मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३३, ऋक् १३

संहिता

अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॒न्वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑ऽभेत् ।
सं वज्रे॑णासृजद्वृ॒त्रमिन्द्र॒ः प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः ॥

पदपाठः

अ॒भि । सि॒ध्मः । अ॒जि॒गा॒त् । अ॒स्य॒ । शत्रू॑न् । वि । ति॒ग्मेन॑ । वृ॒ष॒भेण॑ । पुरः॑ । अ॒भे॒त् ।
सम् । वज्रे॑ण । अ॒सृ॒ज॒त् । वृ॒त्रम् । इन्द्रः॑ । प्र । स्वाम् । म॒तिम् । अ॒ति॒र॒त् । शाश॑दानः ॥

सायणभाष्यम्

अस्येंद्रस्य सिध्मः साधको वज्रः शत्रूनभि इंद्रवैरिणोऽभिलक्ष्याजिगात् । गतवान् । जिगातिर्गतिकर्मा । गाति जिगातीति गतिकर्मसु पाठात् । स चेंद्रस्तिग्मेन तीक्ष्णेन वृषभेण श्रेष्ठेनायुधेन तेन वज्रेण पुरो वृत्रस्य पुराणि व्यभेत् । विविधं भिन्नवान् । ततः स इंद्रो वज्रेन स्वकीयेन वृत्रं समसृजत् । संयोजितवान् । संयोज्य च शाशदानो वृत्रं हिंसन् स्वां मतिं स्वकीयां हर्षोपेतां बुद्धिं प्रातिरत् । प्रकर्षेण वर्धितवान् ॥ सिध्मः । षिधु संराध्धौ । अस्मादौणादिको मक् । कित्त्वादगुणः । प्रत्ययस्वरः । अजिगात् । गा स्तुतौ । अत्र तु गत्यर्थः । जुहोत्यादित्वात् श्लुः । द्विर्भावे बहुलं छंदसीत्यभ्यासस्येत्वम् । तिग्मेन । युजिरुचितिजां कुश्च (उ १-१४५) इति मक् । कुत्वम् । वृषभेण । ऋषिवृषिभ्यां कित् (उ ३-१२३) इत्यनेनाभच् । अभेत् । भिदिर् विदारणे । श्नमि प्राप्ते व्यत्ययेन शप् । तस्य बहुलं छंदसीति लुक् । लघूपधगुणे हल्ङ्याब्भ्य इति लोपः । यद्वा । लुङि च्लेर्लुक् । आतिरत् । प्रपूर्वस्तिरतिव र्धनार्थः । यद्वा । तरतेर्व्यत्ययेन शः । ऋत इद्धातोरितीत्वम् । शाशदानः । शद्लृ शातने । अस्माद्यङंताच्छानच् । तस्य छंदस्युभयथेत्यार्धधातुकत्वादतोलोपयलोपौ । सार्वधातुकत्वादभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः