मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३४, ऋक् ४

संहिता

त्रिर्व॒र्तिर्या॑तं॒ त्रिरनु॑व्रते ज॒ने त्रिः सु॑प्रा॒व्ये॑ त्रे॒धेव॑ शिक्षतम् ।
त्रिर्ना॒न्द्यं॑ वहतमश्विना यु॒वं त्रिः पृक्षो॑ अ॒स्मे अ॒क्षरे॑व पिन्वतम् ॥

पदपाठः

त्रिः । व॒र्तिः । या॒त॒म् । त्रिः । अनु॑ऽव्रते । जने॑ । त्रिः । सु॒प्र॒ऽअ॒व्ये॑ । त्रे॒धाऽइ॑व । शि॒क्ष॒त॒म् ।
त्रिः । ना॒न्द्य॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । पृक्षः॑ । अ॒स्मे इति॑ । अ॒क्षरा॑ऽइव । पि॒न्व॒त॒म् ॥

सायणभाष्यम्

हे अश्विना युवं त्रिर्वर्तिर्यातं । अस्मदीयवर्तनसाधनं गृहं त्रिर्यातं । त्रिवारं प्राप्नुतं । तथानुव्रतेऽस्मदनुकूलव्यापारयुक्ते जने त्रिर्यातं । त्रिवारं तदनुग्रहाय गच्छतं । त्रिः सुप्राव्ये त्रिवारं सुष्टुं प्रकर्षेण भवद्भ्यां रक्षणीये प्रवर्तमानानस्मान् त्रेधेव त्रिभिरेव प्रकारैः शिक्षतं । पुनःपुनरनुष्ठानमुपदेष्वव्यमित्यर्थः । तथा नांद्यं नंदनीयं संतोषकरं फलं त्रिर्वहतं । प्रापयतं । अस्मे अस्मासु पृक्षोऽन्नं त्रिः पिन्वतं । त्रिवारं प्रयच्छतं । तत्र दृष्टांतः । अक्षरेव । अक्षराण्युदकानि अक्षरा स्रोतस्तृप्तिरिति तन्नामसु पाठात् । तानि पर्जन्यो यथा प्रयच्छति तद्वत् ॥ वर्तिः । वर्ततेऽत्रेति वर्तिर्गृहं । हृपिषिरुहिवृतीत्यादीना । उ ४-११८ । इप्रत्ययः । सुपां सुलुगिति द्वितीयैकवचनस्य सुआदेशः । सुप्राव्ये । उपसर्गद्वयोपसृष्टादवतेः कर्मणि ण्यत् । संज्ञापूर्वको विधिरिनित्य इति वृद्ध्यभावः । तित्स्वरितमिति स्वरितत्वं । शिक्षतं । शिक्ष विद्योपादाने । नांद्यं । ण्यदंतः । पृक्षः । पृची संपर्के । असुनि सुडागमः । अस्मे । सुपां सुलुगिति शे आदेशः । अक्षरा इव । अश्नुवते व्याप्नुवंतीत्यक्षराण्युदकानि । औणादिक क्सरप्रत्ययः । शेर्लोपः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः