मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् १२

संहिता

स्थि॒रा वः॑ सन्तु ने॒मयो॒ रथा॒ अश्वा॑स एषाम् ।
सुसं॑स्कृता अ॒भीश॑वः ॥

पदपाठः

स्थि॒राः । वः॒ । स॒न्तु॒ । ने॒मयः॑ । रथाः॑ । अश्वा॑सः । ए॒षा॒म् ।
सुऽसं॑स्कृताः । अ॒भीश॑वः ॥

सायणभाष्यम्

हे मरुत एषां वो युष्माकं नेमयो रथचक्रवलयाः स्थिराः संतु । तथा रथा अश्वासोऽश्वाश्च स्थिराः संतु । अभीशवोंऽगुलयः । अभीशवो दीधितय इति तन्नामसु पाठात् । सुसंस्कृता अश्वबंधनरज्जुपरिगह्रणे स्वलंकृताः सावधानाः संतु ॥ सुसंस्कृताः । संपूर्वात्करोतेः कर्मणि क्तः । संपर्युपेभ्यः (पा ६-१-१३७) इति सुट् । पुनः सुशब्देन प्रादिसमासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । अभीशवः । अभिपूर्वादश्नोतेः कृवापाजीत्यादिनोण् । वर्णव्यत्ययेनाकारस्येकारः । उक्तं च । वर्णागमो वर्णविपर्ययश्च । का ६-३-१०९ । इति । अभीशवोऽभ्यश्नुवते कर्माणीति निरुक्तम् । नि ३-९ ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७