मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् १८

संहिता

अ॒ग्निना॑ तु॒र्वशं॒ यदुं॑ परा॒वत॑ उ॒ग्रादे॑वं हवामहे ।
अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सहः॑ ॥

पदपाठः

अ॒ग्निना॑ । तु॒र्वश॑म् । यदु॑म् । प॒रा॒ऽवतः॑ । उ॒ग्रऽदे॑वम् । ह॒वा॒म॒हे॒ ।
अ॒ग्निः । न॒य॒त् । नव॑ऽवास्त्वम् । बृ॒हत्ऽर॑थम् । तु॒र्वीति॑म् । दस्य॑वे । सहः॑ ॥

सायणभाष्यम्

अग्निना सहावस्थितान् तुर्वशनामकं यदुनामकमुग्रदेवनामकं च राजर्षीन्परावतो दूरादेशाद्धवामहे । आह्वयामः । स चाग्निर्नववास्तुनामकं बृहद्रथनामकं तुर्वीतिनामकं च राजर्षीन्नयत् । इहानयतु । कीदृशोऽग्निः । दस्यवे सहः अस्मदुपद्रवहेतोश्चोरस्याभिभविता ॥ नयत् । णीञ् प्रापणे । लेट्यडागमॆः । इतश्च लोप इतीकारलोपः । नववास्त्वम् । नवं वास्तु यस्यासौ नववास्तुः । वा छंदसीत्यनुवृत्तेरमि पूर्वत्वाभावे यणादेशः । बृहद्रथम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११