मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३५, ऋक् ४

संहिता

अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म् ।
आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥

पदपाठः

अ॒भिऽवृ॑तम् । कृश॑नैः । वि॒श्वऽरू॑पम् । हिर॑ण्यऽशम्यम् । य॒ज॒तः । बृ॒हन्त॑म् ।
आ । अ॒स्था॒त् । रथ॑म् । स॒वि॒ता । चि॒त्रऽभा॑नुः । कृ॒ष्णा । रजां॑सि । तवि॑षीम् । दधा॑नः ॥

सायणभाष्यम्

सविता रथमास्थात् । आस्थितवान् । आरूढवानित्यर्थः । कीदृशम् । अभीवृतं अभितो वर्तमानम् । तथा कृशनैर्विश्वरूपं सुवर्णेन नानारूपम् । कृशनं लोहमिति सुवर्णनामसु पाठात् । क्वचित्सुवर्णनिर्मितगजपंक्तिः क्वचिदश्वपंक्तिः क्वचिन्मनुष्यपंक्तिरित्येवं बहुरूपत्वम् । हिरण्यशम्यम् । अश्वानां स्कंधेषु रथयोजनवेलायां नियंतुं प्रक्ष्येप्यमाणाः शंकवः शम्याः । ताः सुवर्णमय्यो रथे वर्तंते । बृहंतं प्रौढम् । कीदृशः सविता । यजतो यष्टव्यः । चित्रभानुर्विविधरश्मियुक्तः कृष्णा रजांस्यंधकारयुक्ततया कृष्णवर्णान् लोकानुद्दिस्य तमोनिवारर्णार्थं तविषीं बलं स्वकीयं प्रकाशरूपं दधानः । अभीवृतम् । अभितो वर्तत इत्यभीवृत् । वृतु वर्तने । क्विपि नहिवृतीत्यादिना (पा ६-३-११६) पूर्वपदस्य दीर्घत्वम् । विश्वरूपम् । विश्वानि रूपाणि यस्यासौ विश्वरूपः । बहुव्रीहौ विश्वं संज्ञायामिति व्यत्ययेनासंज्ञायामपि पूर्वपदांतोदात्तत्वम् । हिरण्यशम्यम् । हर्य गतिकांत्योः । हर्यतेः कन्यन् हिर च (उ ५-४४) इति कन्यन्प्रत्ययो धातोर्हिरादेशश्च । नित्त्वादाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदपकृतिस्वरत्वम् । आस्थात् । तिष्ठतेर्लुङि गातिसेति सिचो लुक् । कृष्णा । कृषेर्वर्णे (उ ३-४) इति नक्प्रत्ययः । शेश्छंदसि बहुलमिति शेर्लोपः । तविषीम् । तवतिः सौत्रो धातुः । तवतेर्णिद्वा (उ १-४९) इति टषच् । टत्त्वाट्टड्ढाणञित्यादिना ङीप् । व्यत्ययेनाद्युदात्तत्वं वृषादित्वाद्द्रष्टव्यम् । दधानः । शानच्यभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः