इति सेना । वोपसर्जनस्येति सभावः । सर्वा सरणशीला सेना यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । प्रत्ययलक्षणेनाप्ययम् । स्वर इष्यते । का ६-१-१९१ । इति वचनात्प्रत्ययलक्षणेन सर्वस्य सुपि (पा ६-१-१९१) इति सर्वशब्द आद्युदात्तः । इषुधीन् । इषव एषु धीयंत इतीषुधयः । कर्मण्यधिकरणे च (पा ३-३-९३) इति किप्रत्ययः । संहितायां दीर्घादटीत्यादीना नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा (पा ८-३-२) इति पूर्वस्वरोऽनुनासिकः । असक्तः । षच समवाये । बहुलं छंदसीति शपो लुक् । अर्यः । अर्यःस्वामिवैश्ययोः पा ३-१-१०३ । इति यत्प्रत्ययांतो निपातितः । अर्यस्य स्वाम्याख्या चेत् (फि १-१८) इत्यंतोदात्तत्वम् । अजति । अज गतिक्षेपणयोः । वष्टि । वश कांतौ । अदादित्वाच्छपो लुक् । व्रश्चादिषत्वे ष्टुत्वम् । चोष्कूयमाणः । स्कुञ् आप्रवणे । धातोरेकाच इति यङ् । अकृत्सार्वधातुकयोर्दीर्घः । द्विर्वचने शर्पूर्वाः खयः (पा ७-४-६१) इति ककारः शिष्यते । सकारो लुप्यते । कुहोश्चुरिति चुत्वे गुणो यङ् लुकोरिति गुणः । सुषामादित्वात् षत्वम् । यङंताल्लटः शानच् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । भूः । गातिस्थेति सिचो लुक् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः