मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३५, ऋक् ८

संहिता

अ॒ष्टौ व्य॑ख्यत्क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् ।
हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥

पदपाठः

अ॒ष्टौ । वि । अ॒ख्य॒त् । क॒कुभः॑ । पृ॒थि॒व्याः । त्री । धन्व॑ । योज॑ना । स॒प्त । सिन्धू॑न् ।
हि॒र॒ण्य॒ऽअ॒क्षः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् । दध॑त् । रत्ना॑ । दा॒शुषे॑ । वार्या॑णि ॥

सायणभाष्यम्

पृथिव्याः संबंधिनीरष्टौ ककुभः प्राच्याद्याश्चतस्रो दिश आग्नेय्याद्याश्चतस्रो विदिश इत्येवमष्टौ दिशो व्यख्यत् । सविता प्रकाशितवान् । तथा योजना प्राणिनः स्वस्वभोगेन योजयितृन्धन्व अंतरिक्षोपलक्षितान् त्री त्रिसंख्याकान्पृथिव्यादिलोकान् सप्त सिंधून् गंगादिनदीः समुद्रान्वा सविता व्यख्यत् । हिरण्याक्षः । हितरमणीयचक्षुर्युक्तो हिरण्यमयाक्षो वा सविता देव आगात् । इहागच्छतु । किं कुर्वन् । दाशुषे हविर्दत्तवते यजमानाय वार्याणि वरणीयानि रत्नानि दधत् । प्रयच्छन् ॥ अख्यत् । ख्यातेर्लुङ्यस्यतिवक्तीत्यादीना च्लेरङादेशः । त्री । शेश्छंदसि बहुलमिति शेर्लोपः । धन्व । रिवि रवि धवि गत्यर्थाः । इदितो नुम् धातोरिति नुम् । अस्मात्कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिव इति कनिन् । सुपां सुलुगिति विभक्तेर्लुक् । न लोपः । प्रत्ययस्य नित्त्वादाद्युदात्तत्वम् । योजना । योजयंति प्राणिन उपभोगेनेति योजनानि नंद्यादिलक्षणो ल्युः । णेरनिटीति णिलोपः । पूर्ववच्छेर्लोपः । हिरण्याक्षः । हिरण्यमयान्यक्षीणि यस्यासौ हिरण्याक्षः । बहुव्रीहौ सक्थ्यक्ष्णो (पा ५-४-११३) इति समासांतः षच् प्रत्ययः । अगात् । एतेलुङिणो गा लुङि (पा २-४-४५) इति गादेशः । गातिस्थेति सिचो लुक् । दधत् । शतरि नाभ्यस्ताच्छतुरिति नुमागमप्रतिषेधः । श्नाभ्यस्तयोरात इत्याकारलोपः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । दाशुषे । दाश्वान्साह्वानित्यादिना क्वसुप्रत्ययांतो निपातितः । चतुर्थ्यॆकवचने वसोः संप्रसारणमिति संप्रसारणं ॥ परपूर्वत्वम् । शासिवसिघसीनां चेति षत्वम् । वार्याणि । वृङ् संभक्तौ । ऋह लोर्ण्यत् । ईडवंदेत्यादिनाद्युदात्तत्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः