मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३३, ऋक् ११

संहिता

अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अ॒स्याव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम् ।
स॒ध्री॒चीने॑न॒ मन॑सा॒ तमिन्द्र॒ ओजि॑ष्ठेन॒ हन्म॑नाहन्न॒भि द्यून् ॥

पदपाठः

अनु॑ । स्व॒धाम् । अ॒क्ष॒र॒न् । आपः॑ । अ॒स्य॒ । अव॑र्धत । मध्ये॑ । आ । ना॒व्या॑नाम् ।
स॒ध्री॒चीने॑न । मन॑सा । तम् । इन्द्रः॑ । ओजि॑ष्ठेन । हन्म॑ना । अ॒ह॒न् । अ॒भि । द्यून् ॥

सायणभाष्यम्

आपो जलान्यस्येंद्रस्य स्वधामन्नं व्रीह्यादिरूपमनुलक्ष्याक्षरन् । मेघाद्वृष्टा अभवन् । तदानीमयं वृत्रो नाव्यानां नावा तरणयोग्यानां बह्वीनामपा मध्ये आ समंतादवर्धत । वृद्धिं प्राप्तः । प्रभूतजले वर्तमानोऽपि न ममार । किंत्वभिवृद्ध एव । तदानीमिंद्रः सध्रीचेनेन सहगच्छता मनसा युक्तं तं वृत्रमोजिष्ठेनातिबलयुक्तेन हन्मना हननसाधनेन वज्रेणाभि द्यून् कतिचिद्दिवसानभिलक्ष्याहन् । तेषु दिवसेषु हतवान् । जलमध्ये पतितस्यापि वृत्रस्य मनो यत्रेंद्रस्तिष्ठति तत्रैव सह गच्छति तादृसमभिज्ञाय स हतवानित्यर्थः ॥ अक्षरन् । क्षर संचलने । नाव्यानाम् । नावा तार्याणाम् । नौवयोधर्मेत्यादिना (पा ४-४-९१) यत् । वांतो यि प्रत्यये (पा ६-१-७९) इत्यावादेशः । अनाव इति पर्युदा सात् (पा ६-१-२१३) तित्स्वरितमिति प्रत्ययस्वरितत्वम् । सध्रीचीनेन सहांचतीति सध्र्यङ् । सहस्य सध्रीः (पा ६-३-९५) इति सध्र्यादेशः । विभाषांचेरदिक्स्त्रियाम् (पा ५-४-७८) इति स्वार्थे खप्रत्ययः । तस्यायन्नित्यादिना ईनादेशः । अच इत्यकारलोपे चाविति दीर्घत्वम् । खादेशस्योपदेशिवद्वचनादीकार उदात्तः । ओजिष्ठेन । ओजोऽस्यास्तीत्योजस्वी । अस्मायामेधेति विनिः । तत आतिशायनिक इष्ठन् । विन्मतोर्लुगिति विनो लुक् । टेरिति टलोपः । नित्त्वादाद्युदात्तत्वम् । हन्मना । हन्यतेऽनेनेति हन्म । अन्येभ्योऽपि दृश्यंत इति दृशिग्रहणात्करणेऽपि मनिन् । नित्त्वादाद्युदात्तत्वम् । तृतीयैकवचनेऽल्लोपे प्राप्ते न संयोगाद्वमंतात् (पा ६-४-१३७) इति प्रतिषेधः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः