मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३९, ऋक् ६

संहिता

उपो॒ रथे॑षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि॑र्वहति॒ रोहि॑तः ।
आ वो॒ यामा॑य पृथि॒वी चि॑दश्रो॒दबी॑भयन्त॒ मानु॑षाः ॥

पदपाठः

उपो॒ इति॑ । रथे॑षु । पृष॑तीः । अ॒यु॒ग्ध्व॒म् । प्रष्टिः॑ । व॒ह॒ति॒ । रोहि॑तः ।
आ । वः॒ । यामा॑य । पृ॒थि॒वी । चि॒त् । अ॒श्रो॒त् । अबी॑भयन्त । मानु॑षाः ॥

सायणभाष्यम्

हे मरुतो रथेषु भवदीयेषु पृषतीर्बिंदुयुक्ता मृगीरुपो सामीप्येनैवायुग्ध्वम् । योजितवंतः । प्रष्विरेतत्संज्ञको वाहनत्रयमध्यवर्ती मृगविशेषो रोहितो मृगावांतरजाशिर्लोहितवर्णो वहति । रथं नयति । वो युष्माकं यामाय गमनाय पृथिवी चित् आंतरिक्षमप्याश्रोत् । आभिमुख्येनाश्रुणोत् । अनुजानातीत्यर्थः । पृथिवीत्यंतरिक्षनाम । पृथिवी भूः स्वयंभ्विति तन्नामसु पाठात् । मानुषाः भूलोकवर्तिनः पुरुषाः अबीभयंत । स्वयं भीताः संतोऽन्येषामपि भीतिमुत्पादितवंतः ॥ उपो इति निपातद्वयसमुदायात्मक मन्यन्निपातांतरम् । ओत् (पा १-१-१५) इति प्रगृह्यत्वम् । अयुग्द्वम् । लुङि झलो झसि (पा ८-२-२६) इति सकारस्य लोपः । चोः कुरिति कुत्वम् । रोहितः । रुहे रश्च लो वा (उ ३-९४) इतीतन्प्रत्ययांतः । नित्त्वादाद्युदात्तः । यामाय यमेर्भावे घञ् । कर्षात्वत इत्यंतोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युत्तत्वम् । अश्रोत् । श्रु श्रवणे । बहुलं छंदसीति विकरणस्य लुक् । अबीभयंत । ञिभी भये । अस्माण्ण्यंताल्लुङि भीस्म्योर्हेतुभये (पा १-३-६८) इत्यात्मने पदम् । बिभेतेर्हेतुभये षुक् (पा ७-३-४०) इति षुक् प्राप्नोति । तन्न क्रियते । आगमानुशासनस्यानित्यत्वात् । णौ चङ्युपधाह्रस्वत्वादि । पा ७-४-१ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९