मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३९, ऋक् १०

संहिता

असा॒म्योजो॑ बिभृथा सुदान॒वोऽसा॑मि धूतय॒ः शवः॑ ।
ऋ॒षि॒द्विषे॑ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विष॑म् ॥

पदपाठः

असा॑मि । ओजः॑ । बि॒भृ॒थ॒ । सु॒ऽदा॒न॒वः॒ । असा॑मि । धू॒त॒यः॒ । शवः॑ ।
ऋ॒षि॒ऽद्विषे॑ । म॒रु॒तः॒ । प॒रि॒ऽम॒न्यवे॑ । इषु॑म् । न । सृ॒ज॒त॒ । द्विष॑म् ॥

सायणभाष्यम्

हे सुदानवः शोभनदानोपेता मरुतः असामि संपूर्णमोजो बलं बिभृथ । धारयथ । हे धूतयः कंपनकारिणो मरुतः असामि संपूर्णं शवो बलम् । परिमन्यवे कोपपरिवृताय ऋषिद्विषे ऋषीणां द्वेषं कुर्वते शत्रवे तद्विनाशार्थं द्विषं द्वेषकारिणं हंतारं सृजत । तत्र दृष्टांतः । इषुं न । यथा शत्रोरुपरि बाणं मुंचंति तद्वत् । अत्र निरुक्तम् । असामि सामिप्रतिषिद्धं सामि स्यतेः । असाम्योजो बिभृथा सुदानवः । असुसमाप्तं बलं बिभृथ । कल्याणदानाः (नि ६-२३) इति ॥ बिभृथ । डुभृञ् धारणपोषणयोः जुहोत्यादित्वात् । श्लुः । भृञामिदित्यभ्यासस्येत्वम् । ऋषिद्विषे । ऋषीन् द्वेष्टीति ऋषिद्विट् । सत्सूद्विषेत्यादिना क्विप् । परिमन्यवे । मन्युना परिवृतः परिमन्युः । प्रादिसमासे परेरभितोभाविमंडलम् (पा ६-२-१८२) इत्युत्तरपदांतोदात्तत्वम् । इषुम् । इषु गतौ । इष्यति गच्छतीतीषुः । इषेः किच्च (उ १-१४) इत्युप्रत्ययः । धान्ये निदित्यनुवृत्तेर्नित्त्वादाद्युदात्तत्वम् । सृजत । सृज विसर्गे । विकरणस्य ङित्त्वाद्गुणाभावः । द्विषं क्विप्चेति क्विप् ॥ १७ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९