मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३४, ऋक् १

संहिता

त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना ।
यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभि॑ः ॥

पदपाठः

त्रिः । चि॒त् । नः॒ । अ॒द्य । भ॒व॒त॒म् । न॒वे॒द॒सा॒ । वि॒ऽभुः । वा॒म् । यामः॑ । उ॒त । रा॒तिः । अ॒श्वि॒ना॒ ।
यु॒वोः । हि । य॒न्त्रम् । हि॒म्याऽइ॑व । वास॑सः । अ॒भि॒ऽआ॒यं॒सेन्या॑ । भ॒व॒त॒म् । म॒नी॒षिऽभिः॑ ॥

सायणभाष्यम्

हे नवेदसाश्विना मेधाविनावश्विदेवौ । नवेदा इति मेधाविनाम नवेदाः कविर्मनीषीति तन्नामसु पठितत्वात् । तादृशौ युवां त्रिश्चित् त्रिवारमप्यद्यास्मिन र्मणि नोऽस्मदर्थं भवतम् । आगतौ भवतम् । अत्र त्रिरिति वचनं सवनत्रयापेक्षम् । आदरातिशयद्योतनार्थं वा । त्रिषत्या हि देवा इति श्रुत्यंतरात् । वां युवयोर्यामो गमनसाधनभूतो रथो विभुर्व्याप्तः । उतापि च रातिर्दानं विभुरिति शेषः । युवोर्युवयोरुभयोर्यंत्रं हि परस्परनियमरूपः संबंधविशेषोऽस्ति खलु । तत्र दृष्टांतः । वाससः सूर्यरश्म्याच्छादनयुक्तस्य वासरस्य हिम्येव । हिमयुक्तया रात्र्येव । यथा रात्र्या सह दिवसस्य संबंधः कदाचिदपि नापैति तद्वत् । युवामुभौ मनीषिभिर्मेधाविभिर्ऋृत्विग्भिः । मनिषीति मेधाविनाम मनीषी मंधातेति तन्नामसु पठितत्वात् । अभ्यायंसेन्याभितो नियंतव्यौ अनुग्रहवशात्तदधीनौ भवतं ॥ अद्य । निपातस्य चेति संहितायां दीर्घः । न वेदसा । विपरीतं नवित्त इति नवेदसौ । विद ज्ञान इत्यस्मादौणादिकोऽसुन् । नञ् समासे न भ्राण्नपादित्यादिना नकारस्य प्रकृतिभावः । सुपां सुलुगित्याकारः । आमंत्रितनिघातः । यामः । यायते गम्यतेऽनेनेति यामो रथः । अतिस्तुस्वित्यादिना मन् । नित्त्वादाद्युदात्तत्वम् । यद्वा । यम उपरम इत्यस्मात्कर्मणि घञ् । वृषादिषु पाठादाद्युदात्तत्वम् । रातिः । रा दान इत्यस्माद्भावे क्तिन् । मंत्रे वृषेत्यादिना तस्योदात्तत्वम् । युवोः । सुपां सुपो भवंतीति षष्ठीद्विवचनस्य षष्ठीद्विवचनादेशः । अत आदेशविषयत्वाद्योऽचि (पा ७-२-८९) इति यत्वं न भवति । शेषे लोप इति टलोप उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । अंत्यलोपपक्षे त्वेकादेशस्वरेण । हिम्या इव । हिमेति रात्रिनाम ऊधः पयो हिमेति तन्नामसु पठितत्वात् । हनेर्हि च (उ १-१४६) इति मक् । हंति पद्मानीति हिमम् । अर्शआद्यच् । हिमा रात्रिः । तत उत्तरस्य तृतीयैकवचनस्य सुपां सुलुगिति ड्यादेशः । ततष्टिलोप उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । वाससः । वस आच्छादने वासयति प्रकाशेनाच्छादयतीत्यहर्वासः । अभ्यायंसेन्या । अभ्याङित्युपसर्गद्वयोपसृष्टाद्यम उपरम इत्यस्मादौणादिकः सेन्यप्रत्ययः । सुपां सुलुगित्याकारः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः