मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४१, ऋक् ४

संहिता

सु॒गः पन्था॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते ।
नात्रा॑वखा॒दो अ॑स्ति वः ॥

पदपाठः

सु॒ऽगः । पन्थाः॑ । अ॒नृ॒क्ष॒रः । आदि॑त्यासः । ऋ॒तम् । य॒ते ।
न । अत्र॑ । अ॒व॒ऽखा॒दः । अ॒स्ति॒ । वः॒ ॥

सायणभाष्यम्

हे आदित्यास ऋुतं यते यज्ञं गच्छते भवत्समूहाय पंथा मार्गः सुगः सुष्ठु गंतुं शक्यः अनृक्षरः कंटकरहितश्च । अत्रास्मिन्कर्मणि वो युष्माकमवखादोऽवमंतव्यः । खादो जुगुप्सितहविर्विशेषो नास्ति । तस्मादिहागंतव्यमित्यर्थः ॥ सुगः । सुदुरोरधिकरण इति गमेर्डप्रत्ययः । पंथाः । पथिमथोः सर्वनामस्थान इत्याद्युदात्तत्वम् । अनृक्षरः । ऋषी गतौ । ऋषंत्यंतर्गच्छंतीत्यृक्षराः कंटकाः । तन्यृषिभ्यां क्सरन् (उ ३-७५) इति क्सरन्प्रत्ययः कित्वाद्गुणाभावः । कत्वषत्वे । यास्कस्त्वाह । ऋक्षरः कंटक ऋच्छतेः (नि ९-३२) इति । न विद्यंते ऋक्षरा अस्मिन्नित्यनृक्षरः नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । आदित्यासः । अदितेः पुत्रा आदित्याः । दित्यदित्यादित्येश्यादिना (पा ४-१-८५) ण्यप्रत्ययः । आज्जसेरसुक् । आमंत्रिताद्युदात्तत्वम् । पादादित्वादाष्टमिकनिघाताभावः । यते । इण् गतौ । लटः शतृ । अदादित्वाच्छपो लुक् । इणो यण् (पा ६-४-८१) इति यणादेशः । शतुरनुम इति विभक्तेरुदात्तत्वम् । अवखादः । खादृ भक्षणे । भावे घञ् । अवमतः खादोऽवखादः । थाथादिनोत्तरपदांतोदात्तत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२