मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३७, ऋक् १५

संहिता

अस्ति॒ हि ष्मा॒ मदा॑य व॒ः स्मसि॑ ष्मा व॒यमे॑षाम् ।
विश्वं॑ चि॒दायु॑र्जी॒वसे॑ ॥

पदपाठः

अस्ति॑ । हि । स्म॒ । मदा॑य । वः॒ । स्मसि॑ । स्म॒ । व॒यम् । ए॒षा॒म् ।
विश्व॑म् । चि॒त् । आयुः॑ । जी॒वसे॑ ॥

सायणभाष्यम्

हे मरुतो वो युष्माकं मदाय तृप्तयेऽस्ति हि ष्म । अस्माभिः प्रयुज्यमानं हविर्वो विद्यते खलु । एषां युष्माकं भृत्यभूता वयं स्मसि ष्म । विद्यामहे खलु । जीवसे जीवितुं विश्वं चिदायुः सर्वमप्यायुः प्रयच्छतेति शेषः ॥ स्म । निपातस्य चेति संहितायां दीर्घः । स्मसि । इदंतो मसिः । जीवसे । तुमर्थे सेसेनित्यसेप्रत्ययः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४