मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३३, ऋक् ६

संहिता

अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया॑तयन्त क्षि॒तयो॒ नव॑ग्वाः ।
वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिन्द्रा॑च्चि॒तय॑न्त आयन् ॥

पदपाठः

अयु॑युत्सन् । अ॒न॒व॒द्यस्य॑ । सेना॑म् । अया॑तयन्त । क्षि॒तयः॑ । नव॑ऽग्वाः ।
वृ॒ष॒ऽयुधः॑ । न । वध्र॑यः । निःऽअ॑ष्टाः । प्र॒वत्ऽभिः॑ । इन्द्रा॑त् । चि॒तय॑न्तः । आ॒य॒न् ॥

सायणभाष्यम्

अनवद्यस्य गर्हणीयदोषरहितस्येंद्रस्य सेनां प्रत्ययुयुत्सन् । वृत्रस्यानुचरा योद्धुमैच्छन् । तदानीं नवग्वा नवनीयगतयः स्तोतव्यचरित्राः । यद्वा । अंगिरसां सत्रमासीनानां मध्ये ये नवभिर्मासैरवाप्तफला उत्थितास्तेषां नवग्वा इति संज्ञा । नवग्वासः सुतसोमास इद्रम् । ऋग्वे ५-२९-१२ । इत्यादिषु तथाभिहितत्वात् । क्षितयो मनुष्या अंगिरःप्रभृतयः । क्षितयः कृष्टय इति तन्नामसु पाठात् । अयातयंत । युध्धार्थमिंद्रं नानाविधैर्मंत्रै प्रोत्साहितवंतः । इंद्रे योद्धुं गते सति निरष्टास्तेनेंद्रण निराकृता वृत्रानुचराश्चितयंतः स्वकीयामशक्तिं ज्ञापयंत इंद्रादिंद्रस्य सकाशात्प्रवद्भिः प्रवणैः पालयितुं सुशकैर्मार्गैरायन् । दूरे गतवंतः । तत्र दृष्टांतः । वृषायुधो वृषेण सेचनसमर्थेन पुंस्त्वयुक्तेन शूरेण सह युद्धं कुर्वंतो वध्रयो न नपुंसका इव । निसर्गपंडो वध्रिश्चेत्यादिस्मृतिषु प्रयोगात् । ते यथा प्रबलेन दूरे निराकृता भवंति तद्वत् ॥ अयुयुत्सन् । युध संप्रहारे । सनि हलंताच्च (पा १-२-१०) इति सनः कित्त्वाद्गुणाभावः । एकाच उपदेशेऽनुदात्तात् (पा ७-२-१०) इतीट् प्रतिषेधः । व्यत्ययेन परस्मैपदम् । सेनाम् । इनेन सह वर्तत इति सेना वोपसर्जनस्येति सहशब्दस्य सभावः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । आयातयंत । यती प्रयत्ने । हेतुमति चेति णिच् । क्षितयः । क्षि निवासगत्योः । क्षियंति गच्छंतीति क्षितयो मनुष्याः । क्तिच् क्तौ च संज्ञायामिति क्तिच् । नवग्वाः । नवभिर्मासैर्गच्छंतीति नवग्वाः । गमेरौणादिको ड्वप्रत्ययः । यद्वा । क्विपि गमः क्तौ (पा ६-४-४०) इत्यनुनासिकलोप ऊ च गमादीनामिति वक्तव्यम् । पा ६-४-४०-२ । इत्यकारस्य ऊकारः । जस्योः सुपि (पा ६-४-८३) इति यणादेशः । दीर्घश्चांदसः । वृषायुधः । क्विप्चेति क्विप् । क्विप्चेत्यत्र सोमपदेभ्यो निरुपपदेभ्यः । का ३-२-७६ । इत्युक्तत्वादत्र सोपपदेभ्यः क्विप् । अन्येषामपि दृश्यत इति पूर्वपदस्य संहितायां दीर्घः । निरष्टाः । अशू व्याप्तौ । भावे निष्ठा । यस्य विभाषेतीट् प्रतिषेधः । व्रश्चादिना षत्वे ष्टुत्वम् । निसा च बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । निरस्ता इत्यत्र सकारस्य षत्वं छांदसम् । तदानीमस्ता इत्येतत्कर्मणि निष्ठेति गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । प्रवद्भिः । वन षण संभक्तौ । अस्मात्प्रपूर्वात् क्विप् । गमादीनामिति वक्तव्यम् । पा ६-४-४०-१ । इत्यनुनासिकलोपः । ततस्तुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । चितयंतः । चिती संज्ञाने । अस्माण्यंताल्लटः शतृ । शप् अनित्यमागमशासनमिति वचनाल्लघूपधगुणाभावः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः