मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४२, ऋक् ३

संहिता

अप॒ त्यं प॑रिप॒न्थिनं॑ मुषी॒वाणं॑ हुर॒श्चित॑म् ।
दू॒रमधि॑ स्रु॒तेर॑ज ॥

पदपाठः

अप॑ । त्यम् । प॒रि॒ऽप॒न्थिन॑म् । मु॒षी॒वाण॑म् । हु॒रः॒ऽचित॑म् ।
दू॒रम् । अधि॑ । स्रु॒तेः । अ॒ज॒ ॥

सायणभाष्यम्

त्यं तादृशं पूर्वोक्तगुणयुक्तं स्रुतेर्मार्गादधि दूरमत्यंतदूरदेशं प्रति अपाज । अपगमय । कीदृशम् । परिपंथिनं मार्गप्रतिबंधकं मुषीवाणं तस्कररूपम् । मुषीवेति तस्करस्य नाम । मुषीवान् मलिम्लुच इति तन्नामसु पाठात् । हुरश्चितं कौटिल्यानां संचेतारं ॥ परिपंथिनम् । छंदसि परिपंथिपरिपरिणौ पर्यवस्थातरि (पा ८-२-८९) इति शत्रावभिधेय इनिप्रत्ययांतो निपातितः । मुषीवाणम् । मुषस्तेये । मोषणं मुषिः । औणादिको भावे किप्रत्ययः । मुषिं वनति संभजत इति मुषीवा वन षण संभक्तौ । अन्येभ्योऽपि दृश्यंत इति विच् प्रत्ययः । सर्वनामस्थाने चासंबुद्धौ (पा ६-४-८) इति दीर्घः । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वम् । हुरश्चितम् । हुर्छा कौटिल्ये । संपदादिलक्षणो भावे क्विप् । राल्लोप इति छकारलोपः । हुरश्चिनोतीति हुरश्चित् । चिनोतेः क्विपि तुगागमः । तत्पुरुषे कृति बहुलमित्यलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुत्रेः । स्रुगतौ । क्तिच् क्तौ च संज्ञायामिति क्तिच् । चित इत्यंतोदात्तत्वम् । अज । अज गतिक्षेपणयोः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४